________________
२७६
प्रथमं परिशिष्टम् दुग्ध-दग्ध-पाटितशब्दैरिति । तथा च परासरः-"अथो रोगाभिच्चातत्थर्दि(?)मूत्र-पुरीषोत्सर्ग-केशा-ऽस्थि-भस्म-तुषविषादानां अशुभानां दर्शने, तथा छिन-भिन्न-व्यापन-हृत-गत-क्षुत-जग्ध-बद्ध-दग्ध-पाटित-रुदितशब्दश्रवणे वा रोगिणां मरणमादिशेत्" ॥ अथ भोजनज्ञानमाह
अवयवमपि स्पृष्ट्वाऽन्तःस्थं दृढं मरुदाहरे
दतिबहु तदा भुक्त्वाऽन्नं सुस्थितः सुहितो वदेत् ॥ २९ ॥ 'अन्तःस्थं' अभ्यन्तरस्थितं 'दृढं' स्थिरमवयवं स्पृष्ट्वा 'मरुद्' वायुं 'संहरेत्' उगिरन् पृच्छेत् तदा स पृच्छको 'अतिबहु' अतिप्रभूतमन्नं भुक्त्वा 'सुहितः' तृप्तः सुस्थित इति वदेत् ॥ २९ ॥ अन्यदप्याह -
ललाटदर्शनाच्छूकदर्शनाच्छालिजोदनम् ।
उरःस्पर्शात् षष्टिकाख्यं ग्रीवास्पर्शे च यावकम् ॥ ३० ॥ ललाटदर्शनाच्छूकधान्यानां वा दर्शनाच्छालिजौदनं पृच्छकेन भुक्तमिति वदेत् । उर:-वक्षःस्पर्शात् षष्टिकानम् । ग्रीवास्पर्श 'यावकं' यावान्नम् ॥ ३० ॥ अन्यदप्याह
कुक्षि-कुच-जठर-जानुस्पर्शे माषाः पयस्तिल-यवागूः ।
आस्वादयतश्चौष्ठौ लिहतो मधुरं रसं ज्ञेयम् ॥ ३१ ॥ कुक्षिस्पर्शे माषा भुक्ताः । कुचौ-स्तनौ तयोः स्पर्शे पय:-क्षीरौदनम् । जठर-उदरं तत्स्पर्शने तिलौदनम् । जानुस्पर्शे यवागूं-यावकम् । ओष्ठौ आस्वादयतो लिहतो वा प्रष्टुर्मधुरं रसं भुक्तमिति ज्ञेयम् ॥ ३१ ॥ अन्यदप्याह
विसृक्के स्फोटयेज्जिह्वामम्ले वक्त्रं विकोपयेत् ।
कटुकेऽसौ कषाये च हिष्केत् ष्ठीवेच्च सैन्धवे ॥ ३२ ॥ "जिह्य' रसनां विसृक्के स्फोटयेद्वा प्रष्टाऽम्ले भुक्ते । मुखं विकोपयेत् कटुके 'असौ' पृच्छकः । कषाये भुक्ते हिष्केत् । 'सैन्धवे' लवणे भुक्ते ष्ठीवेत् ॥ ३२ ॥ अन्यदप्याह
श्लेष्मत्यागे शुष्क-तिक्तं तदल्पं श्रुत्वा क्रव्यादं प्रेक्ष्य वा मांसमिश्रम् ।
भ्रू-गण्डोष्ठस्पर्शने शाकुनं तद् भुक्तं तेनेत्युक्तमेतन्निमित्तम् ॥ ३३ ॥ श्लेष्मणः परित्यागे शुष्कं रूक्षं तिक्तं तदल्पं च भुक्तम् । 'क्रव्यादं' मांसाशिनं प्राणिनं [श्रुत्वा] 'प्रेक्ष्य' दृष्ट्वा वा तन्मांसमिश्रं भुक्तम् । भ्रूगण्डोष्ठस्पर्शने शाकुनं मांसं 'तेन' प्रष्ट्रा तद् भुक्तमिति । 'उक्तं' कथितमेतद् 'निमित्तं' चिह्नम् ॥ ३३ ॥ अन्यदप्याह
मूर्द्ध-गल-केश-हनु-शङ्ख-कर्ण-जङ्ख च बस्ति च स्पृष्ट्वा ।
गज-महिष-मेष-शूकर-गो-शश-मृग-महिषमांसयुतम् ॥ ३४ ॥ मूर्खादिस्पर्शने यथाक्रमं गजादिमांसं वक्तव्यम् । मूर्द्धा-शिरस्तत्स्पर्शने गजमांसं भुक्तं वदेत् । गलस्पर्शने माहिषम् । केशस्पर्शने मेषमांसम् । हनुस्पर्शने शौकरं मांसम् । शङ्कस्पर्शने गोमांसम् । कर्णस्पर्शने शशमांसम् । जङ्कास्पर्शने मृगमांसम् । बस्तिस्पर्शने च माहिषमांसयुतमेव भुक्तमिति ॥ ३४ ॥ अन्यदप्याह -
दृष्टे श्रुतेऽप्यशकुने गोधा-मत्स्यामिषं वदेद् भुक्तम् ।।
गर्भिण्या गर्भस्य विनिपतनमेवं प्रकल्पयेत् प्रश्ने ॥ ३५ ॥ अशकुने दृष्टे श्रुते अवलोकिते वा........गोधामिषं मत्स्यमांसं वा भुक्तं वदेत् । एवमेव गर्भस्य पृच्छायां 'अशकुने' दुनिमित्ते दृष्टे श्रुते वा गर्भिण्याः स्त्रियो गर्भपतनं वदेत् । तथा च परासर:-"तथा स्निग्ध-दृढमभ्यन्तराङ्गं स्पृष्ट्वोगिरन् पृच्छेद् भुक्तमन्नं विन्द्यात् । तत्र ललाटस्पर्शे शूकानां च दर्शने शाल्योदनम्, उरसि संस्पृष्टे षष्टिकान्नम्, ग्रीवायां यावकान्नम्, जठरे तिलौदनम्, कुक्षौ माषौदनम्, स्तनयोः क्षीरोदनम्, जान्वोर्यावकमास्वादयेत्, ओष्ठौ वा परिलेढि मधुरम्, विसृक्के जिह्वां वा स्फोटयेत्, अम्ले मुखं विकूणयेत्, कटुके हिष्केत्, कषाये निष्ठीवेत्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org