________________
अङ्गविद्याशास्त्र सटीकम् । अन्तःस्थेऽङ्गे स्वजन उदितो बाह्यगे बाह्य एव,
पादाङ्गुष्ठा-ऽङ्गुलिकलनया दास-दासीजन: स्यात् । जो प्रेष्यो भवति भगिनी नाभितो हृच्च भार्या,
पाण्यङ्गुष्ठा-ऽङ्गुलिचयकृतस्पर्शने पुत्र-कन्ये ॥ २५ ॥ : अन्तःस्थेऽङ्गे' अभ्यन्तरस्थे 'अङ्गे' अवयवे स्पृष्टे पृच्छायां चौरः 'स्वजनः' आत्मीय एव 'उदितः' उक्तः । बाह्यगेऽङ्गे स्पृष्टे बाह्यत एवोदितश्चौरः । 'पादाङ्गष्ठाङ्गलिकलनया' पादाङ्गष्ठे स्पृष्टे दासश्चौरः, अङ्गलीषु-पादाङ्गलीष्वप्येवं दासीजन: 'स्याद्' भवेत् । जङ्घास्पर्शने 'प्रेष्यः' कर्मकरो भवति । नाभितो भगिनी । हृदि 'भार्या' आत्मीया जाया । पाणिः-हस्तः, हस्ताङ्गष्ठस्पर्शने पुत्रः । अङ्गलिचयस्पर्शने कन्या-आत्मीया तनया चौरी । एवं कृतस्पर्शने चौरज्ञानम् ॥ २५ ॥ अन्यदप्याह
मातरं जठरे मूलि गुरुं दक्षिण-वामको ।
बाहू भ्राताऽथ तत्पत्नी स्पृष्ट्वैवं चौरमादिशेत् ॥ २६ ॥ 'जठरे' उदरे स्पृष्टे 'मातरं' जननी चौरी वदेत् । 'मूनि' शिरसि गुरुम् । दक्षिण-वामको बाहू स्पर्शने यथासङ्ख्यं भ्राताऽथ तत्पत्नी, दक्षिणबाहुस्पर्श भ्राता, वामे तत्पत्नी । “एवं' अङ्गस्पर्शने दृष्टे 'चौरं' तस्करं 'आदिशेद्' वदेत् । तथा च परासर:-"बाह्याङ्गस्पर्शने बाह्यं चौरम्, अन्तः स्वकृतम्, तत्र पादाङ्गष्ठे दासम्, अङ्गलिषु दासीम्, जङ्घयोः प्रेष्यम्, जठरे मातरम्, हस्ताङ्गलिषु दुहितरम्, अङ्गष्ठे सुतम्, नाभ्यां भगिनीम्, गुरुं शिरसि, हृदि भार्याम्, दक्षिणबाहौ भ्रातरम्, वामबाहौ भ्रातृभार्याम्" ॥ २६ ॥ अथापहृतस्य लाभाऽलाभज्ञानमाह
अन्तरङ्गमवमुच्य बाह्यगं स्पर्शनं यदि करोति पृच्छकः ।। श्लेष्म-मूत्र-शकृतस्त्यजन्नथ पातयेत् करतलस्थवस्तु चेत् ॥ २७ ॥ भृशमवनामिताङ्गपरिमोटनतोऽप्यथवा, . जनधृतरिक्तभाण्डमवलोक्य च चौरजनम् । हृत-पतित-क्षता-ऽस्मृत-विनष्ट-विभग्न-गतो
न्मुषित-मृताद्यनिष्टरवतो लभते न धनम् ॥ २८ ॥ अन्तरङ्गमिति । एवंविधैनिमित्तैः प्रष्टा हृतं धनं न लभेत । कैः ? इत्याह-'अन्तरङ्ग' अभ्यन्तरस्थमवयवं प्राप्तं 'अवमुच्य' परित्यज्य बाह्यमवयवस्य स्पर्शनं यदि पृच्छकः करोति । अथवा श्लेष्म-मूत्र-शकृतः 'त्यजन्' परित्यजति तत्कालम् । अथवा करतलस्थं-पाणितलस्थं किञ्चिद् वस्तु पातयेत् ॥ २७ ॥
भृशमवनामिताङ्गमिति । अथवा 'भृशं' अत्यर्थं अवनामिताङ्गावयवो अङ्गानामेव परिमोटनं-चटचटाशब्दमुत्पादयति । तथा तत्कालं जनधृतं-लोकस्थादेवितरिक्तभाण्डं(?) 'अवलोक्य' दृष्ट्वा । तथा 'चौरजन' तस्करमवलोक्य । अथवा हृत पतिता-ऽक्षता-ऽस्मृत-विनष्ट-विभग्न-गतोन्मुषित-मृतादि, एषामनिष्टरवतः-शब्दश्रवणात्, आदिग्रहणानष्ट-कष्टदष्टाऽनिष्ट-जीर्णशब्दश्रवणात् प्रष्टा हृतं न लभत इति । तथा च परासरः-"अन्यत्र रोगं स्पृष्ट्वा निर्हरणं वा श्लेष्ममूत्र-पुरीषाणां कुर्यात्, हस्ताद्वा किञ्चित् पातयेत्, गात्राणि वा स्फोटयेत्, कृत-हत-पतित-मुषित-विस्मृत-नष्ट-कष्टाऽनिष्ट-भग्न-गत-जीर्णशब्दप्रादुर्भावो वा स्यात्, रिक्तभाण्ड-तस्कराणां दर्शने नष्टस्यालाभं विन्द्यात्" ॥ २८ ॥ अथ पीडार्थानां मरणाज्ज्ञानमाह - निगदितमिदं यत् तत् सर्वं तुषा-ऽस्थि-विषादकैः,
सह मृतिकरं पीडार्तानां समं रुदित-क्षुतैः । "अन्तरङ्गमवमुच्य" इत्यत आरभ्य यदिदं नष्टचिन्तायां 'निगदितं' उक्तं तत् सर्वं तुषा-ऽस्थि-विषादकै: 'सह' साकं तथा रुदित-क्षुतैः, 'समं' सह 'पीडार्तानां' रोगिणां 'मृतिकरं' मरणं करोति । आदिग्रहणात् छिन-भिन्न-भृतअंग० २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org