Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परनामा निर्गत्य गतो देशान्तरं अन्यत् । ततो मलयाचलं प्राप्तः तत्र परिभ्रमन् हंसं सरोऽपश्यत् । जलं पीत्वा पालिविश्रान्तः अकस्मादागतं तत्र कुरंङ्गीद्वयं शृङ्गाभ्यां तं घ्नतः । तेनाप्युक्तं यदीत्थं रमणीद्वयं मदङ्गं स्तनाभ्यां स्पृशति तदा तत्सुखाकरोति वचनान्ते तदिन्द्रजालवद् विलीनम् । ततः प्रोत्थाय लग्नोऽग्रे गन्तुम् । विवरं विलोक्य प्रविष्टः । ततोऽग्रे चलितो युवतीद्वयं शिरोधुतिकारकं स्तनाभ्यां हन्तुं लग्नं तं प्रति । कथितमिति च तेन युवतियुगलेन "भो व्यसनाकर ! यत् प्रार्थितं त्वया क्षणार्धात् पूर्वं तल्लब्धम् । ततः स जगाम शीघ्रपदम् । तथा क्रीडाकदर्थितोऽग्रे अजगिरिणाऽत्तुमारब्धः नंष्ट्वा तरुमधिरुढः । पुनरुत्तीर्य गन्तुम् प्रवृत्तो हस्तिनाऽऽक्रान्तः । हस्त्यपि च पुरः समुत्थितः(त)सिंहभयात् त्रस्तः । सिंहोऽपि च तमग्रे दण्डवत् भूपतितं विलोक्यं धूर्ततया च "मां खाद मातुल हे!" इति भणन्तं शिरसा प्रणमन्तं च 'एककवलमात्रमसि मे, तव घाते मे पराक्रमः समरसण्टङ्ककोटिटीकां नाटीकते' । अन्यच्च
उत्कटकरिकरटिकटस्फटपाटनसुपुटकोटिभिः कुटिलैः । खेलेऽपि न खलु नखरैः उल्लिखति हरिः खुरैराखुम् ॥ १ ॥ अपि च सिंह: करोति विक्रममलिकुलझङ्कारसूचिते करिणि । न पुनर्नखमुखविल(लि)खितभूतलविवरस्थितेनकुले ॥
ततो राजकुमारो गिरिशिखरं गतः । राहुमुखमुक्तो दिनपतिरिव उदयाचलचूलावलम्बी तत्रस्थः किञ्चिन्मनुष्यादिकं न पश्यति यावत्, तावद गिरिपातेच्छुर्जातः । निषिध्दस्तु चारुदत्तनाम्ना मुनिना गह्वरस्थेन वारत्रयं "मा पतेति" । ततो भ्रान्त्वा विलोकितो वन्दितश्च सः । देशना कृता तस्याग्रे । आलाप: सञ्जातः । मिथो धर्मगोष्ठीरसः प्रवृत्तः । “भगवन् ! कस्माद्रक्षितोऽहं मरणं कुर्वन् ? किं कोऽपि दास्यति मे राज्यम् ?". । मुनिनोक्तम् - "काञ्चनतारणनाम चैत्यै पारगतेश्वरं पथाऽनेन गत्वा समाराधय" । तुष्टो देवः सप्तोपवासैः । तद्देवभक्तैरुत्पाट्य सुप्तः सन् निशि नीतोऽवन्त्याम् । पितरि रात्रिमृते प्रगे पट्टेऽभिषिक्तः । काले जातो महाविक्रमी श्रावकश्च गृहीतव्रतो मृतश्च माहेन्द्रे देवो जातः । नरशार्दूलनाम दत्तं देवैस्तस्य राज्यं कुर्वतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126