Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
'अर्द्ध कुक्कुट्टयाः पच्यते अर्द्ध प्रसवाय कल्प्यते' इति, अपरिणतानां श्रद्धानं च न जायते, एवं तु सामान्यविशेषभेदनिरूपणायां सुखावसेयं सुखश्रद्धेयं च भवति इति गाथार्थः ॥ १५९० ॥ तथा चाहअसणं पाणगं चेव, खाइमं साइमं तहा। एवं परूवियंमी, सद्दहिउँ जे सुहं होइ॥ १५९१ ॥ ___ अशनं पानकं चैव खादिमं स्वादिमं तथा, एवं प्ररूपिते-सामान्यविशेषभावेनाख्याते, तथावबोधात् श्रद्धातुं सुखं भवति, सुखेन श्रद्धा प्रवर्तते, उपलक्षणार्थत्वाद् दीयते पाल्यते च सुखमिति गाथार्थः ॥ १५९१ ॥ आह-मनसाऽन्यथा | संप्रधारिते प्रत्याख्याने त्रिविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता चतुर्विधस्येति गुरुणाऽपि तथैव दत्तमत्र का प्रमाणं ?, उच्यते, शिष्यस्य मनोगतो भाव इति, आह चअन्नस्थ निवडिए वंजणमि जो खलु मणोगओ भावो । तं खलु पच्चक्खाणं न पमाणं वंजणच्छलणा ॥१५९२॥ ___ अन्यत्र निपतिते व्यञ्जने-त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शब्दे यः खलु मनोगतो भावः15 प्रत्याख्यातुः खलुशब्दो विशेषणे अधिकतरसंयमयोगकरणापहतचेतसोऽन्यत्र निपतिते न तु तथाविधप्रमादात् यो मनोगतो भावः आद्यः तत् खलु प्रत्याख्यानं प्रमाणं, अनेनापान्तरालगतसूक्ष्मविवक्षान्तरप्रतिषेधमाह, आद्याया एव प्रवर्तक-| त्वात् , व्यवहारदर्शनस्य चाधिकृतत्वाद्, अतः न प्रमाणं व्यञ्जनं-तच्छिष्याचार्ययोर्वचनं, किमिति !, छलनाऽसौ व्यञ्जनमात्र, तदन्यथाभावसभावादिति गाथार्थः ॥ १५९२॥ इदं च प्रत्याख्यानं प्रधान निजराकारणमिति विधिवदनुपालनीयं, तथा चाह
Jain Education
Alial
For Personal & Private Use Only
M.helibrary.org

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208