________________
परिशिष्टानि प्रथमं परिशिष्टम् ॥ जयन्तु वीतरागाः ॥
सटीकं अङ्गविद्याशास्त्रम्
....तानां कालोऽन्तरात्मा सर्वदा सर्वदर्शी शुभाशुभैः फलसूचकैः सविशेषेण प्राणिनामपराङ्गेषु स्पर्श-व्याहारेङ्गितचेष्टादिभिर्निमित्तैः फलमभिदर्शयति । तत्प्रयतो दैवज्ञोऽप्रहतमतिरवधार्य स्वशास्त्रार्थमनुसृत्य यशोवर्त्मानुग्रहार्थमर्थिनां शुभा - शुभानां भावा- भावमभिनिर्दिशेत् ।
तत्र दिशं दिशः कालं, व्या[हा] रद्रव्यदर्शनम् ।
अङ्गप्रत्यङ्गस्पर्शनं समीक्ष्य फलमादिशेत् ॥ १ ॥ इति ॥ १ ॥ स्थानं पुष्पसुहासिभूरिफलभृत्सुस्निग्धकृत्तिच्छदाऽसत्पक्षिच्युतशस्तसंज्ञिततरुच्छायोपगूढं समम् । देवर्षि - द्विज- साधु - सिद्धनिलयं सत्पुष्प - सस्योक्षितं,
सत् स्वादूदकनिर्मलत्वजनिताह्लादं च सच्छाड्वलम् ॥ २ ॥
एवंविधं स्थानं 'सत्' पृच्छायां शुभदमित्यर्थः । कीदृशम् ? एवंविधानां तरूणां - वृक्षाणां या छाया तयोपगूढंछन्नम् । कीदृशानाम् ? ‘पुष्पसुहासि' पुष्पाणि - कुसुमानि शोभनो हासो येषां ते पुष्पसुहासिनः । तथा भूरीणि- प्रभूतानि फलानि [बिभ्रति-] धारयन्ति ये ते भूरिफलभृतः । सुस्निग्धा कृत्तिः - त्वक् छदानि - पर्णानि येषां ते सुस्निग्धकृत्ति— च्छदाः । तथा असत्पक्षिभिः - अनिष्टविहगैः काकोलूकादिभिश्च्युताः - रहिताः । तथा शस्तसंज्ञिता:- प्रशस्तनामानो ये पलाश-पिप्पल–न्यग्रोध- बिल्वप्रभृतयः । तथा 'समं' निम्नोन्नतावनिरहितम् । 'देवर्षीति' देवा:- सुरा ऋषयः - मुनयो द्विजाः विप्राः साधवः–सन्तः सिद्धाः - देवयोनय एतेषां यन्निलयं - स्थानम् । तथा सत्पुष्पैः - सुगन्धैः कुसुमैः सस्यैश्चधान्यादि–भिर्युतं उक्षितं— सेवितं शुभम् । तथा 'स्वादूदकनिर्मलत्वजनिताह्लादं च' स्वादु - मृष्टं यदुदकं - जलं निर्मलंप्रसन्नं च तद्भावेन जनितं - उत्पादितं आह्लादं - चित्तहर्षम्, यत् तथाभूतेनोदकेन युक्तम् । 'सच्छाड्वलं' शोभनदूर्वायुक्तं तत् सदिति । तथा च परासरः - " अथ पुष्पितफलितहरितस्निग्धत्वक्पत्रनामाङ्कितसौम्यद्विजवरनिषेविततरुच्छायोपगूढे सस्यकुसुम-रहितमृदुशाड्वलासिक्तमृष्टहृद्यप्रसन्नसतिलाशयेऽवकाशे देवर्षिसिद्धसाधू........
. पूर्वाभिमुखो
वा यः पृच्छेत् तस्य प्रार्थितार्थोपपत्तिमेभिर्निर्दिशेत् ॥ २ ॥ अथ [ अ ]शुभस्थानप्रदर्शनार्थमाह
Jain Education International
छिन्न-भिन्न - कृमिखात - कण्टकि- प्लुष्ट- रूक्ष- कुटिलैर्न सत्कुजैः । क्रूरपक्षियुतनिन्द्यनामभिः शुष्कशीर्णबहुपर्णचर्मभिः ॥ ३ ॥
एवंविधैः कुजैः-वृक्षैर्युतं असत् । कीदृशैः ? छिनैः - कल्पितैः, भिन्नैः - कुटिलैः, कृमिखातैः -- कीटक्षितैः, कण्टकिभिः - सकण्टकैः, प्लुष्टैः- दुष्टैः रूक्षैः-अस्निग्धैः, कुटिलैः - अस्पष्टैर्न शोभनैः । कौ - भूमौ जायन्त इति कुजाः । तथा क्रूरैः - अनिष्टैः पक्षिभिः– विहगैः काक- गृध्र- बकाद्यैर्युक्तैः निन्द्यनामभिः - कुत्सितसंज्ञैः बिभीतक ........ शुष्कैः - नीरसैः । तथा शीर्णानि - च्युतानि बहूनि पर्णानि - प्रभूतानि पत्राणि चर्माणि - त्वचो येषां ते ॥ ३ ॥ [ अन्यद] प्याहश्मशान - शून्यायतनं चतुष्पथं तथाऽमनोज्ञं विषमं सदोषरम् ।
1
अवस्करा - ऽङ्गार-कपाल - भस्मभिश्चितं तुषैः शुष्कतृणैर्न शोभनम् ॥ ४ ॥
एवंविधं स्थानं पृच्छायां न शोभनम् । कीदृशम् ? श्मशानं-शवशयनप्रदेशः । शून्यायतनं- उद्वासितदेवगृहम् । 'चतुष्पथं' चत्वारः पन्थानो यत्र । तथा 'अमनोज्ञं' न चित्ताह्लादकम् । विषमं - निम्नोन्नतम् । सदा-सर्वकालमूषरं१ ग्रन्थोऽयमाद्यन्तविरहितः खण्डित एव प्राप्तोऽस्ति, अतो नामाप्यस्येदं मत्परिकल्पितमेव ज्ञेयमिति ॥
For Private Personal Use Only
www.jainelibrary.org