Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 40
________________ तस्य जीमूतवाहनस्य परप्राणैर्निजप्राणान्, सर्वे रक्षन्ति जन्तवः । निजप्राणैः परप्राणानेको जीमूतवाहनः ॥ १ ॥ देवाः स्वयम्भूनामदेवस्य भक्तास्तत्र प्रकटीबभूवुः । राज्ञो मांगलिकानि विदधुः । अष्टादशप्रबन्धोऽयं, चरिते स्तम्भनप्रभोः । जीमूतवाहनकथा, कथिता मेरुसूरिणा ।। (प्रबन्धः १९) पुराणानि पुराणानि, तृणानीव यदग्रतः । एक: स जीयात् सिद्धान्त, एकैकाक्षरमुक्तिदः ॥ १ ॥ दिवि वा भुवि वा ममास्तु वासो, नरके वा नरकात(न्त)कप्रकामम् ।। अवधीरितशारदारविन्दौ, __चरणौ ते मरणेऽपि चिन्तयामि ।। वाणारसे देशे वाराणस्यां नगर्यां कपिलब्राह्मणेनाश्वमेधश्चक्रे । सोऽश्वो मृत्वा गौर्जातः । स द्विजोऽप्यन्तजोऽजनि कालाभिधानः । तेन कालाभिधानेन जनङ्गमेन सा घोटकजीवगौः कम्बिता । दैवयोगेन स चण्डालस्तन्मांसादनात् विभावर्यां ममार । शुभमनुष्यानुपुर्वीसमुदयेन लेश्यावशात् समुपचितमनुष्यगतिः सहजसञ्जातकर्मनिर्जराबलात् बीजउरदेशे महन्तकपुरे कालसेनो नाम राजा जातः । गोजीवोऽपि तस्यैव राज्ञो महादेवनामा मन्त्री जातः । परमन्योन्यं महाविरोधेन राज्यकर्माणि कुरुतस्तौ । एकदा च राज्ञा केनापि छलेन धृतः स मन्त्री सूल्यां दापितो मृतः शुभभावाद्वयन्तरो जातः । प्रस्तावं प्राप्य स्वं वैरं विधातुं लग्नः स पातकी व्यन्तरापसदः खादयितुं लोकान् । ततो देशे डिण्डिमो दापितो राज्ञा-यो जानाति मान्त्रिको मन्त्रवादं विधातुं एनं स व्यन्तरं वशीकरोतु । इत्यर्थे मदीयादेशोऽस्ति । ततो मण्डलमुहृत्य स बलादाकृष्टः नस्तितवृष इवाययौ । मान्त्रिकैश्च छलेनाक्रम्य वाक्त्रितयेन बद्धः नित्यं मनुष्यमेकं तुभ्यं देयं इति पणे स्थापितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126