Book Title: Angavijja
Author(s): Punyavijay, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 373
________________ परिशिष्टानि प्रथमं परिशिष्टम् ॥ जयन्तु वीतरागाः ॥ सटीकं अङ्गविद्याशास्त्रम् ....तानां कालोऽन्तरात्मा सर्वदा सर्वदर्शी शुभाशुभैः फलसूचकैः सविशेषेण प्राणिनामपराङ्गेषु स्पर्श-व्याहारेङ्गितचेष्टादिभिर्निमित्तैः फलमभिदर्शयति । तत्प्रयतो दैवज्ञोऽप्रहतमतिरवधार्य स्वशास्त्रार्थमनुसृत्य यशोवर्त्मानुग्रहार्थमर्थिनां शुभा - शुभानां भावा- भावमभिनिर्दिशेत् । तत्र दिशं दिशः कालं, व्या[हा] रद्रव्यदर्शनम् । अङ्गप्रत्यङ्गस्पर्शनं समीक्ष्य फलमादिशेत् ॥ १ ॥ इति ॥ १ ॥ स्थानं पुष्पसुहासिभूरिफलभृत्सुस्निग्धकृत्तिच्छदाऽसत्पक्षिच्युतशस्तसंज्ञिततरुच्छायोपगूढं समम् । देवर्षि - द्विज- साधु - सिद्धनिलयं सत्पुष्प - सस्योक्षितं, सत् स्वादूदकनिर्मलत्वजनिताह्लादं च सच्छाड्वलम् ॥ २ ॥ एवंविधं स्थानं 'सत्' पृच्छायां शुभदमित्यर्थः । कीदृशम् ? एवंविधानां तरूणां - वृक्षाणां या छाया तयोपगूढंछन्नम् । कीदृशानाम् ? ‘पुष्पसुहासि' पुष्पाणि - कुसुमानि शोभनो हासो येषां ते पुष्पसुहासिनः । तथा भूरीणि- प्रभूतानि फलानि [बिभ्रति-] धारयन्ति ये ते भूरिफलभृतः । सुस्निग्धा कृत्तिः - त्वक् छदानि - पर्णानि येषां ते सुस्निग्धकृत्ति— च्छदाः । तथा असत्पक्षिभिः - अनिष्टविहगैः काकोलूकादिभिश्च्युताः - रहिताः । तथा शस्तसंज्ञिता:- प्रशस्तनामानो ये पलाश-पिप्पल–न्यग्रोध- बिल्वप्रभृतयः । तथा 'समं' निम्नोन्नतावनिरहितम् । 'देवर्षीति' देवा:- सुरा ऋषयः - मुनयो द्विजाः विप्राः साधवः–सन्तः सिद्धाः - देवयोनय एतेषां यन्निलयं - स्थानम् । तथा सत्पुष्पैः - सुगन्धैः कुसुमैः सस्यैश्चधान्यादि–भिर्युतं उक्षितं— सेवितं शुभम् । तथा 'स्वादूदकनिर्मलत्वजनिताह्लादं च' स्वादु - मृष्टं यदुदकं - जलं निर्मलंप्रसन्नं च तद्भावेन जनितं - उत्पादितं आह्लादं - चित्तहर्षम्, यत् तथाभूतेनोदकेन युक्तम् । 'सच्छाड्वलं' शोभनदूर्वायुक्तं तत् सदिति । तथा च परासरः - " अथ पुष्पितफलितहरितस्निग्धत्वक्पत्रनामाङ्कितसौम्यद्विजवरनिषेविततरुच्छायोपगूढे सस्यकुसुम-रहितमृदुशाड्वलासिक्तमृष्टहृद्यप्रसन्नसतिलाशयेऽवकाशे देवर्षिसिद्धसाधू........ . पूर्वाभिमुखो वा यः पृच्छेत् तस्य प्रार्थितार्थोपपत्तिमेभिर्निर्दिशेत् ॥ २ ॥ अथ [ अ ]शुभस्थानप्रदर्शनार्थमाह Jain Education International छिन्न-भिन्न - कृमिखात - कण्टकि- प्लुष्ट- रूक्ष- कुटिलैर्न सत्कुजैः । क्रूरपक्षियुतनिन्द्यनामभिः शुष्कशीर्णबहुपर्णचर्मभिः ॥ ३ ॥ एवंविधैः कुजैः-वृक्षैर्युतं असत् । कीदृशैः ? छिनैः - कल्पितैः, भिन्नैः - कुटिलैः, कृमिखातैः -- कीटक्षितैः, कण्टकिभिः - सकण्टकैः, प्लुष्टैः- दुष्टैः रूक्षैः-अस्निग्धैः, कुटिलैः - अस्पष्टैर्न शोभनैः । कौ - भूमौ जायन्त इति कुजाः । तथा क्रूरैः - अनिष्टैः पक्षिभिः– विहगैः काक- गृध्र- बकाद्यैर्युक्तैः निन्द्यनामभिः - कुत्सितसंज्ञैः बिभीतक ........ शुष्कैः - नीरसैः । तथा शीर्णानि - च्युतानि बहूनि पर्णानि - प्रभूतानि पत्राणि चर्माणि - त्वचो येषां ते ॥ ३ ॥ [ अन्यद] प्याहश्मशान - शून्यायतनं चतुष्पथं तथाऽमनोज्ञं विषमं सदोषरम् । 1 अवस्करा - ऽङ्गार-कपाल - भस्मभिश्चितं तुषैः शुष्कतृणैर्न शोभनम् ॥ ४ ॥ एवंविधं स्थानं पृच्छायां न शोभनम् । कीदृशम् ? श्मशानं-शवशयनप्रदेशः । शून्यायतनं- उद्वासितदेवगृहम् । 'चतुष्पथं' चत्वारः पन्थानो यत्र । तथा 'अमनोज्ञं' न चित्ताह्लादकम् । विषमं - निम्नोन्नतम् । सदा-सर्वकालमूषरं१ ग्रन्थोऽयमाद्यन्तविरहितः खण्डित एव प्राप्तोऽस्ति, अतो नामाप्यस्येदं मत्परिकल्पितमेव ज्ञेयमिति ॥ For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470