Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक हारिभद्रीया
६प्रत्याख्या नाध्य.
॥८६५॥
SARAMSARACK
क्रियैव कर्तव्या, तथा मुनीन्द्रवचनमप्येवं व्यवस्थितं, यत उक्तम्-"चेइयकुलगणसंघे आयरियाणं च पवयण सुए य । सवेसुवि तेण कयं तवसंजममुज्जमतेणं ॥१॥" इतश्चैतदेवमङ्गीकर्तव्यम्-यस्मात् तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः-"सुबहुंपि सुयमहीयं किं काही चरणविष्पहीणस्स? । अंधस्स जह पलित्ता दीपसयसहस्सकोडीवि ॥१॥" दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः। एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, चारित्रं क्रिये| त्यनन्तरं, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भगवतः समुपन्नकेवलज्ञानस्यापि न तावत् मुक्त्यवाप्तिः सञ्जायते यावदखिलकर्मेन्धनानलभूता इस्वपञ्चाक्षरोगिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात् क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति य उपदेशः-क्रियाप्राधान्यख्यापनपरः स नयो नाम क्रियानय इत्यर्थः । अयं च नामादौ षविधे प्रत्याख्याने क्रियारूपमेव प्रत्याख्यानमिच्छति, तदात्मकत्वादस्य, ज्ञानं तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूतं चेच्छतीति गाथार्थः । उक्त क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्त्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं ?, पक्षद्वयेऽपि युक्तिसम्भवाद्, आचार्यः पुनराह-सव्वेसिं'गाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह-'सव्वसिपि'गाहा व्याख्या'सर्वेषा'मिति मूलनयानां अपिशब्दात् तद्भेदानां च नयानां-द्रव्यास्तिकादीनां बहुविधवक्तव्यता-सामान्यमेव विशेषा
चैत्यकुलगणसङ्के आचार्येषु च प्रवचने श्रुते च । सर्वेष्वपि तेन कृतं तपःसंयमयोरुद्यच्छता ॥१॥ २ सुबहपि श्रुतमधीतं किं करिष्यति चरणविग्रहीणस्य । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोव्यपि ॥१॥
॥८६॥
Jain Education
antonal
For Personal & Private Use Only
WULinelibrary.org

Page Navigation
1 ... 204 205 206 207 208