Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
ROCCORPOR6514526.
न तद गद्यते, किं तर्हि ?, सर्वायुष्कक्षयलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बह्वच (पूर्वपदात) इति ठन (पा०४-४-६४ ) संलिख्यतेऽनया शरीरकषायादीति संलेखना-तपोविशेषलक्षणा तस्याः जोषणं-सेवन तस्याराधना-अखण्डकालस्य करणमित्यर्थः, चशब्दः समुच्चयार्थः। एत्थ सामायारी-आसेवितगिहिधम्मेण किल सावगेण पच्छा णिक्खमित, एवं सावगधम्मो उज्जमितो होति, ण सक्कति ताधे भत्तपच्चक्खाणकाले संथारसमणेण होतबंति विभासा । आह उक्तम्-'अपश्चिमा मारणान्तिकी संलेखनाझोषणाऽऽराधना'ऽतिचाररहिता सम्यक् पालनीयेति वाक्यशेषः, अथ के पुनरस्या अतिचारा इति तानुपदर्शयन्नाह-'इमीए समणोवासएणं०' अस्या-अनन्तरोदितसंलेखनासेवनाराधनायाः श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-इहलोकाशंसाप्रयोगः, इहलोको-मनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषस्तस्याः प्रयोग इति समासः श्रेष्ठी स्याममात्यो वेति, एवं 'परलोकाशंसाप्रयोगः' परलोकेदेवलोके, एवं जीविताशंसाप्रयोगः, जीवितं-प्राणधारणं तत्राभिलाषप्रयोगः-यदि बहुकालं जीवेयमिति, इयं च वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् बहुपरिवारदर्शनाच्च, लोकश्लाघाश्रवणाच्चैवं मन्यते-जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि, यत एवंविधा मदुद्देशेनेयं विभूतिर्विद्यत इति, 'मरणाशंसाप्रयोगः' न कश्चित्तं प्रतिपन्नानशनं गवेषयति न सपर्ययाऽऽद्रियते नैव कश्चित् श्लाघते, ततस्तस्यैवंविधश्चित्तपरिणामोजायते-यदि शीघ्रं म्रियेऽहमपुण्यकर्मेति, भोगाशंसाप्रयोगः' जन्मान्तरे चक्रवर्ती स्याम् वासुदेवो महामण्डलिकःशुभरूपवानित्यादि । उक्तः श्रावकधर्मः, व्याख्यातं सप्रभेदं देशो
अत्र सामाचारी-मासेवितगृहिधर्मेण किल श्रावकेन पश्चानिष्क्रान्तव्यं, एवं श्रावकधर्मों भवत्युद्यतः, न शक्नोति तदा भक्तप्रत्याख्यानकाले संस्तारश्रमणेन भवितव्यं, विभाषा।
Jaln Education
a
l
For Personal & Private Use Only
planelibrary.org

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208