Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 375
________________ २७२ प्रथमं परिशिष्टम् स्तन – पादा—ऽङ्गुष्ठोरु—गुह्य- भुज- हस्त-मस्तक - कर्णा - ऽक्षि-कक्ष - शङ्ख- दन्ता - ऽङ्गुष्ठौष्ठं नख - गल-स्कन्ध- गण्डं केशसन्धयः पुरुषाख्यानीति । अथ स्त्रीसंज्ञानाह - 'स्त्रियां' इति एतान्यङ्गानि स्त्रियां भवन्ति । भ्रुवौ प्रसिद्धे । नासाघ्राणम् । स्फिजौ - प्रसिद्धौ । वली - लेखा, यथा त्रिवली । कटिः- प्रसिद्धा । सुलेखा - शोभनलेखा करमध्यस्था । अङ्गुलिचयं - अङ्गुलिसमूहः ॥ ८ ॥ अन्यानपि स्त्रीसंज्ञानाह जिह्वा ग्रीवा पिण्डिके पाष्णियुग्मं जसे नाभिः कर्णपाली कृकाटी । वक्त्रं पृष्ठं जत्तु जान्वस्थि पार्श्व हृत्ताल्वक्षि स्यान्मेहनोरस्त्रिकं च ॥ ९ ॥ 'जिह्वा' रसना । 'ग्रीवा' कृकाटिका । 'पिण्डिके' जङ्घयोः पश्चिमभागौ । 'पाष्र्णी' चरणयोः पश्चिमभागौ 'जङ्गे' प्रसिद्धे । 'नाभिः' तुन्दः । 'कर्णपाली' प्रसिद्धा । 'कृकाटी' ग्रीवापश्चिमभागः । [.......] ॥ ९ ॥ नपुंसकाख्यं च शिरो ललाटमाश्वाद्यसंज्ञैरपरैश्चिरेण । सिद्धिर्भवेज्जातु नपुंसकैर्नो रूक्ष-क्षतैर्भग्न- कृशैश्च पूर्वैः ॥ १० ॥ अथ 'शिरः' मस्तकम् । 'ललाटं' मुखपृष्ठम् । एतत् सर्वं नपुंसकाख्यम् । तथा च परासरः- “शिरो - ललाटमु..... बु..... पृष्ठ - जठर- जत्तु – जान्वस्थि- पार्श्व - हृदय - कर्णपीठा - ऽक्ष — मेहनोरस्त्रिक-ताल्विति नपुंसकाख्यानि" । 'आद्यसंज्ञैः ' प्रथमत उक्तैः पुन्नामभिः स्पृष्टैः 'आशु' क्षिप्रमेव सिद्धिः 'स्याद्' भवेत् । 'अपरैः' तदनन्तरोक्तेः स्त्रीनामभिश्चिरगा सिद्धिर्भवेदिति । नपुंसकैः स्पृष्टैः 'न जातु' न कदाचित् सिद्धिः स्यात् । 'रूक्ष - क्षतैर्भग्न- कृशैश्च पूर्वै:' इति, नेत्यनुवर्तते, पूर्वैः पुंनामभिः स्त्रीनामभिर्वा रूक्षैः - अस्त्रिग्धैः क्षतैः - सप्रहारैः भग्नैः - स्फुटितैः कृशैश्चअल्पमांसैर्नजातु सिद्धिः । तथा च परासरः - " तत्र पुन्नामभिरस्निग्धमनुपहतमरोगमङ्गं स्पृष्टं दिग्देश-काल- व्याहारेष्टदर्शननिरुपहतप्रष्टुः पृच्छार्थे सकलमभिवर्तयति, स्त्रीसत्कमपि पूर्वोक्तलक्षणमुक्तं तत् कालान्तरेणासकलम् । नपुंसकाख्यमकार्यसिद्धिमनर्थानां च गमनं कुर्यात् । अपि च भवति यात्र पुंसंज्ञेष्वाशु सिद्धिः स्यात् स्त्रीसंज्ञेषु चिराद् भवेत् । अशुभं त्वेव निर्दिष्टं नपुंसकसनामसु ॥ १ ॥ पुरुषाख्येऽपि संस्पर्शे बाह्ये रूक्षे च लक्षिते । नार्थसिद्धिमथो ब्रूयादङ्गविद्याविशारदः ॥ २ ॥” इति ॥ १० ॥ अथ पृथक् पृथक् फलनिर्देशार्थमाह स्पृष्टे वा चालिते वाऽपि पादाङ्गुष्ठेऽक्षिरुग् भवेत् । अङ्गुल्यां दुहितुः शोकं शिरोघाते नृपाद् भयम् ॥ ११ ॥ तत्र पृच्छायां पादाङ्गुष्ठे चालिते स्पृष्टे वा प्रष्टुः 'अक्षिरुग्' नेत्रपीडा 'स्याद्' भवेत् । अङ्गुल्यां स्पृष्टायां दुहितुः शोकं वदेत् । ‘शिरोघाते' शिरोऽभिहत्य पृच्छेत् तदा 'नृपाद्' राजतो भयं ब्रूयात् । अथ पृथक् पृथक् फलनिर्देश:तत्र पादाङ्गुष्टं प्रचालयन् स्पृष्ट्वा वा पृच्छेत् तत्प्रष्टुश्चक्षुरोगं विनिर्दिशेत् अङ्गुलीं स्पृष्ट्वा दुहितृशोकम्, शिरसि हन्यमाने राजभयम् ॥ ११ ॥ अन्यदप्याह विप्रयोगमुरसि स्वगोत्रतः कर्पटाहृतिरनर्थदा भवेत् । स्यात् प्रियाप्तिरभिगृह्य कर्पटं पृच्छतश्चरण-पादयोजितुः ॥ १२ ॥ ...। 'कर्पट' ..........सह विप्रयोगं प्रवदेत् 'स्वगोत्रतः' आत्मीयवर्गात् । 'कर्पटाहृतिः' वस्त्रत्यागः 'अनर्थदा'.. वस्त्रं 'अभिगृह्य' प्राप्य चरणं पादं पादे द्वितीये चरणे योजयति तस्य 'पृच्छतः ' प्रष्टुः प्रेयलाभः स्यात् । तथा च परासरः——‘उरः स्पृष्ट्वा विप्रयोगं गोत्रात्, वस्त्रमृत्सृजतोऽनर्थागमम्, पादं पादेन संस्पृशेत् पटान्तमभिगृह्य वा पृच्छेत् प्रियसमागमं विद्यात् ॥ १२ ॥ अन्यदप्याह पादाङ्गुष्ठेन विलिखेद् भूमिं क्षेत्रोत्थचिन्तया । हस्तेन पादौ कण्डूयेत् तस्य दासीमया च सा ॥ १३ ॥ प्रष्टा क्षेत्रोत्थचिन्तया पादाङ्गुष्ठेन 'भूमि' भुवं विलिखेत्, 'हस्तेन' करेण पादं कण्डूयेत् तदाऽस्य 'सा' चिन्ता Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470