Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 377
________________ २७४ प्रथमं परिशिष्टम् पशु-हस्ति-महिष-पङ्कज-रजत-व्याघेर्लभेत सन्दृष्टैः । आविक-धन-निवसन-मलयज-कौशेया-ऽऽभरणसङ्घातम् ॥ १९ ॥ पश्वादिभिः पृच्छासमये 'सन्दृष्टैः' अवलोकितैः अव्याद्याभरणसङ्घात-समूहं प्रष्टा लभेत । तत्र पशुदर्शने आविकस्य-औणिकस्य कम्बलादेर्लाभः । हस्तिन:-करिणो दर्शने धनागमः । महिषदर्शने निवसनस्य-क्षौमवस्त्रस्य, पङ्कजस्य-पद्मस्य दर्शने मलयजस्य, रजतस्य-रूप्यस्य दर्शने कौशेयस्य वस्त्रस्य, व्याघ्रदर्शने आभरणस्यागमः । तथा च परासर:-"महिषस्य क्षौमवस्त्रागमम्, मणिभाण्डस्य गवाजिनम्, औणिकानां पशुदर्शने, व्याघ्रस्याभरणागमं वदेत्, पङ्कजस्य दर्शने रक्तवस्त्रचन्दनलाभम्, रूप्यस्य दर्शने कौशेयवस्त्राणाम्" ॥ १९ ॥ अन्यदप्याह पृच्छा वृद्धश्रावक-सुपरिव्राड्दर्शने नृभिर्विहिता । मित्र-छूतार्थभवा गणिका-नृप-सूतिकार्था वा ॥ २० ॥ वृद्धश्रावक:-कापालिकः तद्दर्शने-तदालोकने 'नृभिः' पुरुषैः मित्र-द्यूतार्थभवा 'पृच्छा विहिता' कृता पृच्छा । गणिका–वेश्या नृपः-राजा सूतिका-प्रसूता स्त्री तत्कृता ॥ २० ॥ अन्यदप्याह शाक्योपाध्याया-ऽर्हन्निर्ग्रन्थ-निमित्त-निगम-कैवतैः । चौर-चमूपति-वाणिज-दासी-योधा-ऽऽपणस्थ-वध्यानाम् ॥ २१ ॥ शाक्यादीनां दर्शने चौरादीनां पृच्छा । शाक्यदर्शने चौरकृताम् । उपाध्यायदर्शने चमूपतिकृतां-सेनापतिकृताम् । अर्हतो दर्शने वाणिजकृताम्, निर्ग्रन्थदर्शने दासीकृताम् । नैमित्तिकस्य-दैवविदो दर्शने योधकृताम् । नैगमस्य दर्शने आपणस्थस्य-श्रेष्ठिनः कृताम् । कैवर्तस्य धीवरस्य दर्शने वध्यकृतां चिन्तामिति ॥ २१ ॥ अन्यदप्याह तापसे शौण्डिके दृष्टे प्रोषितः पशुपालनम् । हृद्गतं पृच्छकस्य स्यादुञ्छवृत्तौ विपन्नता ॥ २२ ॥ तापसे दृष्टे पृच्छकस्य 'हृद्गतं' चित्तस्थं 'प्रोषितः' प्रवासे यः कश्चित् स्थितः तस्य प्रवासिनश्चिन्तनम् । 'शौण्डिके' मद्यासक्ते दृष्टे पशुपालनं चित्तस्थम् । 'उञ्छवृत्तौ' शैलोञ्छवृत्तौ दृष्टे विपन्नार्थचिन्ताम् । तथा च परासर:-"निर्ग्रन्थदर्शने दासीपृच्छाम्, वृद्ध श्रावकदर्शने मित्रद्यूतकृताम्, शाक्यस्य चौरकृताम्, परिव्राजकस्य नृप-सूतिका-गणिकाएँ वा, उपाध्यायस्य चमूपतिकृताम्, नैगमस्य श्रेष्ठिकृताम्, नैमित्तकस्य योधार्थाम्, उञ्छवृत्तीनां विपन्नार्थाम्, अर्हतो वाणिजकृताम्, तापसस्य प्रोषिताम्, शौण्डिकस्य पशुपालनार्थाम्, कैवर्तस्य वध्यघातकृताम्" इति ॥ २२ ॥ अन्यदप्याह इच्छामि द्रष्टुं भण पश्यत्वार्यः समादिशेत्युक्ते । संयोग-कुटुम्बोत्था लाभैश्वर्योद्गता चिन्ता ॥ २३ ॥ इच्छामीत्याद्यक्ते यथासङख्यं संयोगादिकताम । तत्रेच्छामि द्रष्टमिति 'उक्ते' भाषिते संयोगकतां चिन्तां वदेत । भणेत्युक्ते कुटुम्बकृताम् । पश्यतु आर्य इत्युक्ते लाभाङ्गकृतां लाभार्थकृताम् । समादिशेत्युक्ते ऐश्वर्योद्गतां चिन्तामिति ॥ २३ ॥ अन्यदप्याह निर्दिशेति गदिते जया-ऽध्वजा प्रत्यवेक्ष्य मम चिन्तितं वद । आशु सर्वजनमध्यगं त्वया दृश्यतामिति च बन्धु-चौरजा ॥ २४ ॥ निदिशेति 'गदिते' उक्ते पृच्छा । 'जयाध्वजा' जयार्थं कृता जाता अध्वजा वा । 'प्रत्यवेक्ष्य' विचार्य मम 'चिन्तितं' हृद्गतं वदेत्युक्ते बन्धुकृता । सर्वजनमध्यगं द्रष्टारमेवं वक्ति 'आशु' क्षिप्रमेव त्वया दृश्यतामिति 'चौरजाता' तस्करकृता चिन्ता । तथा च परासर:-"आदिशेत्युक्ते ऐश्वर्यचिन्ताम्, भणेत्युक्ते कुटुम्बचिन्ताम्, इच्छामि द्रष्टुमिति संयोगचिन्ताम्, पश्यत्वार्य इति लाभकृताम्, निर्दिशेत्यध्वकृतां जयपृच्छां वा, पृच्छामि तावदार्येति वा सम्यक् सम्प्रत्यवेक्षस्वेति बन्धुकृताम्, अथ काले निष्पन्नातः सहसा बहुजनमध्यगतं दृश्यतामिति पृच्छेच्चौरकृतां जानीयादिति ॥ २४ ॥ अथ चौरज्ञानमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470