Book Title: Anusandhan 1997 00 SrNo 09
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 30
________________ 25 प्राथितवान् । देवभक्त्या तद्दलं जीवन् मुक्तं अनुचरीभूतं पट्टेऽभिषिक्तः सर्वैः सम्भूय । जातो महाराजा श्रावकश्च । भुक्त्वा राज्यं मृतः स्वर्गं गतः । अद्भुतचरिते चरिते, स्तम्भनाथस्य दत्तजयवादे । नरकान्तनामनृपतेरेकादशमप्रबन्धोऽयम् ॥ ***** ( प्रबन्ध : १२ ) द्रव्यभावतमसां विनाशनं द्रव्यभावमहसां प्रकाशनम् । भक्तिभारनतपाकशासनं, तावकं शिरसि मेऽस्तु शासनम् ॥ सा धन्य रसना नृणां स्तौति या स्तम्भनेश्वरम् । 1 सैव प्रभा वेः श्लाघ्या. या पुष्णाति दिनश्रियम् ॥ ॥ Jain Education International 1 नक्तमालदेशे श्रीमकुरनगरे श्री भीमसेनो राजा । हेमासना कलत्रं च । तत्रान्यदा च श्रीबुद्धिसागरसूरिनामानो धर्मगुरवः ऐयरुः । सोऽपि राजा वन्दित्वा तं गुरुं धर्म पप्रच्छ । अहं शत्रुञ्जये तीर्थयात्रां कर्तुं भगवन्नालं अन्तरा राक्षसदेशमध्यागमनोपद्रवभयेन ततो क्षेमङ्करनामदेवप्रसादबलेन करिष्यसि त्वं तीर्थयात्रां भो राजन् ! । हे भगवन्नहं कथं तं देवं ज्ञास्यामि ? क्वास्ते स देवः ? | राज्ञोक्तेरनन्तरं गुरुरुवाच 'मानुषोत्तरपर्वते सहस्रभुजविराजितया त्रिभुवनस्वामिनी नामदेव्या समुपास्यमानोऽस्ति । कालवशात् श्रीसकायोत्सर्गबलेन शासनदेवी त्वां तत्र नेष्यति । त्वयि तत्र स्थाने गते श्रीसङ्घस्य निद्रा समेष्यति । इदमभिज्ञानं कार्यसिद्धयै ज्ञातव्यम् । त्वमपि हे पृथ्वीपते ! तत्र स्थानके कृताष्टाहिकोत्सवः समाराधनप्राप्तदेवप्रसादः प्राप्तवरः सम्पूर्णमनोरथः तद्देववैयावृत्त्यकरदेवगण निर्मापितद्वादशयोजनप्रमाणप्रलम्बनवपृथुलजङ्गमसुवर्णवप्रमध्यगतः समेत्य स्वपुरे चतुर्विधेन श्रीसङ्गेन समं सिद्धक्षेत्रमहातीर्थमहायात्रां महाभक्त्या महाद्रव्यव्ययेन निरन्तरविधीयमा[न] जिनशासनप्रभावनारञ्जितचतुर्विधदेवनिकायबलेन महामहोत्सवेन निरुपद्रवः अन्नपानीयतृणेन्धनादिना सुखी सन् व्याघुट्य स्वनगरमायास्यसि । त्रिभुवनजनकुतुकमिदं अदृष्टपूर्वं करिष्यसि त्वम् । तेनाऽपि भृभुजा सुगुरूपदेशे तत्सर्वं तथा निर्ममे । इत्थं कृते श्रीजिनशासनप्रभावना भूतले उद्धृताऽभवत् । मिथ्यात्वं सर्वत्राऽपि सम्यक्त्वसहस्रकिरणोदयेन हिमवज्जगाल । कल्पद्रुमावतारतुल्येन For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126