Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
चतुरङ्गदलसबलः गगनपुरेशस्य रत्नचूडस्य विजयार्थं दक्षिणश्रेण्यां प्रहितः । हरिदत्तेन रणे स्वशक्त्या पराजितो रत्नचूडः । ततो रत्नचूडेनापि कन्याशतं हरिदत्तो विवाहितः । करमोचने प्रज्ञप्ती नाम महाविद्या दत्ता राज्ञा हरिदत्ताय । सहस्त्रं च हस्तिनां वाजिनां च लक्षं पदातिकोटिं च अयुतं ग्रामाणां च प्रयुतं च दासीनां अर्धप्रयुतं च दासानाम् । इत्थं परिणीय नागपुरं पुनरायातः । तत्र महासुखं कियन्त्यहानि स्थित्वा सबलवाहनः प्राप स्वगृहं विमानेन । अपि चेत्थं राजसुखं भुञ्जानस्य तस्य जलशोषोऽग्निनाशश्व भाग्यक्षयात् यज्ञे (जसे) देशमध्ये । कल्पान्तकालोपमा जाता । ततो हाहाकारे प्रसरति बुम्बारवेण रोदसी विवरं दलायति (?) । पूत्कारभारनिर्भरं भवनान्तरं प्रसरति कृतस्नानः कृतदेवगुरुस्मरणस्तुति मन्त्रपाठपरायणः समावजितदेवव्रजः समाह्वाननपूर्वं समाकर्षितदेवीवृन्दः कृतश्वा (स्वा)ङ्गरक्षः स्वां कुलदेवीमाराधयामास । ततस्तस्या आदेशेन "कुरुक्षेत्रमण्डले पञ्चहूदाददूरवर्तिनि विचित्रकूटगिरी त्रिकूटशृङ्गे स्थितं परमेश्वरनाम जिनबिम्बं आनीय महाशान्तिकार्थकृतस्नात्रजलधारया सर्वं लोकं सुखीकुरु" । कृतमित्थं च तेन राज्ञा । इत्थं शरदां लक्षं यावद् भक्त्या पूजितः । इत्थं धर्ममनेकधा विधाय सुराङ्गानानां नयनातिथिर्बभूव ।
हरिदत्तप्रबन्धोऽयं द्विदादशतया मितः । स्तम्भनेन्द्रचरित्रेऽस्मिन्नघौघघस्मरापहे ।।
(प्रबन्धः २५) निरञ्जनो निराकारो, मुक्तिस्थोऽपि हि सर्वगः । अग्राह्यश्चेन्द्रियाणां य; स देवो हृदि मे सदा ॥१॥
हस्तिनागपुरे कामसेनो राजा । कामपताकानामवामाङ्गलक्ष्मीः चास्य । तत्पुरे अष्टौ सहस्राणि नैगमानां अष्टासु दिक्षु व्यवसायार्थं प्रसरन्ति यस्य स कार्तिकनामा धनद इव धनदो निवसति महा श्रेष्ठी । गरीयः सुगरिष्ठः श्रीमुनिसुव्रतस्वामिचरणाम्भोजभृङ्गराजः परमार्हतः विशुद्धसम्यग्दर्शनः । अन्यच्चोच्यते अस्य-कार्तिकश्रेष्ठिमित्रं गङ्गदत्तनामा संसारविरक्तकर्मलाघवतया संयम जग्राह । स च कार्तिकनामा तेन गङ्गदत्तेन षण्मासी यावद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126