________________
२७३
अङ्गविद्याशास्त्रं सटीकम् । 'दासीमया' दासीकृता । तथा च परासर:-"अङ्गष्ठेन भूमि विलिखेत् क्षेत्रचिन्तां विजानीयात्, हस्तेन पादौ कण्ड्रयेद दासीकृता च सा" ॥ १३ ॥ अन्यदप्याह
ताल-भूर्जपटदर्शनेंऽशुकं चिन्तयेत् कच-तुषा-ऽस्थि-भस्मगम् ।
व्याधिराश्रयति रज्जु-जालकं वल्कलं च समवेक्ष्य बन्धनम् ॥ १४ ॥ तालवृक्षपत्रदर्शने भूर्जपटदर्शने वा प्रष्टा 'अंशुकं' वस्त्रं चिन्तयेत् । 'कचतुषा-ऽस्थि-भस्मगं व्याधिराश्रयति' कचा:-केशा: तुषं-धान्यवर्म अस्थि-प्रसिद्धम्, भस्म, एषामन्यतमस्योपरिगतं प्रष्टारं 'व्याधिः' पीडा आश्रयति । रज्जुःप्रसिद्धा, जालक-यत्र मत्स्य-पक्षिणो बध्यन्ते तदेव तत्सदृशं वा, 'वल्कलं' त्वक्, एषामन्यतमस्थं वा 'समवेक्ष्य' अवलोक्य गृहीत्वा वा पृच्छेत् तदा बन्धनं वदेत् । तथा च परासर:-"ताल-भूर्जपत्रदर्शने वस्त्रार्थे, केशाऽस्थिभस्मनाऽऽकम्य व्याधिभयं ब्रूयात्, निग(मृग)जाल-रज्जु-सिक्थ-वल्कलान्यधिष्ठाय दर्शने वा बन्धनं मतम्" ॥ १४ ॥ अन्यदप्याह
पिष्पली-मरिच-सुण्ठि-वारिदै रोध्र-कुष्ठ-वसना-ऽम्बु-जीरकैः । गन्धमासि-शतपुष्पया वदेत् पृच्छतस्तगरकेन चिन्तनम् ॥ १५ ॥ स्त्री-पुरुषदोष-पीडित-सर्वा-ऽध्व-सुता-ऽर्थ-धान्य-तनयानाम् ।
द्वि-चतुःशफ-क्षितीनां विनाशतः कीर्तितैदृष्टैः ॥ १६ ॥ पिष्पलीति । पिष्पल्यादिदर्शने स्त्र्यादिचिन्तां क्रमशो व्यपदिशेत् । तत्र पिष्पलीदर्शने या स्त्री दोषदुष्टा सदोषा तत्कृतां चिन्ता वदेत् । मरिचदर्शने दोषयुतस्य सपापस्य पुरुषस्य चिन्तां प्रवदेत् । सुण्ठिदर्शने पीडितस्य-व्याधितस्य मृतस्य चिन्तां वदेत् । वारिदा-मुस्ता तेषां दर्शने सर्वनाशकृताम् । रोध्रदर्शने अध्वनाशकृताम् । कुष्ठदर्शने सुतनाशकृतांपुत्रनाशजाम् । वसनं-वस्त्रं तद्दर्शने अर्थनाशकृताम् । अम्बुदर्शने धान्य[नाश] कृताम् । जीरकदर्शने तनयस्य-पुत्रस्य नाशकृताम् । गन्धमांस्या द्विशफानां-द्विपदनाशकृताम् । शतपुष्पया चतुःशफानां-चतुष्पदविनाशकृताम् । तगरेण क्षितेःभूमेः नाशकृताम् । एतैः 'कीर्तितैः' उच्वरितैर्वा 'दृष्टैः' अवलोकितैर्वा विनाशहेतोः पृच्छा भवति । तथा च परासर:"पिप्पलीनां दर्शने प्रदुष्टस्त्रीकृतां चिन्ताम्, मरीचकस्य पापपुरुषकृताम्, शृङ्गबेरस्य मृतचिन्ताम्, अजाज्याः सुतनाशकृताम्, रोधस्याध्वनाशकृताम्, मुस्तस्य सर्वनाशकृताम्, कुष्ठस्य सर्वनाशकृताम् वसनस्यार्थनाशकृताम्, तगरस्य भूमिनाशकृताम्, शतपुष्पायाश्चतुष्पान्नाशकृताम्, मांस्या द्विपदनाशाम्" ॥ १५ ॥ १६ ॥ अन्यदप्याह
न्यग्रोध-मधुक-तिन्दुक-जम्बू-प्लक्षा-ऽऽम्र-बदरजातफलैः ।
धन-कनक-पुरुष-लोहां-ऽशुक-रूप्योदुम्बराप्तिरपि करगैः ॥ १७ ॥ 'न्यग्रोधादिजातफलैः' तत्सम्भवैः फलैः 'करगैः' हस्तस्थैः धनाद्याप्तिर्भवति । तत्र न्यग्रोधजातफलैः प्रष्टुर्हस्तस्थैर्धनाप्तिः-वित्तलाभो भवति । मधुकफलैः कनकस्य-स्वर्णस्याप्तिः । तिन्दुकफलैः द्विपदस्य-पुरुषस्याप्तिः । जम्बूफलैर्लोहस्य । प्लक्षफलैः अंशुकस्य-वस्त्रस्य । आम्रफलैः रूप्यस्य । बदरफलैरुदुम्बरस्य–ताम्रस्येति । तथा च परासर:-"अथ न्यग्रोधफलैर्हस्तस्थैः पृच्छेद् धनागममादिशेत्, मधुकोदुम्बरफलैः काञ्चनागमम्, द्विपदागमं तिन्दुकैः, वस्त्रागमं प्लक्षजैः, रूप्यस्य आनैः, ताम्रस्य बदरैः, लोहस्य जाम्बवैः" इति ॥ १७ ॥ अन्यदप्याह
धान्यपरिपूर्णपात्रं, कुम्भः पूर्णः कुटुम्बवृद्धिकरः ।
गज-गो-शुनां पुरीषं, धन-युवति-सुहृद्विनाशकरम् ॥ १८ ॥ धान्यपरिपूर्णं पात्रं कुम्भः पूर्णः कुटुम्बवृद्धिकरः । 'गज-गो-शुनां पुरीषं धन-युवति-सुहृद्विनाशकरं' गजानांहस्तिनां 'परीषं' विष्ठा गवां परीषं च शनां-सारमेयानां पुरीषं धनस्य-ऐश्वर्यस्य युवतीनां-स्त्रीणां व्यभिचारं सुहृदां च विनाशं करोति ॥ १८ ॥ अन्यदप्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org