________________
२७४
प्रथमं परिशिष्टम् पशु-हस्ति-महिष-पङ्कज-रजत-व्याघेर्लभेत सन्दृष्टैः ।
आविक-धन-निवसन-मलयज-कौशेया-ऽऽभरणसङ्घातम् ॥ १९ ॥ पश्वादिभिः पृच्छासमये 'सन्दृष्टैः' अवलोकितैः अव्याद्याभरणसङ्घात-समूहं प्रष्टा लभेत । तत्र पशुदर्शने आविकस्य-औणिकस्य कम्बलादेर्लाभः । हस्तिन:-करिणो दर्शने धनागमः । महिषदर्शने निवसनस्य-क्षौमवस्त्रस्य, पङ्कजस्य-पद्मस्य दर्शने मलयजस्य, रजतस्य-रूप्यस्य दर्शने कौशेयस्य वस्त्रस्य, व्याघ्रदर्शने आभरणस्यागमः । तथा च परासर:-"महिषस्य क्षौमवस्त्रागमम्, मणिभाण्डस्य गवाजिनम्, औणिकानां पशुदर्शने, व्याघ्रस्याभरणागमं वदेत्, पङ्कजस्य दर्शने रक्तवस्त्रचन्दनलाभम्, रूप्यस्य दर्शने कौशेयवस्त्राणाम्" ॥ १९ ॥ अन्यदप्याह
पृच्छा वृद्धश्रावक-सुपरिव्राड्दर्शने नृभिर्विहिता ।
मित्र-छूतार्थभवा गणिका-नृप-सूतिकार्था वा ॥ २० ॥ वृद्धश्रावक:-कापालिकः तद्दर्शने-तदालोकने 'नृभिः' पुरुषैः मित्र-द्यूतार्थभवा 'पृच्छा विहिता' कृता पृच्छा । गणिका–वेश्या नृपः-राजा सूतिका-प्रसूता स्त्री तत्कृता ॥ २० ॥ अन्यदप्याह
शाक्योपाध्याया-ऽर्हन्निर्ग्रन्थ-निमित्त-निगम-कैवतैः ।
चौर-चमूपति-वाणिज-दासी-योधा-ऽऽपणस्थ-वध्यानाम् ॥ २१ ॥ शाक्यादीनां दर्शने चौरादीनां पृच्छा । शाक्यदर्शने चौरकृताम् । उपाध्यायदर्शने चमूपतिकृतां-सेनापतिकृताम् । अर्हतो दर्शने वाणिजकृताम्, निर्ग्रन्थदर्शने दासीकृताम् । नैमित्तिकस्य-दैवविदो दर्शने योधकृताम् । नैगमस्य दर्शने आपणस्थस्य-श्रेष्ठिनः कृताम् । कैवर्तस्य धीवरस्य दर्शने वध्यकृतां चिन्तामिति ॥ २१ ॥ अन्यदप्याह
तापसे शौण्डिके दृष्टे प्रोषितः पशुपालनम् ।
हृद्गतं पृच्छकस्य स्यादुञ्छवृत्तौ विपन्नता ॥ २२ ॥ तापसे दृष्टे पृच्छकस्य 'हृद्गतं' चित्तस्थं 'प्रोषितः' प्रवासे यः कश्चित् स्थितः तस्य प्रवासिनश्चिन्तनम् । 'शौण्डिके' मद्यासक्ते दृष्टे पशुपालनं चित्तस्थम् । 'उञ्छवृत्तौ' शैलोञ्छवृत्तौ दृष्टे विपन्नार्थचिन्ताम् । तथा च परासर:-"निर्ग्रन्थदर्शने दासीपृच्छाम्, वृद्ध श्रावकदर्शने मित्रद्यूतकृताम्, शाक्यस्य चौरकृताम्, परिव्राजकस्य नृप-सूतिका-गणिकाएँ वा, उपाध्यायस्य चमूपतिकृताम्, नैगमस्य श्रेष्ठिकृताम्, नैमित्तकस्य योधार्थाम्, उञ्छवृत्तीनां विपन्नार्थाम्, अर्हतो वाणिजकृताम्, तापसस्य प्रोषिताम्, शौण्डिकस्य पशुपालनार्थाम्, कैवर्तस्य वध्यघातकृताम्" इति ॥ २२ ॥ अन्यदप्याह
इच्छामि द्रष्टुं भण पश्यत्वार्यः समादिशेत्युक्ते ।
संयोग-कुटुम्बोत्था लाभैश्वर्योद्गता चिन्ता ॥ २३ ॥ इच्छामीत्याद्यक्ते यथासङख्यं संयोगादिकताम । तत्रेच्छामि द्रष्टमिति 'उक्ते' भाषिते संयोगकतां चिन्तां वदेत । भणेत्युक्ते कुटुम्बकृताम् । पश्यतु आर्य इत्युक्ते लाभाङ्गकृतां लाभार्थकृताम् । समादिशेत्युक्ते ऐश्वर्योद्गतां चिन्तामिति ॥ २३ ॥ अन्यदप्याह
निर्दिशेति गदिते जया-ऽध्वजा प्रत्यवेक्ष्य मम चिन्तितं वद ।
आशु सर्वजनमध्यगं त्वया दृश्यतामिति च बन्धु-चौरजा ॥ २४ ॥ निदिशेति 'गदिते' उक्ते पृच्छा । 'जयाध्वजा' जयार्थं कृता जाता अध्वजा वा । 'प्रत्यवेक्ष्य' विचार्य मम 'चिन्तितं' हृद्गतं वदेत्युक्ते बन्धुकृता । सर्वजनमध्यगं द्रष्टारमेवं वक्ति 'आशु' क्षिप्रमेव त्वया दृश्यतामिति 'चौरजाता' तस्करकृता चिन्ता । तथा च परासर:-"आदिशेत्युक्ते ऐश्वर्यचिन्ताम्, भणेत्युक्ते कुटुम्बचिन्ताम्, इच्छामि द्रष्टुमिति संयोगचिन्ताम्, पश्यत्वार्य इति लाभकृताम्, निर्दिशेत्यध्वकृतां जयपृच्छां वा, पृच्छामि तावदार्येति वा सम्यक् सम्प्रत्यवेक्षस्वेति बन्धुकृताम्, अथ काले निष्पन्नातः सहसा बहुजनमध्यगतं दृश्यतामिति पृच्छेच्चौरकृतां जानीयादिति ॥ २४ ॥ अथ चौरज्ञानमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org