________________
२७२
प्रथमं परिशिष्टम् स्तन – पादा—ऽङ्गुष्ठोरु—गुह्य- भुज- हस्त-मस्तक - कर्णा - ऽक्षि-कक्ष - शङ्ख- दन्ता - ऽङ्गुष्ठौष्ठं नख - गल-स्कन्ध- गण्डं केशसन्धयः पुरुषाख्यानीति । अथ स्त्रीसंज्ञानाह - 'स्त्रियां' इति एतान्यङ्गानि स्त्रियां भवन्ति । भ्रुवौ प्रसिद्धे । नासाघ्राणम् । स्फिजौ - प्रसिद्धौ । वली - लेखा, यथा त्रिवली । कटिः- प्रसिद्धा । सुलेखा - शोभनलेखा करमध्यस्था । अङ्गुलिचयं - अङ्गुलिसमूहः ॥ ८ ॥ अन्यानपि स्त्रीसंज्ञानाह
जिह्वा ग्रीवा पिण्डिके पाष्णियुग्मं जसे नाभिः कर्णपाली कृकाटी । वक्त्रं पृष्ठं जत्तु जान्वस्थि पार्श्व हृत्ताल्वक्षि स्यान्मेहनोरस्त्रिकं च ॥ ९ ॥
'जिह्वा' रसना । 'ग्रीवा' कृकाटिका । 'पिण्डिके' जङ्घयोः पश्चिमभागौ । 'पाष्र्णी' चरणयोः पश्चिमभागौ 'जङ्गे' प्रसिद्धे । 'नाभिः' तुन्दः । 'कर्णपाली' प्रसिद्धा । 'कृकाटी' ग्रीवापश्चिमभागः । [.......] ॥ ९ ॥ नपुंसकाख्यं च शिरो ललाटमाश्वाद्यसंज्ञैरपरैश्चिरेण ।
सिद्धिर्भवेज्जातु नपुंसकैर्नो रूक्ष-क्षतैर्भग्न- कृशैश्च पूर्वैः ॥ १० ॥
अथ
'शिरः' मस्तकम् । 'ललाटं' मुखपृष्ठम् । एतत् सर्वं नपुंसकाख्यम् । तथा च परासरः- “शिरो - ललाटमु..... बु..... पृष्ठ - जठर- जत्तु – जान्वस्थि- पार्श्व - हृदय - कर्णपीठा - ऽक्ष — मेहनोरस्त्रिक-ताल्विति नपुंसकाख्यानि" । 'आद्यसंज्ञैः ' प्रथमत उक्तैः पुन्नामभिः स्पृष्टैः 'आशु' क्षिप्रमेव सिद्धिः 'स्याद्' भवेत् । 'अपरैः' तदनन्तरोक्तेः स्त्रीनामभिश्चिरगा सिद्धिर्भवेदिति । नपुंसकैः स्पृष्टैः 'न जातु' न कदाचित् सिद्धिः स्यात् । 'रूक्ष - क्षतैर्भग्न- कृशैश्च पूर्वै:' इति, नेत्यनुवर्तते, पूर्वैः पुंनामभिः स्त्रीनामभिर्वा रूक्षैः - अस्त्रिग्धैः क्षतैः - सप्रहारैः भग्नैः - स्फुटितैः कृशैश्चअल्पमांसैर्नजातु सिद्धिः । तथा च परासरः - " तत्र पुन्नामभिरस्निग्धमनुपहतमरोगमङ्गं स्पृष्टं दिग्देश-काल- व्याहारेष्टदर्शननिरुपहतप्रष्टुः पृच्छार्थे सकलमभिवर्तयति, स्त्रीसत्कमपि पूर्वोक्तलक्षणमुक्तं तत् कालान्तरेणासकलम् । नपुंसकाख्यमकार्यसिद्धिमनर्थानां च गमनं कुर्यात् । अपि च भवति यात्र
पुंसंज्ञेष्वाशु सिद्धिः स्यात् स्त्रीसंज्ञेषु चिराद् भवेत् । अशुभं त्वेव निर्दिष्टं नपुंसकसनामसु ॥ १ ॥ पुरुषाख्येऽपि संस्पर्शे बाह्ये रूक्षे च लक्षिते । नार्थसिद्धिमथो ब्रूयादङ्गविद्याविशारदः ॥ २ ॥” इति ॥ १० ॥ अथ पृथक् पृथक् फलनिर्देशार्थमाह
स्पृष्टे वा चालिते वाऽपि पादाङ्गुष्ठेऽक्षिरुग् भवेत् ।
अङ्गुल्यां दुहितुः शोकं शिरोघाते नृपाद् भयम् ॥ ११ ॥
तत्र पृच्छायां पादाङ्गुष्ठे चालिते स्पृष्टे वा प्रष्टुः 'अक्षिरुग्' नेत्रपीडा 'स्याद्' भवेत् । अङ्गुल्यां स्पृष्टायां दुहितुः शोकं वदेत् । ‘शिरोघाते' शिरोऽभिहत्य पृच्छेत् तदा 'नृपाद्' राजतो भयं ब्रूयात् । अथ पृथक् पृथक् फलनिर्देश:तत्र पादाङ्गुष्टं प्रचालयन् स्पृष्ट्वा वा पृच्छेत् तत्प्रष्टुश्चक्षुरोगं विनिर्दिशेत् अङ्गुलीं स्पृष्ट्वा दुहितृशोकम्, शिरसि हन्यमाने
राजभयम् ॥ ११ ॥ अन्यदप्याह
विप्रयोगमुरसि स्वगोत्रतः कर्पटाहृतिरनर्थदा भवेत् ।
स्यात् प्रियाप्तिरभिगृह्य कर्पटं पृच्छतश्चरण-पादयोजितुः ॥ १२ ॥
...। 'कर्पट'
..........सह विप्रयोगं प्रवदेत् 'स्वगोत्रतः' आत्मीयवर्गात् । 'कर्पटाहृतिः' वस्त्रत्यागः 'अनर्थदा'.. वस्त्रं 'अभिगृह्य' प्राप्य चरणं पादं पादे द्वितीये चरणे योजयति तस्य 'पृच्छतः ' प्रष्टुः प्रेयलाभः स्यात् । तथा च परासरः——‘उरः स्पृष्ट्वा विप्रयोगं गोत्रात्, वस्त्रमृत्सृजतोऽनर्थागमम्, पादं पादेन संस्पृशेत् पटान्तमभिगृह्य वा पृच्छेत् प्रियसमागमं विद्यात् ॥ १२ ॥ अन्यदप्याह
पादाङ्गुष्ठेन विलिखेद् भूमिं क्षेत्रोत्थचिन्तया ।
हस्तेन पादौ कण्डूयेत् तस्य दासीमया च सा ॥ १३ ॥
प्रष्टा क्षेत्रोत्थचिन्तया पादाङ्गुष्ठेन 'भूमि' भुवं विलिखेत्, 'हस्तेन' करेण पादं कण्डूयेत् तदाऽस्य 'सा' चिन्ता
Jain Education International
For Private Personal Use Only
www.jainelibrary.org