Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 75
________________ 70 सप्ताह तत्र स्थितः । तावता गौडदेशे चतुरपुराद्गंगाधरनृपो विश्वविभ्रमाख्यां महाराष्ट्रदेशेशतैलपदेवपुत्रीं परिणेतुं चलितः । तद्गिरेरध आगतस्तावन्मृतः । मेघरथस्तत्तनुं प्रविश्य स्वतनुं जिनाग्रे देवानां भलापयित्वा कन्यां परिणीय चतुरपुरे गतः । तद्राज्यं स्वं चक्रे । पुनः प्रभावसागरदेवं नत्वा मेघरथदेहं प्रविश्य गङ्गाधरतनुं तत्र मुक्त्वा स्वपुरं गतस्तत्र पित्रा राज्यं दत्तम् । ३२ कन्याश्च नृपैर्दत्ता: । पृथ्वीं जिनमण्डिताञ्च ॥ २१ परकायप्रवेशः ॥ सौराष्ट्रे उषामण्डले सुमित्रनृपसुमित्रासूर्मञ्जुघोषो महादुष्टस्तेन लोक उद्वेजितो राज्ञे व्यजिज्ञपत् । तेन स आकार्य निर्विषयीकृतो गतोऽरण्ये तृषार्तो हंसमिथुनेन स्वस्थीकृतः । बृहत्त्वात् तत्पक्षलग्नो भ्रमति । अन्यदाऽध्वनि गच्छन् हंसः पृष्टः। कुत्र याथ । स आह । यत्प्रभावाद्वयं नृभाषां वच्मः तं देवं नन्तुं नीलगिरौ नीलवने कुमारसरसि स्थितम् तत्र गत्वा जिनमानर्चु: (र्च ) । हंसः सर्वमपूरयत् । हंसौ तत्र स्थितौ । स च ६४ उपवासैर्वरं लेभे - राज्यं लभस्व इति । हंसी (स) बलेन गतः स्वं पुरम् । पित्रा पट्टेऽभिषिक्तः । हंसमिथुनं तत्रैव स्थापितम् । प्रत्यहं हंसमारुह्य तं जिनं नन्तुं खे गच्छन् हंससेन इति ख्यातः । क्रमात्तद्द्द्वयं मृत्वा तस्य पुत्रौ जातौ । नृपोवर्षशतमेवं राज्यं कृत्वा क्रमाज्ज्येष्ठपुत्रे तन्त्र्यस्य स्वः ||२२|| खगमनम् ।। जालन्धरदेशे चन्द्रवटपुरे मेघनादनृपः । रुक्मिणी देवी । तस्य मार्यमाणचौरेणार्पितं विद्याद्वयं सिद्धमस्ति । अन्यदा नद्यां क्रीडतः स्त्रीशबमागतम् । सा निर्विषीकृत्य परिणीता । तया सह गत्वा नरसुन्दरनृपस्तत्पिता तेन वेष्टितः । रणे बद्धस्तेन राज्यं दत्तं स्वयं संयमं प्रपाल्य मोक्षे । अन्यदा मेघनादोऽश्वकर्षितोऽरण्यानीं भ्रमन् तापसैर्दर्शितं सितकूपाद्रौ वज्रशृङ्गे दुग्धोदधिसरसि बदरि(री) वने पिचुपिताहवकुण्डपार्श्वे कृपाभंडाराख्यदेवं वन्दे ३० उपवासैर्लब्धवरो विमानेन खगामीति जातः । गतः स्वं पुरम् । प्रत्यहं विमानेन जिनं नन्तुमेति । एवं वर्षलक्षम् । मृत्वा माहेन्द्रः || २३ विमानम् ॥ 1 I हीमउरदेशे हीरपुरे हरिदत्तनृपः । हरिप्रिया देवी । अन्यदा निशि वने बालां रुदतीं श्रुत्वा खड्गसखस्तत्र गतः । सा पृष्टाऽऽह । अहं कोकंणदेशेशकुमारेश्वरपुत्री सौभाग्यमञ्जरी नाम । गौडदेशेशगदाधरेण बलादुद्वोढुमत्रानीता । अद्य स सिद्धविद्यः सायं मां परिणेष्यति । अहं च प्राग् हरिदत्तानुरक्ताऽभूवम् । ततः स विद्यां पाठां. १. सर्वमयूरवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126