Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 204
________________ आवश्यक हारिभद्रीया ॥८६४॥ सव्वेसिंपि नयाणं बहुविहवत्तव्त्रयं निसाभित्ता । तं सव्वनयविसुद्धं जं चरणगुणडिओ साहू ॥ १६२३ ॥ ॥ इति पञ्चक्खाणनिजुत्ती समत्ता | श्रीभद्रबाहुखामिविरचितं श्रीमदावश्यक सूत्रं सम्पूर्णम् ॥ 'णातम्मि गेहितबे' गाहा व्याख्या - ज्ञाते - सम्यक् परिच्छिन्ने 'गेहितबे 'ति ग्रहीतव्ये उपादेये 'अगिहितमित्ति अग्रहीतव्ये अनुपादेये, हेय इत्यर्थः चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोर्ज्ञातत्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्यैव च व्यवहितः प्रयोगो द्रष्टव्यः, ज्ञात एव ग्रहीतव्ये अग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते 'अत्थंमि'त्ति अर्थ ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयस्तृणादिः आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयो विपक्षाभ्युदयादिरिति, तस्मिन्नर्थे यतितव्यमेव इति - ऐहिकामुष्मिकफलप्रात्यर्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्त्तव्यं सम्यग्ज्ञाने वर्त्तमानस्य फलाविसंवाददर्शनात्, तथा चान्यैरप्युक्तम्- “विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ||१||” तथाऽऽमुष्मिक फलप्रात्यर्थिना हि ज्ञान एव यतितव्यं, तथाऽऽगमोऽप्येवमेव व्यवस्थितः, यत उक्तं - "पढमं णाणं ततो दया, एवं चिट्ठति सबसंजते । अण्णाणी किं काहिति किं वा णाहिति छेयपावयं १ ॥ १ ॥ इतश्चैतदेवमङ्गीकर्तव्यं यस्मात् तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रि १ प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति किं वा ज्ञास्यति छेकं पापकं वा ॥ १ ॥ Jain Educationonal For Personal & Private Use Only ६प्रत्याख्या नाध्य० ॥८६४॥ Mainelibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208