Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
51 रुद्रत्वं तस्यान्तःकरणात् ।। इत्थं सर्वे स्त्रीदासा देवाः । यदुक्तं
ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलङ्किता । निग्रहानुग्रहपरास्ते देवाः स्युर्न मुक्तये ॥ १ ॥ नाट्याट्टहाससङ्गीताद्युपप्लवविसंस्थुलाः । लम्भयेयुः पदं शांतं, प्रपन्नान् प्राणिनः कथम् ।। २ ।। कोदण्डदण्डचक्रासिशूलशक्तिधरा अपि । हिंसका अपि पूज्यन्ते, देवबुद्ध्या दुरात्मभिः ॥ ३ ॥
इति वदतः पक्षेशस्य सरस्वती सान्निध्यं चकार । वाक्पतिरपि च वचनानुप्रवेशं करोति स्म । अपरे सर्वेऽपि तत्रस्था जना इत्यूचुः - "साधु भोः ! साधु भोः! सत्यमुक्तम् । तेऽपि मिथ्यादृशः प्रतिवादिनः सकम्पाः सस्वेदा मुद्रितमुखास्तस्थुः ।" हतं सेन्यमनायकम् “इति नीतितत्त्वं विचिन्त्य को वादोऽस्माकं यदर्थं वादस्ते देवा मोक्षदातारो न स्युः । अत्रान्तरे धर्मदेवता महती प्रभावनां चकार। आकाशदुन्दुभिकुसुमवृष्ट्यादि श्रीपार्श्वमूर्धनि तद्भक्तानां च सर्वेषां शिरःसु। सर्वे ततः स्वाश्रयं जग्मुः । सोऽपि कमठः स्वपक्षहानि निरीक्ष्य विलक्षास्यो दुःखान्यनुभूय मृतोऽजनि मेघः कुमारः प्रस्तावेऽवधिना विज्ञाय पूर्वभववैरेण तेन छद्मस्थपर्यायस्थितं प्रभुं श्रीपार्वं महावृष्टिजलोपसर्गादिना पीडितं धरणेन्द्रो अध आधाररूपेण ऊर्ध्वं छत्राकारफणरुपेण जिनं कायोत्सर्गस्थं सुखाकरोति स्म । सोऽपि च प्रतिबोधितो भगवता । यदाहुः श्रीमानतुङ्गसूरिपादाः -
उवसग्गंते कमठासुरेण झाणाओ जो न संचलिओ । सो सुरनरकिन्नरजुवईहिं संथुओ जयउ पासजिणो ।। इति कमठेनाऽपि पूजितः पार्श्वनाथनाम्ना एष स्तम्भनप्रभुः । धरणेन्द्रप्रबन्धोऽयं, चरिते स्तम्भनप्रभोः । एकोनत्रिंशत्तमतामाश्रितोऽतिशयाश्रितः ॥ १ ॥
(प्रबन्धः ३०) जगद्योनिरयोनिस्त्वं, जगदीशोप्यनीश्वरः । जगदादिरनादिस्त्वं, जगदन्तोप्यनन्तकः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126