Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 203
________________ पञ्चायाती सोक्खपरंपरेण सिद्धिगमणं, केसिंचि पुणो तेणेव भवग्गणेण सिद्धिगमणं भवतीति । अत एव प्रधानफलोपदर्शनेनोपसंहरन्नाह पच्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिष्टं । पत्ता अणंतजीवा सासयसुक्खं लहुं मुक्खं ॥ १६२१ ॥ 'पच्चक्खाणमिणं' गाहा व्याख्या-प्रत्याख्यानमिदं-अनन्तरोतं आसेव्य भावेन अन्तःकरणेन जिनवरोद्दिष्टं-तीर्थकरकथितं, प्राप्ता अनन्तजीवाः, शाश्वतसौख्यं शीघ्रं मोक्षम् आह-इदं फलं गुणनिरूपणायां 'पच्चक्खाणम्मि कते' इत्यादिना दर्शितमेव पुनः किमर्थमिति ?, उच्यते, तत्र वस्तुतः प्रत्याख्यानस्वरूपद्वारेणोक्तं, इह तु लोकनीतित इति न दोषः, यद्वा इत एव द्वारादवतार्य स्वरूपकथनत एव प्रवृत्तिहेतुत्वात् तत्रोक्तं इत्यनपराध एवेत्यलं विस्तरेण । उक्तोऽनुगमः साम्प्रतं नयाः, ते च नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूढैवंभूतभेदभिन्नाः खल्वौघतः सप्त भवन्ति, स्वरूपं चैतेषामधस्तात् सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थ एते ज्ञानक्रियान्तरभावद्वारेण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदं-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाहनायंमि गिहियव्वे अगिण्हियव्वंमि चेव अत्थंमि । जइयव्वमेव इइ जो उवएसो सो नओ नाम ॥ १६२२ ॥ प्रत्यायातिः सौख्यपरम्परकेण सिद्धिगमनं, केषाञ्चित् पुनस्तेनैव भवग्रहणेन सिद्धिगमनं भवतीति । Jain Educational nal For Personal & Private Use Only W lainelibrary.org

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208