Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 378
________________ अङ्गविद्याशास्त्र सटीकम् । अन्तःस्थेऽङ्गे स्वजन उदितो बाह्यगे बाह्य एव, पादाङ्गुष्ठा-ऽङ्गुलिकलनया दास-दासीजन: स्यात् । जो प्रेष्यो भवति भगिनी नाभितो हृच्च भार्या, पाण्यङ्गुष्ठा-ऽङ्गुलिचयकृतस्पर्शने पुत्र-कन्ये ॥ २५ ॥ : अन्तःस्थेऽङ्गे' अभ्यन्तरस्थे 'अङ्गे' अवयवे स्पृष्टे पृच्छायां चौरः 'स्वजनः' आत्मीय एव 'उदितः' उक्तः । बाह्यगेऽङ्गे स्पृष्टे बाह्यत एवोदितश्चौरः । 'पादाङ्गष्ठाङ्गलिकलनया' पादाङ्गष्ठे स्पृष्टे दासश्चौरः, अङ्गलीषु-पादाङ्गलीष्वप्येवं दासीजन: 'स्याद्' भवेत् । जङ्घास्पर्शने 'प्रेष्यः' कर्मकरो भवति । नाभितो भगिनी । हृदि 'भार्या' आत्मीया जाया । पाणिः-हस्तः, हस्ताङ्गष्ठस्पर्शने पुत्रः । अङ्गलिचयस्पर्शने कन्या-आत्मीया तनया चौरी । एवं कृतस्पर्शने चौरज्ञानम् ॥ २५ ॥ अन्यदप्याह मातरं जठरे मूलि गुरुं दक्षिण-वामको । बाहू भ्राताऽथ तत्पत्नी स्पृष्ट्वैवं चौरमादिशेत् ॥ २६ ॥ 'जठरे' उदरे स्पृष्टे 'मातरं' जननी चौरी वदेत् । 'मूनि' शिरसि गुरुम् । दक्षिण-वामको बाहू स्पर्शने यथासङ्ख्यं भ्राताऽथ तत्पत्नी, दक्षिणबाहुस्पर्श भ्राता, वामे तत्पत्नी । “एवं' अङ्गस्पर्शने दृष्टे 'चौरं' तस्करं 'आदिशेद्' वदेत् । तथा च परासर:-"बाह्याङ्गस्पर्शने बाह्यं चौरम्, अन्तः स्वकृतम्, तत्र पादाङ्गष्ठे दासम्, अङ्गलिषु दासीम्, जङ्घयोः प्रेष्यम्, जठरे मातरम्, हस्ताङ्गलिषु दुहितरम्, अङ्गष्ठे सुतम्, नाभ्यां भगिनीम्, गुरुं शिरसि, हृदि भार्याम्, दक्षिणबाहौ भ्रातरम्, वामबाहौ भ्रातृभार्याम्" ॥ २६ ॥ अथापहृतस्य लाभाऽलाभज्ञानमाह अन्तरङ्गमवमुच्य बाह्यगं स्पर्शनं यदि करोति पृच्छकः ।। श्लेष्म-मूत्र-शकृतस्त्यजन्नथ पातयेत् करतलस्थवस्तु चेत् ॥ २७ ॥ भृशमवनामिताङ्गपरिमोटनतोऽप्यथवा, . जनधृतरिक्तभाण्डमवलोक्य च चौरजनम् । हृत-पतित-क्षता-ऽस्मृत-विनष्ट-विभग्न-गतो न्मुषित-मृताद्यनिष्टरवतो लभते न धनम् ॥ २८ ॥ अन्तरङ्गमिति । एवंविधैनिमित्तैः प्रष्टा हृतं धनं न लभेत । कैः ? इत्याह-'अन्तरङ्ग' अभ्यन्तरस्थमवयवं प्राप्तं 'अवमुच्य' परित्यज्य बाह्यमवयवस्य स्पर्शनं यदि पृच्छकः करोति । अथवा श्लेष्म-मूत्र-शकृतः 'त्यजन्' परित्यजति तत्कालम् । अथवा करतलस्थं-पाणितलस्थं किञ्चिद् वस्तु पातयेत् ॥ २७ ॥ भृशमवनामिताङ्गमिति । अथवा 'भृशं' अत्यर्थं अवनामिताङ्गावयवो अङ्गानामेव परिमोटनं-चटचटाशब्दमुत्पादयति । तथा तत्कालं जनधृतं-लोकस्थादेवितरिक्तभाण्डं(?) 'अवलोक्य' दृष्ट्वा । तथा 'चौरजन' तस्करमवलोक्य । अथवा हृत पतिता-ऽक्षता-ऽस्मृत-विनष्ट-विभग्न-गतोन्मुषित-मृतादि, एषामनिष्टरवतः-शब्दश्रवणात्, आदिग्रहणानष्ट-कष्टदष्टाऽनिष्ट-जीर्णशब्दश्रवणात् प्रष्टा हृतं न लभत इति । तथा च परासरः-"अन्यत्र रोगं स्पृष्ट्वा निर्हरणं वा श्लेष्ममूत्र-पुरीषाणां कुर्यात्, हस्ताद्वा किञ्चित् पातयेत्, गात्राणि वा स्फोटयेत्, कृत-हत-पतित-मुषित-विस्मृत-नष्ट-कष्टाऽनिष्ट-भग्न-गत-जीर्णशब्दप्रादुर्भावो वा स्यात्, रिक्तभाण्ड-तस्कराणां दर्शने नष्टस्यालाभं विन्द्यात्" ॥ २८ ॥ अथ पीडार्थानां मरणाज्ज्ञानमाह - निगदितमिदं यत् तत् सर्वं तुषा-ऽस्थि-विषादकैः, सह मृतिकरं पीडार्तानां समं रुदित-क्षुतैः । "अन्तरङ्गमवमुच्य" इत्यत आरभ्य यदिदं नष्टचिन्तायां 'निगदितं' उक्तं तत् सर्वं तुषा-ऽस्थि-विषादकै: 'सह' साकं तथा रुदित-क्षुतैः, 'समं' सह 'पीडार्तानां' रोगिणां 'मृतिकरं' मरणं करोति । आदिग्रहणात् छिन-भिन्न-भृतअंग० २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470