________________
२७१
अङ्गविद्याशास्त्रं सटीकम् । सिकतासंयुक्तम् । अवस्करैः - गृहमुक्तैरशुचिभिरनुपयोग्यैर्भाण्डैश्चितं - व्याप्तम् । तथाऽङ्गारकैः - दग्धकाष्ठैः कपालैः - अस्थिसफालैः भस्मना च चितं युक्तम् । तथा तुषैः - धान्यचर्मभिः शुष्कैः - नीरसैस्तृणैश्चितं न शोभनमिति ॥ ४ ॥
अन्यदप्याह
प्रव्रजित - नग्न - नापित-रिपु- बन्धन - सौनिकैस्तथा श्वपचैः । कितव-यति-पीडितैर्युतमायुध - माक्षीकविक्रयादशुभम् ॥ ५ ॥
एवंविधं स्थानं पृच्छायामशुभम् । प्रव्रजितः - तापसो लिङ्गी । नग्नः - विवस्त्रः । नापितः - दिवाकीर्तिः शिल्पी सूत्रधारप्रभृति । रिपुः - शत्रुः । बन्धनं- बन्धशाला । सौनिकः - पशुघातकः । एतैर्युक्तं स्थानम् । तथा श्वपचै: - चाण्डालैः । कितवः–द्यूतकारकः । यतिः - त्रिदण्डी । पीडितो रोगादिना । एतैर्युक्तं स्थानम् । तथाऽऽयुधं आयुधशाला यत्र, माक्षीकंमधु तद्विकयशाला कल्पपालगृहसमीपाद्धेतोरशुभमिति ॥ ५ ॥ अथ दिक्काललक्षणमाह
प्रागुत्तरेशाश्च दिशः प्रशस्ताः प्रष्टुर्न वाय्वम्बु - यमा - ऽग्नि- रक्षः । पूर्वाह्नकालेऽस्ति शुभं न रात्रौ सन्ध्याद्वये प्रश्नकृतोऽपराह्ने ॥ ६ ॥
दिश:- आशाः प्राक् - पूर्वा उत्तरा ऐशानी च पृच्छायां 'प्रशस्ताः शुभाः 'प्रष्टुः' पृच्छकस्य, तदभिमुखः शुभ इत्यर्थः । 'वाय्वम्बुयमाग्निरक्षः ' वायवी वारुणी दक्षिणाऽऽग्नेयी नैर्ऋती च न शस्ताः, न शुभाः एता दिशः प्रष्टुः । 'पूर्वाह्नकाले' दिनप्राग्भागसमये 'प्रश्नकृत:' पृच्छकस्य 'शुभं' शोभनफलमस्ति विद्यते, 'रात्रौ' निशि ['सन्ध्याद्वये'] सायं प्रातः अपराह्णे च न शुभमिति । तथा च परासरः- “छिन्नभिन्नशुष्करूक्षवक्र ........दग्धकण्टकक .. द्विज........ षिधिनाः प्रशस्तनामाङ्कितपादपच्छायश्मशानवन्यायतनबन्धरोषितरिपुनापितायुधमद्यविक्रय.......... सु नैर्ऋताग्नेययाम्यवारुणवायव्याशाभिमुखः प्रचोदयेत्, स्पष्टमर्थमनर्थाय विन्द्यात्" । अपि च
वेलाः सर्वाः प्रशस्यन्ते पूर्वाह्ने परिपृच्छताम् । सन्ध्ययोरपराह्ने तु क्षि (क्ष) पायां च विगर्हिता ॥ १ ॥ इति ॥ ६ ॥
अन्यदप्याह
Jain Education International
यात्राविधाने च शुभाशुभं यत् प्रोक्तं निमित्तं तदिहापि वाच्यम् । दृष्ट्वा पुरो वा जनताहृतं वा प्रष्टः स्थितं पाणितलेऽथ वस्त्रे ॥ ७ ॥
यात्राविधाने यत् शुभाशुभं 'प्रोक्तं' कथितम्, “सिद्धार्थका - ऽऽदर्श - पयो - ऽञ्जनानि" इति शुभदम्, "कर्पासौषधकृष्णधान्यम्” इत्यशुभम् । तथा तत्र शाकुनं यन्निमित्तं 'प्रोक्तं' कथितं तद् 'इहापि' प्रश्नसमये 'वाच्यं' वक्तव्यम् । 'पुरो' अग्रतो वा दृष्ट्वा य..... नो वरजनता - जनसमूहः तया आहृतं - आनीतं 'प्रष्टुः' पृच्छकस्य 'पाणितले' हस्ते 'वस्त्रे' अम्बरे वा स्थितं दृष्ट्वा शुभमादिशेदिति । तथा च परासर:
यात्राविधाने निर्दिष्टं निमित्तं यच्छुभाशुभम् । तदेव दृष्ट्वा दैवज्ञो वाञ्छासिद्धिं विनिर्दिशेत् ॥ १ ॥ ७ ॥ अधुना अङ्गानि पुंसंज्ञकान्याह
अथाङ्गान्यूर्वोष्ठ—-स्तन-वृषण - पादं च दशना,
भुजौ हस्तौ गण्डौ कच - गल - नखा - ऽङ्गुष्ठमपि यत् ।
सशङ्खं कक्षांसं श्रवण - गुद- सन्धीति पुरुषे,
स्त्रियां भ्रू-नासा-स्फिग् - वलि - कटि - सुलेखा - ऽङ्गुलिचयम् ॥ ८ ॥
अथैतानि पुंसंज्ञकान्यङ्गानि भवन्ति - ऊरू ओष्ठौ स्तनौ वृषणौ - मुष्कौ पादौ चरणौ ' दशनाः' दन्ताः 'भुजौ' बाहू 'हस्तौ' करौ ‘गण्डौ' मुखकपोलौ कचाः केशाः गलः–कण्ठः नखाः-कररुहाः अङ्गुष्ठौ – हस्तपादाङ्गुष्ठौ, एतत् सर्वं यत्तदपि 'पुरुषे' पुंसि । कक्षौ प्रसिद्धौ, अंसौ-स्कन्धौ श्रवणौ-कण, गुदं - पायुस्थानं सन्धिग्रहणे सर्वाङ्गसन्धय उच्यन्ते, 'इति' एवं प्रकाराः सर्व एव पुरुषे पुंसि ज्ञेयाः । तथा च परासरः -" तथाङ्गानि मुष्क—
For Private Personal Use Only
www.jainelibrary.org