Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
RELATEST
|याऽपि निषिद्धा, तथा चागमः-"गीतत्थो य विहारो बिदितो गीतत्थमीसितो भणितो । एत्तो ततियविहारो णाणुण्णातो || जिणवरेहिं ॥१॥"न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यकूपन्थानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत् क्षायोपशमिक ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधेस्तटस्थस्य दीक्षाप्रतिपन्नस्य उत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सञ्जायते [यतो यावज्जीवाद्यखिलवस्तुपरिच्छेद्यरूपं केवलज्ञानं
नोत्पन्नमिति, तस्मात् ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितं 'इति जो उवदेसो सो णओ णाम'त्ति ४ इति-एवं उक्तेन न्यायेन य उपदेशः ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः । अयं च नामादौ पवि
धप्रत्याख्याने ज्ञानरूपमेव प्रत्याख्यानमिच्छति, ज्ञानात्मकत्वादस्य, क्रियारूपं तु तत्कार्यत्वात् तदायतत्त्वान्नेच्छति, गुणभूतं चेच्छतीति गाथार्थः । उक्तो ज्ञाननयोऽधुना क्रियानयावसरः, तदर्शनं चेदं-क्रियैव प्रधानं ऐहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात् , तथा चायमप्युक्तलक्षणमेव स्वपक्षसिद्धये गाथामाह-'णायम्मि गेण्हितब्वे' इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवमर्थ ऐहिकामुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिदृश्यते, तथा चान्यैरप्युक्त-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥१॥" तथाऽऽमुष्मिकफलप्राप्यर्थिनाऽपि
+ गीतार्थश्च बिहारो द्वितीयो गीतार्थनिश्रितो भणितः । इतस्तृतीयविहारो नानुज्ञातो जिनवरैः ॥ १॥
आ०१४५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 203 204 205 206 207 208