Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 70
________________ 65 वंदित्वा गमनहेतुं पृष्टः प्राह । हस्तिभुवि नर्मदातटे विन्ध्याद्रिगह्वरे कुञ्जरवटो १२ योजनमानस्तत्र भुवनत्रयतारणाख्यबिम्बम् । तत्तीर्थभूस्पर्शनार्थमागमामः । अन्यदा नृपो वन्ये भैः क्रीडन् हस्ती(स्ति) करे पतितः । तत्र नानागजोत्पत्तिवर्णना । तावताऽकालाब्दजलसिक्तभूगंधोन्मत्तगजकुलेनाक्रान्तो भयद्रुतस्तद्गुरुवचः स्मृत्वा कुञ्जरवटेऽधिरुह्य स्वामिन् ! मां रक्ष रक्षेति पूच्चक्रे। तावता हुङ्कारत्रयं निर्गतम् । तेन ते गजा ग्लानीभूतांगाः सर्वे नेशुः । नृपो वटादुत्तीर्य जिनं ननाम । तदा देव एक: कृताञ्जालिजिनं स्तुवन्नृपमाह । वरं वृणु । राज्ञा तत्र तत्पाद्यत् पुरं निवेशितं, वटपरिसरे तत्र प्रासादे तं जिनमानर्च । मृत्वा १२ स्वर्गे अगात् ॥ ८ गजः ॥ ___ कोसलायां साकेते जनवल्लभः कुटुम्बी क्षेत्रं कर्षन् जैनमुनिपार्वे प्राप्तसम्यक्त्वः सहजासिद्धाख्यं बिम्बं पूज्यमिति मुनिनादिष्टः । अन्यदाऽपुत्रे नृपे मृते स पञ्चदिव्यैः पट्टे न्यस्तः । कोऽप्याज्ञां न मन्यते । सीमालेर्वेष्टिता पू: । नृपो व्याकुलः खे गच्छन्तं विद्यासागराख्यं चारणर्षि पप्रच्छ । स आह सहजसिद्धेश्वरं शरणं भज । राजा तद्ध्यानं चक्रे । तावता साधनकुपात्वातोलीधमज्वालादिक्रमेण सुरकोटिसेव्यमानं सहजसिद्धेश्वरबिम्बमाविर्भूतं राज्ञाऽचितं महामहैः । ततो वैरिसैन्यं सत्यपुरि(री)यश्रीवीररीत्या हताहतं पलायितुं लग्नम् । अन्धा इव जाताः किमपि न पश्यन्ति । ततस्तमेव देवं शरणं श्रिता नानोपदामिः । स नृपो देवादेशान्मार्तण्डाख्योऽभूत् ॥ ९ रणभयं ॥ सौवीरे वीतभयपुरे वीरसेननृपः । इन्दुमती देवी । श्रीनिवासाख्यो दरिद्रः श्रेष्ठी घृतकुतपिकां वहन् मार्गे सायं देवकृतप्रासादे लक्ष्मीकान्ताख्यं बिम्बं दृष्टवा नत्वा स्वाज्येन दीपं कृत्वा पद्या तद्वति च कृत्वोपवासत्रयेणाऽऽराधयत् । तुष्टेन्द्रेण सोऽब्धितीरे मुक्तः । तत्र श्रमात्सुप्तं तं प्रथमकल्लोले श्रीरालिङ्गत् । द्वितीयकल्लोले गजा(:) । तृतीये अक्षयकोशः । तत उत्पाट्य स्वपुरे नीतस्तत्र राज्ञा राज्यं तस्य दत्तं स्वयं दीक्षा । तेन नव्यचैत्यं कृत्वा तत्र स जिनो यावज्जीवमाचि अन्ते दीक्षया स्वः ॥१० श्रीः ॥ मगधे राजगृहे नरकान्तनृपो रोगैरकिञ्चित्करः । अन्यदा गङ्गायां सायं स्नाने जलमानुषमिथुनं मिथो वार्तयद् अश्रृणोत् । नर आह - प्रिये ! अस्य पुरस्येशो रोगार्तोऽरिभिर्मारियिष्यते । तत: तया कथं चेत्सीति पृष्टे प्राह । नन्दीश्वरेऽष्टाहिकां कृत्वा वलमानसुरगणैर्जलकेलिं कुर्वद्भिरिदमूचे । पुनः साऽऽह - कोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126