Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 60
________________ 55 प्रभावकपरम्परायां श्रीचन्द्रगच्छे श्रीसुविहिंतशिरोऽवंतसवर्धमानसूरिनामा वढवाणनगरे विहारं कुर्वन्नाययौ । लब्धसोमेश्वरस्वप्नं (नः) सोमेश्वरनामा द्विजातिः प्रभाते वर्धमानसूरिरूप ईश्वरोऽयं साक्षादेष भगवानाचार्यः इति स्वप्नादेशप्रमाणेन प्रतिपद्य स्वां यात्रां सम्पूर्णां मन्यमानो आचार्यन्तिके शिष्यो जातः । पदेऽभिषिक्तः । काले जाते जिनेश्वरसूरिनामा तस्य शिष्यः श्रीमदभयदेवसूरिर्नवाङ्गवृत्तिकारः । सोऽपि कर्मोदयेन कुष्ठी जातः । श्रुतदेवतादेशात् दक्षिणदिग्विभागात् धवलिक्कके समागत्य सङ्घ यात्रया श्रीस्तम्भनायकं प्रणन्तुं स सूरिरागतः । ११३१ वर्षे श्रीस्तम्भनायकः प्रकटीकृतः । प्रतिदिनग्रामभट्टकपिलया गवा निजौधस्य क्षरत्पयोधारया सञ्जायमानस्त्रपनस्वरूपोऽभूत् । तदा च श्रीमदभयदेवसूरिणा जयतिहुयणद्वात्रिंशतिका सर्वजिनशासनभक्तदैवतगणप्रौढप्रतापोदयात् गुप्तमहामन्त्राक्षरा पेठे । षोडशे च काव्ये स सूरिरशोकबालकुन्तलसमपुद्गलश्रीरजनि । स्वामी च पलाशवृक्षमूलात् आविरास । ततः शासनप्रभावको जातः । १३६८ वर्षे इदं च बिम्बं श्रीस्तम्भतीर्थे समायातं भविकानुग्रहणाय । इत्थं कालापेक्षया नानाभक्तैः नानानामग्राहं नाना भक्त्या पूजितोऽयं परमेश्वरः सर्वार्थसिद्धिदाता जातस्तेषाम् । द्वात्रिंशता प्रबन्धैर्बद्धं श्रीस्तम्भनाथचरितमिदम् । यत्र द्विषोडशोऽभूद्, बन्धोऽभयदेवसूरिकथा || इत्थं अमन्दजगदानन्ददायिनी आचार्य श्रीमेरुतुङ्गविरचिते देवाधिदेवमाहात्म्यशास्त्रे श्रीस्तम्भनाथचरित्रे द्वात्रिंशत्प्रबन्धबन्धुरे द्वात्रिंशत्तमः प्रबन्धः समर्थितः I समाप्तं चेदं श्रीस्तम्भनाथचरितम् ॥ प्रशस्तिः ॥ स्वस्ति श्रीनृपविक्रमकालादेकोत्तरे- कृतिम् । चतुर्दशशते वर्षे, रवियोगे त्रयोदशे || कार्तिके मासि राकायां, गुरुवारे स्थितोदये । कल्याणकारणं स्तम्भनाथस्य चरितं मुदा || सूरिश्री मेरुतुङ्गेण, वादिहव्यकृशानुना । वादिवेश्याभुजङ्गेन, श्वेतवस्त्रांहिरेणुना || Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126