Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
RECE
-%
एव उभयमेवानपेक्षं इत्यादिरूपां अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्य-श्रुत्त्वा तत सर्वनयविशुद्ध-सर्वनयसम्मतं वचनं यच्चरणगुणस्थितःसाधुः, यस्मात् सर्वे नया एव भावनिक्षेपमिच्छन्तीति गाथार्थः॥१६२३॥ इति शिष्यहितायां प्रत्याख्यानविवरणं समाप्तमिति । व्याख्यायाध्ययनमिदं यदवाप्तमिह शुभं मया पुण्यम् । शुद्धं प्रत्या
ख्यानं लभतां भव्यो जनस्तेन ॥१॥ समाप्ता चेयं शिष्यहितानामावश्यकटीका ॥ कृतिः सिताम्बराचार्यजिनभटनिगमैदानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो जाइणीमहत्तरासूनोरल्पमतेराचार्यहरिभद्रस्य ।
यदिहोत्सूत्रमज्ञानाद्, व्याख्यातं तद् बहुश्रुतैः । क्षन्तव्यं कस्य सम्मोहः, छद्मस्थस्य न जायते ॥१॥ यर्जितं विरच(मंच)यता सुबोध्या,पुण्यं मयाऽऽवश्यकशास्त्रटीकाम् ।भवे भवे तेन ममैवमेव,भूयाजिनोक्तानुमते प्रयासः॥२॥
अन्यच्च सन्त्यज्य समस्तसत्वा, मात्सर्यदुःखं भवबीजभूतम् । सुखात्मकं मुक्तिपदावहं च, सर्वत्र माध्यस्थमवामुवन्तु ॥३॥ समाप्ता चेयमावश्यकटीका । द्वाविंशतिः सहस्राणि, प्रत्येकाक्षरगणनया(संख्यया)। अनुष्टुप्छन्दसा मानमस्या उद्देशतः
कृतम् ॥१॥ अंकतोऽपि ग्रन्थाग्रं २२०००
र
ESS
N GACARROR
SOC%
Jain Educon
For Personal & Private Use Only
nelibrary.org

Page Navigation
1 ... 205 206 207 208