________________
अङ्गविद्याशास्त्रं सटीकम् ।
२७७ तिक्ते शुष्के श्लेष्माणमुत्सृजेदिति, लवणम् । क्रव्यादानां दर्शने मांसप्रायम् । तत्र भ्रू-गण्ड-जिह्वौष्ठसंस्पर्शने शाकुनम्, हन्वोराहम्, कर्णयोश्छागम्, जङ्घयोर्मार्गम्, केशानामौरभ्रम्, शङ्खयोर्गव्यम्, बस्ति-गलयोर्माहिषम्, मूर्ति कौञ्जरम्, पाटित-छिन-भिन्नानां दर्शने श्रवणे गोधा-मत्स्ययोमा॑समिति" ॥ ३५ ॥ अथ गर्भिण्या गर्भज्ञानमाह
पुं-स्त्री-नपुंसकाख्ये दृष्टेऽनुमिते पुरःस्थिते स्पृष्टे ।
तज्जन्म भवति पाना-उन्न-पुष्प-फलदर्शने च शुभम् ॥ ३६ ॥ गर्भपृच्छायां पुरुषे 'दृष्टे' अवलोकिते 'अनुमिते' विकृते 'पुर:स्थिते' अग्रतः स्थिते स्पृष्टे वा तस्मिन् तस्मिन् 'तज्जन्म भवति' पुंजन्म भवति । एवं स्त्रियां दृष्टायां च पुर:स्थितायां वा स्पृष्टायां स्त्रीजन्म । नपुंसकाख्ये दृष्टे स्पृष्टे पुर:स्थितेऽनुमिते नपुंसकजन्म भवति । 'पाना-ऽन्न-पुष्प-फलदर्शने च शुभं' इति पानस्य-आसवस्य अन्नस्य-भोजनादेः पुष्पाणां-कुसुमानां फलानां च दर्शने 'शुभं जन्म' सुखप्रसवो भवति ॥ ३६ ॥ अन्यदप्याह
अङ्गष्ठेन भ्रूदरं चाङ्गलीर्वा स्पृष्ट्वा पृच्छेद् गर्भचिन्ता तदा स्यात् ।
मध्वाज्या(हेम-रत्न-प्रवालैरग्रस्थैर्वा मातृ-धात्र्यात्मजैश्च ॥ ३७ ॥ स्त्री स्वाङ्गुष्ठेन भ्रूयुगमुदरं वाऽङ्गुलीर्वा स्पृष्ट्वा पृच्छेत् तदा गर्भचिन्ता 'स्याद्' भवेत् । अथवा 'अग्रस्थितैः' पुरोऽवस्थितैः 'मध्वाज्यावैः' मधु-माक्षिकं आज्यं घृतम्, आदिग्रहणात् पुंनामभिः शोभनफलैश्च, तथा 'हेम-रत्न-प्रवालैः' हेम-स्वर्ण रत्नानि–मणयः प्रवालं-विद्रुमम्, तथा 'मातृ-धात्र्यात्मजैश्च' माता-जननी धात्री-स्तनदायिनी आत्मजः-पुत्रः, एतैरप्यग्रस्थैर्गर्भपृच्छां जानीयात् । तथा च परासर:-"अथ स्त्री भ्रुवौ जठरमङ्गुष्ठेनाङ्गुलि स्पृष्ट्वा पृच्छेद् गर्भचिन्तां जानीयात्, तथा फल-च्छायावृक्ष-प्रवाला-ऽङ्कर-मधु-घृत-हेम-गर्भ-प्राजापत्यं वा मातृ-धात्री-पुत्रनिदर्शनशब्दप्रादुर्भावे गर्भपृच्छामेव" ॥ ३७ ॥ अन्यदप्याह
गर्भयता जठरे करगे स्याद् दुष्टनिमित्तवशात् तदुदासः ।
कर्षति तज्जठरं यदि पीडोत्पीडनतः करगे च करेऽपि ॥ ३८ ॥ 'जठरे' उदरे 'करगे' हस्तगते हस्तेन स्पृष्टे स्त्री गर्भयुता 'स्याद्' भवेत् । तस्मिन्नेव पृच्छासमये 'दुष्टनिमित्तवशाद' दुष्टनिमित्तदर्शनात् क्षुत्-पतित-भग्न-विनष्ट-दग्ध-क्षीणादिदर्शन-श्रवणात 'तददासः' गर्भपतनं भवति । अथवा तज्जठरं 'पीडोत्पीडनतः' पीडमईनं कृत्वा कर्षति कद्रूवत्, 'करगे च करेऽपि' हस्तं हस्तेन वाऽवलम्ब्य पृच्छति तथापि तदुदास इति ॥ ३८ ॥ अथ गर्भग्रहणे कालज्ञानमाह
घ्राणाया दक्षिणे द्वारे स्पृष्टे मासोऽन्तरं वदेत् ।
वामेऽब्दौ कर्ण एवं मा द्वि-चतुर्मं श्रुति-स्तने ॥ ३९ ॥ अङ्गष्ठेनेत्यनुवर्तते । 'घ्राणायाः' नासिकाया दक्षिणे 'द्वारे' श्रोतसि अङ्गष्ठेन स्पृष्टे गर्भग्रहणे मासोऽन्तरं 'वदेद्' ब्रूयात्, मासेन गर्भग्रहणं भविष्यतीति । वामे श्रोतसि स्पृष्टे 'अब्दौ' वर्षद्वयमन्तरम्, वर्षद्वयेन गर्भग्रहणं भवतीति । एवं वामे कर्णे वर्षद्वयेनैव । मा:शब्देन मास उच्यते, श्रुतिः-कर्णः दक्षिणे कर्णच्छिद्रे स्पृष्टे मासे द्विघ्नं-द्विगुणम्, मासद्वयेन गर्भग्रहणं भवतीति । वामे वर्षद्वयेन स्तनस्पर्शने । माश्चतुज़-चतुर्मासैः स्तनद्वयस्पर्शनेनेति ॥ ३९ ॥ अन्यदप्याह
वेणीमूले त्रीन् सुतान् कन्यके द्वे कर्णे पुत्रान् पञ्च हस्ते त्रयं च ।
अङ्गुष्ठान्ताः पञ्चकं चाऽनुपूर्व्या पादाङ्गष्ठे पाणियुग्मेऽपि कन्याम् ॥ ४० ॥ वेणी-केशकलापः तन्मूले पृच्छायां स्पृष्टे त्रीन् ‘सुतान्' पुत्रान् द्वे कन्यके जनयिष्यसीति वक्तव्यम् । 'कर्णे' कर्णयुग्मे स्पृष्टे पुत्रान् पञ्च । हस्तयोः स्पर्शने पुत्रत्रयं च । कनिष्ठिकाङ्गुलेरारभ्याङ्गुष्ठाङ्गुलिं यावदानुपूर्व्या क्रमेण पुत्रपञ्चकं सूते । तत्र कनिष्ठिकास्पर्शने एकं पुत्रम्, अनामिकास्पर्शने द्वौ, मध्यमायां त्रयः, तर्जन्यां चत्वारः, अङ्गष्ठे पञ्च स्पृष्टे पाष्णियुग्मेऽपि स्पृष्टे कन्यामेकां सूते ॥ ४० ॥ अन्यदप्याह
नुष्ठ पश्च । पादाङ्गष्ठे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org