Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 156
________________ आवश्यकहारिभद्रीया प्रत्याख्या नाध्य० श्रावकत्रताधि० ॥८४०॥ त्तरगुणप्रत्याख्यानं, अधुना सर्वोत्तरगुणप्रत्याख्यानमुच्यते, तत्रेयं गाथा-पच्चक्खाणं' गाहा। अथवा देशोत्तरगुणप्रत्याख्यानं श्रावकाणामेवभवतीति तदधिकार एवोक्तं, सर्वोत्तरगुणप्रत्याख्यानं तु लेशत उभयसाधारणमपीत्यतस्तदभिधित्सयाऽऽह पच्चक्खाणं उत्तरगुणेसु खमणाइयं अणेगविहं । तेण य इहयं पगयं तंपि य इणमो दसविहं तु ॥ १५६३ ॥ अणागयमइक्वंतं कोडियसहिअंनिअंटिअंचेव । सागारमणागारं परिमाणकडं निरवसेसं ॥ १५६४॥ संकेयं चेव अद्धाए, पञ्चक्खाणं तु दसविहं । सयमेवणुपालणियं, दाणुवएसे जह समाही ॥ १५६५॥ | व्याख्या-प्रत्याख्यानं प्रागनिरूपितशब्दार्थ, 'उत्तरगुणेषु' उत्तरगुणविषयं प्रकरणात् साधूनां तावदिदमिति-क्षपणादि, क्षपणग्रहणाच्चतुर्थादिपरिग्रहः, आदिग्रहणाद्विचित्राभिग्रहपरिग्रहः, 'अनेकविध'मित्यनेकप्रकार, प्रकारश्च वक्ष्यमाणस्तेनानेकविधेन, चशब्दादुक्तलक्षणेन च, 'अत्रेति सामान्येनोत्तरगुणप्रत्याख्याननिरूपणाधिकारे, अथवा चशब्दस्यैवकारा र्थत्वात् तेनैव, अत्रे'ति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतम्-उपयोगोऽधिकार इति पर्यायस्तदपि चेदं दशविधं तु-मूला|पेक्षया दशविधं दशप्रकारकमेवेति गाथार्थः॥१५६३॥अधुना दशविधमेवोपन्यस्यन्नाह–'अणागतं०'गाथा, अनागतकरणा|दनागतं, पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, एवमतिक्रान्तकरणादतिक्रान्तं, भावना प्राग्वत् । 'कोटिसहित'मिति कोटीभ्यां सहितं कोटिसहितं-मिलितोभयप्रत्याख्यानकोटि, चतुर्थादिकरण- | मेवेत्यर्थः, "नियन्त्रितं चैव' नितरां यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमितिहृदयं, 'साकार' आक्रियन्त इत्याकाराः-प्रत्याख्यानापवादहेतवोऽनाभोगादयः सहाकारैः साकारं, तथाऽविद्यमानाकार |८४०॥ Jain Education For Personal & Private Use Only Linelibrary.org

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208