Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 28
________________ 23 क्रान्तिजातनिविषाः पन्नगा इव व्यपमदा उपदापूर्वं तं स्वामिनं शरणं ययुः । ये च न नमन्त्येनं नश्यन्ति चक्षुभ्यां न पश्यन्ति ते ततो देवगिरा प्रतिबुद्धा जाता: सेवकाः । तस्य नाम दत्तं देवादेशेन देवैः मार्तण्ड इति । राजा प्रसिद्धि गतः । चैत्ये च देवं तं निवेश्य महाभक्त्या पूजयित्वा चाखण्डप्रभावश्चिरं राज्यं चकार । समरभयशान्तिकारी, मार्तण्डनृपेण पूजितो भक्त्या । श्रीस्तम्भनजिननाथस्तच्चरिते नवमबन्धोऽयम् ।। १ ।। दुःकषायचतुरङ्गवाहिनी, प्रौढरागनृपकल्पितः कलिः । त्वत्रिशुद्धिकृतभक्तिशक्तिभिर्भासुरैर्यदि नरैः समाप्यते ॥ २ ॥ (प्रबन्धः १०) श्रीमेरुतुङ्गसूरेर्मा, भूदुत्सूत्रपातकम् । मा भूदाशातनावार्ता, देवस्तम्भनवर्णने ।। १ ।। सौवीरदेशे वीतभये पत्तने श्रीवीरसेनो नाम राजा । वीरमती भार्याऽस्य च । तत्र श्रीनिवासनामा दरिद्री गोष्ठी घृतकूपं शिरसा वहन् सन्ध्याक्षणे पथि देवनिर्मितभवने लक्ष्मीकान्तनाम बिम्बं विलोक्य ननाम । पूजां कृत्वा निजकूपघृतेन स्वपटी विभिद्य दीपवर्ति विधाय दीपं कृत्वा चाग्रे सुस्वाप(ष्वाप) । तुष्टो देवेन्द्रः । तस्मै वरं दत्वा आदेशं कृतवान्-हे श्रेष्ठिन् ! जलधेस्तीरं याहि । तत्र गतस्त्वं मद्दत्तवरपरप्रा - ततः सोऽपि तथा चकार । इतश्चाऽक्षुब्धाब्धिकल्लोलहस्ताग्रनिषि(ब) ण्णा लक्ष्मीस्तं श्रेष्ठिनं रत्नाकरतीरस्थं समागत्य समालिलिङ्गभुजोपपीडम् । चिरविरहातुरा प्रेयसीव निजं प्रियं प्राप्य सपुलका सुप्तं समुत्थाप्य । द्वितीयस्यां वेलायां द्वितीयालोल कल्लोलाग्राधिरुढा हया गजा आगताः । तथैव तृतीयायां तृतीयोत्तङ्गप्रत्तरङ्गतरङ्गाग्रे रङ्गत्तररत्ननिकरोऽक्षयकोशनामा निधिश्च समागतः । देवा अपि खे स्व(सु)स्थितलवणाधिपप्रमुखाः- सभक्तिकं तं स्तुवन्तः । श्रीनिवासस्य स्वपुरं समागतस्य सतः तत्पुरेशेन श्रीवीरसेनेन अपुत्रिणा स्वं राज्यं दत्वा व्रतं जगृहे। गगनवाद्यमानदेवदुन्दुभिक्रियमाणकुसुमवृष्टिनृत्यमानमधुकरीनामनाटक सहर्षगीयमानश्रीकान्तदेवप्रसादावदातपरम्पराप्रकटितसर्वराजमण्डलमहाचमत्काराकरस्य इहभवेऽपि लक्ष्मीकान्तदेवप्रसादेन महाराजा(जो) जातः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126