Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 71
________________ 66 जयविधिस्तैरुक्तः ? स प्राह ओं ! परं मध्यरात्रे वक्ष्ये, अधुना जना (ना:) शृण्वन्ति । तावद्राजा सरः पालौ वटगह्वरे स्थितो निशीथे तदुक्ति सु (शु) श्राव । अस्य वटस्याधः पुरुषत्रयं खनने मणिरस्ति । तस्मिन्करेबद्धे खगमनशक्तिः स्यात् । तद्बलेन चंदनाचले कंकोलवनेऽग्निशृङ्गशिखरे सिन्दूरकुण्डान्तः सिद्धैरर्च्यमानं जिनबिम्बं यदि गत्वा स्वपुरे नयति तदा नीरुग् जीवति । नृपस्तत्र गत्वा तल्लात्वा यावदेति तावत्पुरं सीमालैर्वेष्टितं पश्यति । बिम्बमुत्पाट्य स्वगृहे सिंहासने न्यस्य यावदचितं तावत्सीमाला भयद्रुता नष्टाः । राज्ञः पट्टाभिषेकः । श्राद्धो राज्यं स्वः क्रमात्सेत्स्यति ॥ ११ जयवादः ॥ नक्तपालदेशे श्रीपुरे भीमसेननृपो गुरुं पप्रच्छ । अहं शत्रुञ्जये यात्रेच्छुरंतरा च भीः, किं कुर्वे ? गुरुराह श्रीक्षेमङ्कराख्यबिम्बं मानुषोत्तराद्रौ रत्नप्रस्थे त्रिभुवनस्वामिन्याऽर्च्यमानमस्ति । शासनदेवीमाराध्य तत्र गत्वा तस्यार्हतः प्रसादात् श्रीशत्रुञ्जययात्रामनोरथं पूरयेः तेन साराद्वा । क्षेमङ्कराख्यबिम्बमर्चितम् । लब्धो वरः । देवसान्निध्याज्जङ्गमवप्रेण गत्वा श्रीशत्रुञ्जययात्रा कृता । न केनाऽप्यध्वनि पराभूतः । राज्यान्तेऽन्तः कृत्केवली भूत्वा सिद्धः || १२ मनोरथः || नर्मदापाददेशे नंदपुर्यां चन्द्रशेखरनृपश्चन्द्रकान्तिदेवी । पापद्धिहतसिंहजीवव्यन्तरेण तस्य २१ पूर्वजा हताः । सोऽपि पापद्धिसक्तोऽन्यदा वने क्रीडन् विन्ध्याद्रिगह्वरे तोरणमालाख्यट्रंके आम्रारामे उदुम्बरसरस्यखाते नर्मदाम्बुपूर्णे साजणगाजणाख्यमुदुम्बरवृक्षद्वयं एकतो मुनिं च दृष्टवाऽपृच्छत् । के यूयम् ? किमित्यत्र ? स प्राह- कर्णाटेशविकटोत्कटनृपसूर्घटोत्कटोऽहं शबरनाथाख्यबिम्बं नन्तुमत्रागाम् । ततः क्वास्तीति पृष्टे मुनिराह - अस्योदुम्बरस्य मध्ये । कुत इत्युक्ते मूलसम्बन्धमाह 'मुनिः । पुरा शबररूपिणा शिवेनात्र वृक्षमूले शूकरस्य शरो मुक्तो न लग्नः । स विस्मितः । शान्तोऽचिन्तयत् । नूनं क्वापि अर्हत्प्रतिमाऽस्तीति । तावत्प्रादुरासीत् सा । वन्दिता तेन हृष्टेन सता । शबररूपेश्वरेण स्थापितत्वात् शबरनाथ इति नाम तद्विम्बं अस्योदुम्बरस्य मध्ये बीडितमस्ति तेन गच्छता । तावत् नृपो भक्त्या आहदेव ! यदि भक्तोऽहं देहि मे दर्शनम् । प्रकटीभूत देवः तेन हृष्टेन तद्वाण्या पापधिस्त्यक्ता । श्राद्धः । क्रमान्मुनिर्भूत्वा सिंहजीवव्यन्तरं प्राबोधयत् । मृत्वा सर्वार्थसिद्धिं ययौ ॥१३ पापद्धिः ॥ पाठां. १. ऋषिः । २. स्थापितवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126