Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
28
रणं कर्तुमुद्यतौ । स राजा तत्रासीनो विलोक्यति स्म । क्षणेन गगनात् तौ दम्पती पतित्वा राज्ञोऽग्रे मृतौ । अत्रान्तरे विमानस्थो विद्याधरेश्वरोऽवोचत् भो राजन् ! दुर्मना इव किं लक्ष्यसे ? । भो महाराज ! जगामाऽदैवं तव प्राप्तं त्वया सर्वं समीहितं, ननाश विकलत्वं पूर्वभव श्रमणाभ्याख्यानदानफलम् । अन्यच्च गङ्गावेलाजलस्थाप्यमानदक्षिणमधुचिञ्चामूलाधस्थितपुरुषोत्तमनामबिम्बस्नात्रजलं पिब । तदाकर्ण्य राज्ञा तद्विद्याधरवचनं तथा चक्रे । तज्जलं देवद्रव्यमपि सत् “सव्वसमाहिवत्तीयागारेणं" इत्यागारपदबलेन " महत्तरागारेणं" च अस्यापि पदस्य बलेन सर्वसङ्खेन मिलित्वा कृतानुग्रहः पपौ देवस्त्रात्रमपि । ततो वाक्पटुताऽभवत् । जज्ञे कल्याणम् । सर्वदेशे महोत्सवः प्रसत्रे । जानपदिकाः सोत्साहाः कृतस्नाना सपुष्पशिरसः कण्ठदामाभिरामा सनन्दनाः सचन्दनाः गतरोगाः कृतभोगाः परिधृतविचित्राम्बराः प्रतिगृहप्रतिपाटकप्रतिरथ्यामुखप्रतिचत्वरत्रिकतूर्यास्फालननिनादप्रतिनिनदिताम्बराः सगीताः स्फीताः सनृत्यारम्भां वीतशङ्का विगतातङ्का लक्ष्मीवन्तः सपक्षाः दक्षा अविषादाः प्राप्तराजप्रसादाः घनदानाः स्थूलहस्ता जबादिजलहरा बीटिकावज्राकराः सूत्कटीसमुद्रा वैरिवैरकरणवाराहाः प्रतिष्ठानिष्ठा वरिष्ठाः पण्डिताः अखण्डिताः बद्धनिजनिजजातिटोला विकसत्कपोला ताम्बलोत्फुल्लगल्लमुखारविन्दा: सानन्दाः गजगतयः सुमतयः कृतमनोवाञ्छितभोजना याचकजनदीयमानसमीहाधिकधनभरविगलितवृजिना: सन्मार्जितनगररथ्यासञ्चाराः पवित्राचारा मार्गणप्रवेशबोहनिका निर्गमशम्बलविरदाः सर्वाङ्गविरचिताभरणाः सर्वशरणाः गृहस्थाः स्वस्था अदुःस्थाः शान्ता लक्ष्मीकान्ता उदाराः परोपकारसाराः सबलाः निजनिजव्यवसायप्राप्तफलाः सर्वतोऽपि खेलन्ति स्म । अन्यतश्च राजन्यका राजकुलाश्च सामन्ता मण्डलिकाः शल्यहस्ता दण्डनायका दलपतयश्चमूसाधनिका राजपुत्राः सेनान्यः पदातयश्च श्रीकरणा व्ययकरणा मध्यकरणा अङ्गलेखकाः क्षूणलेखका मन्त्रिणः अधिकारिणः वसिष्ठाः श्रेष्ठिनः नायका महत्तरा महत्तमा अन्येऽपि च सामान्यलोकाः चत्वारो वर्णाः षडपि दर्शनानि चतुरशीतिमहाजना अष्टदशप्रकृतयः षट्त्रिंशद् राजकुल्यः षट्त्रिंशत् प्रवण्यः षण्णवतिराजरीतिका षण्णवतिपाखण्डानि विंशत्यधिकसप्तशतमतानि च स्वेच्छया राजप्रसादनिरर्गलं रमन्ति स्म । गायनानि स्वरशुद्धिमाधुर्यरसेन विश्वावसुं हसन्ति स्म । नर्तकीगणा देवनर्तकीं रम्भाप्रमुख स्वतालशुद्धिसमनखादिनर्तनसूक्ष्मशुद्धिवैदग्ध्येन तर्कयन्ति स्म । वादित्रोपाध्यायाः शिववाडशक्तिवाडहस्तवाणिप्रमुखाक्षरशुद्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126