Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 157
________________ आ० १४१ Jair मनाकारं, 'परिमाणकृतमिति दत्त्यादिकृतपरिमाणमिति भावना 'निरवशेष' मिति समग्राशनादिविषय इति गाथार्थः ॥ १५६४ ॥ 'सङ्केतं चैवेति केतं - चिह्नमङ्गुष्ठादि सह केतेन सङ्केतं सचिह्नमित्यर्थः, 'अद्धा यति कालाख्या, अद्धा - | माश्रित्य पौरुष्यादिकालमानमपीत्यर्थः, 'प्रत्याख्यानं तु दशविधं प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तुशब्द|स्यैवकारार्थत्वाद् व्यवहितोपन्यासाद् दशविधमेव, इह चोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्त्यमाशङ्कनीयमिति । आह - इदं प्रत्याख्यानं प्राणातिपातादिप्रत्याख्यानवत् किं तावत् स्वयमकरणादिभेदभिन्नमनुपालनीयं आहोश्विदन्यथा ?, अन्यथैवेत्याह- स्वयमेवानुपालनीयं, न पुनरन्यकारणे अनुमतौ वा निषेध इति, आह च- ' दाणुवदेसे जध समाधित्ति अन्याहारदाने यतिप्रदानोपदेशे च 'यथा समाधिः' यथा समाधानमात्मनोऽप्यपीडया प्रवर्त्तितव्यमिति वाक्यशेषः, उक्तं च- 'भांवितजिणवयणाणं ममत्तरहियाण णत्थि हु विसेसो । अप्पाणंमि परंमि य तो वज्जे पीडमुभओवि ॥१॥"त्ति गाथार्थः ॥ १५६५ ॥ साम्प्रतमनन्तरोपन्यस्तदशविधप्रत्याख्यानाद्यभेदावयवार्थाभिधित्सयाऽऽह— होही पोसवणा ममय तया अंतराइयं हुज्जा । गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा ।। १५६६ ।। सो दाइ तवोकम्मं पडिवजे तं अणागए काले । एयं पञ्चक्खाणं अणागयं होइ नायव्वं ॥ १५६७ ॥ भविष्यति पर्युषणा मम च तदा अन्तरायं भवेत्, केन हेतुनेत्यत आह-गुरुवैयावृत्त्येन तपस्विग्लानतया वेत्युपलक्षणमिदमिति गाथासमासार्थः ॥ १५६६ ॥ स इदानीं तपःकर्म प्रतिपद्येत तदनागतकाले तत्प्रत्याख्यानमेवम्भूतमनागत .१ भावित जिनवचनानां ममत्वरहितानां नास्त्येव विशेषः । आत्मनि परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि ॥ १ ॥ For Personal & Private Use Only GPS elibrary.org

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208