Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
21
( प्रबन्धः ८ ) दूषयन्ति नव नोकषायका, दुर्ग्रहा अपि न तं ग्रहा इव । यस्त्वदुक्तविधिना सुरक्षितं, स्वं करोति करुणैकसागर ॥ १ ॥
राजभययक्षराक्षसभूतप्रेताः पिशाचशाकिन्यः । नायान्ति तस्य मूलं स्तम्भनजिननाम हृदि यस्य ॥ २ ॥
1
कलिङ्गदेशे काञ्चनपुरे पद्मनाभो राजा । पद्मावती प्रिया । इतश्च तत्रागतः केवली सुबाहुनामा हेमकमलोपविष्टः करोति व्याख्याम् । दृष्टश्च स राज्ञा बाह्ये वाजिक्रीडां वितन्वता । नत्वा पृष्टश्च इहागमनकारणम् । अस्मिन् विन्ध्यगिरौ रेवातटे हस्तिभुवि चतुर्विंशतियोजनपृथुलशाखाव्यापो द्वादशयोजनोन्नतः कुञ्जरराजनाम वोऽस्ति तत्रास्ते सर्वदुःखवारणस्य भुवनत्रयतारणनामदेवाधिदेवस्य प्रतिमा । तां वन्दितुमिहागतोऽस्मि हे राजन् !, तवेति प्रश्नोत्तरम् । इति श्रुत्वा हृष्टा गताः सर्वेऽपि सम्यक्त्वधारिणो जाताः । एकदा तु स राजा वन्यगन्धगजबन्धनक्रीडार्थं हस्तिभूमौ गजाकरे राम । तत्रान्तरे अकालजलदजलसिक्तभूमिसुरभिमृत्स्नागन्धाघ्राणे नासिकापुटकुटीकुटुम्बितां गते प्रोन्मत्तगन्धगजवृन्देनाक्रान्तः । पलायिताः पूर्वमेव पदातयः तृणानीव असाराणि पवमानेनेव । ततो भटा नेशुः अपण्डितमुखे वचनरसा इव ततोऽश्वाः पेतुः अविनीतजनगुणा इव । ततो गजाः सैनिका मुमूर्च्छः सुलोचना सविलासंलोचनाञ्चलाचान्ता रागिगणा इव । क्षणात् तत् सैन्यं सर्वम्भवस्वरूपमिव विश्रसापरिणामजातं विगत
Jain Education International
******
( प्रबन्धः ९ )
वेशिते जनवल्लभो राजा नाम्ना परिणामेन च प्रतिष्ठाकूर्मः 'जगज्जे (ज्ज्ये)ष्ठ: वैरवाराहः अरिविदारणनारसिंहः पराक्रमपरशुरामः उन्नतिमेरुः अगाधतासमुद्रः मर्यादामकराकरः क्षमाक्ष्मासमः विवेक श्रीवासुदेवः अरियवासकवारिदावतारः पूर्वजाचारभारगोवर्धनोद्धरणगोविन्दः राजनीतिपार्वतीपरितोषसुखार्धनारीनटेश्वरः समस्तविज्ञानविश्वकर्मावतारः प्रजारक्षणदामोदरः संसारसर्वस्वरङ्गलीलारम्भाभाववासवः अनुजीविदुर्दशादुः खधारणीगिरिश्रेणीदलनदम्भोलि : न्यायान्यायदुग्धनीर
१. ३२ - ३३ तम पत्रद्वयं नास्तीति पाठः खण्डितः ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126