________________
२७८
प्रथमं परिशिष्टम् सव्या-ऽसव्योरुसंस्पर्शे सूते कन्या-सुतद्वयम् ।
स्पृष्टे ललाटमध्या-ऽन्ते चतु-स्त्रितनया भवेत् ॥ ४१ ॥ सव्यं-दक्षिणमूरु तत्संस्पर्शे कन्याद्वयं सुतद्वयं च सूते । असव्ये-वामेऽप्येवमेव । ललाटमध्या-ऽन्ते स्पृष्टे यथासङ्ख्यं चतुस्त्रितनया भवेत्, ललाटमध्ये स्पृष्टे चतुस्तनया:-चतुःपुत्राः, ललाटान्ते त्रितनया भवेत् । तथा च परासरः"तत्र जठरस्पर्शने गर्भिणीमेव ब्रूयात्, अङ्गुष्ठेन नासाश्रोतसि दक्षिणे कुर्यान्मासान्तेन गर्भग्रहणम्, वामे द्विवर्षान्तरेण, कर्णच्छिद्रे मासद्वयेन, वामे वर्षद्वयेन, स्तनयोरङ्गुष्ठेनैव स्पृशेच्चतुर्भिर्मासैः । पीठमर्द-कचान्तरे कृत्वोपरं कण्डूयेत्, अग्रहस्तं हस्तेनावगृह्य वा पृच्छेद्, भग्नलोहिका-बधिरउद्दालक-कुठार-सुतवलित-भग्नदर्शन-शब्दप्रादुर्भावे वा स्याद् गर्भपतनं वा विन्द्यात् । तथाऽन्न-पान-पुष्प-फलं प्रेक्ष्य द्वि-चतुष्पदामन्यद्रव्याणां पुंसंज्ञकानां दर्शन-श्रवणे पुंजन्म विन्द्यात्, स्त्रीपुंसंज्ञानां स्त्रीपुंजन्म, नपुंसकाख्ये नपुंसकानाम् । अथ विशेषः-वेणीमूलमतिगृह्य पृच्छेत् तस्य द्विवान् पुत्रान् जनयिष्यसीति ब्रूयात्, ललाटमध्यं स्पृशन्तीति चत्वार्यपत्यानि, ललाटान्तं त्रीणि, कर्णयोः संस्पर्शे पश्चापत्यानि विन्द्यात्, हस्ततलसंस्पर्श त्रीणि, कनिष्ठा-ऽनामिका-मध्यमा-प्रदेशिनी-तर्जन्यङ्गष्ठानामेक-द्वि-त्रि-चतुः-पञ्चापत्यानि, दक्षिणोरुस्पर्श द्वौ पुत्रौ द्वे कन्यके जनयिष्यसीति, वामस्य तिस्रः कन्यका द्वौ पुत्रौ, पादाङ्गष्ठस्य कन्यकैका, पार्योकन्यकैकैव" इति ॥ ४१ ॥ अथ गर्भिण्याः कस्मिन् नक्षत्रे जन्म भविष्यतीति तज्ज्ञानार्थमाह
शिरो-ललाट-भू-कर्ण-गण्डं हनु-रदा गलम् । सव्योऽपसव्यः स्कन्धश्च हस्तौ चिबुक-नालकम् ॥ ४२ ॥ उरः कुचं दक्षिणमप्यसव्यं हृत्पार्श्वमेवं जठरं कटिश्च ।
स्फिक्पायुसन्ध्यूरुयुगं च जानू जङ्ग्रेऽथ पादाविति कृत्तिकादौ ॥ ४३ ॥ सूते इत्यनुवर्तते । पृच्छासमये गर्भिण्याः शिरःप्रभृतिसंस्पर्शने कृत्तिकादौ नक्षत्रे जन्म विन्द्यात् । 'शिरः' मूर्धानं संस्पृशेत् कृत्तिकानक्षत्रे जन्म भवति, गर्भिणी सूते । ललाटे रोहिण्याम्, ध्रुवोर्मृगशिरे, कर्णयोराज़्याम्, गण्डयोः पुनर्वसौ, हन्वोः पुष्ये, रदाः-दन्तास्तेष्वश्लेषायाम्, गले-ग्रीवायां मघासु, सव्ये-दक्षिणस्कन्धस्पर्शने पूर्वफल्गुन्याम्, अपसव्येवामस्कन्धस्पर्शने उत्तराफल्गुन्याम्, हस्तयोः स्पर्शने हस्ते, चिबुके-आस्याधोभागे चित्रायाम्, नालके-वक्षःसन्धौ स्वातौ, उरसि-वक्षसि विशाखायाम्, दक्षिणकुचस्पर्शेऽनुराधायाम्, असव्ये-वामे ज्येष्ठासु, हृदि मूले, पार्श्वद्वयं ‘एवं' प्राग्वत्, दक्षिणपार्श्वे पूर्वाषाढासु, वामपार्वे उत्तराषाढासु, जठरे श्रवणे, कट्यां धनिष्ठायाम्, स्फिग्-गुदसन्धिस्पर्शने शतभिषजि, दक्षिणोरुस्पर्शने प्रारभद्रपदायाम, वामे उत्तरभद्रपदायाम्, जान्वो रेवत्याम्, जङ्घयोरश्विन्याम्, पादयोर्भरण्यामिति । तथा च परासर:-"शिरसि स्पृष्टे कृत्तिकासु जन्म विन्द्यात्, ललाटे रोहिण्याम्, ध्रुवोः मृगशिरसि, कर्णयोराज़्याम्, गण्डयो: पुनर्वसौ, हन्वोस्तिष्ये, दन्तेष्वश्लेषायाम्, ग्रीवायां मघासु, दक्षिणांसे प्राक्फल्गुन्याम्, उत्तरायां वामे, हस्ते हस्तयोः, चिबुके चित्रायाम्, स्वातौ नालके, उरसि विशाखायाम्, दक्षिणे स्तनेऽनुराधायाम्, वामे ज्येष्ठासु, हृदि मूले, दक्षिणपार्वे प्रागाषाढासु, उत्तराषाढास्वपरपावें, जठरे श्रवणे, अविष्ठासु श्रोण्याम्, स्फिग्गुदयोर्वारुणे, दक्षिणे प्राक्प्रोष्ठपदायाम्, वामेनोत्तरायाम्, जानुभ्यां पौष्णे, जङ्घयोराश्विने, भरण्यां पादयोः" इति ॥ ४२ ॥ ४३ ॥ अथोपसंहारा [र्थमाह-]
इति विरचितमेतद् गात्रसंस्पर्शलक्ष्म, .
प्रकटमभिमताप्त्यै वीक्ष्य शास्त्राणि सम्यक् । विपुलमतिरुदारो वेत्ति यः सर्वमेतनरपति-जनताभिः.
........... ॥ ४४ ॥ [॥ अग्रे ,खण्डितोऽयं ग्रन्थः ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org