Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
प्रत्याख्यानं-उक्तलक्षणं भवति-शुद्धं जायते निष्कलङ्कमिति गाथार्थः ॥ १५९५ ॥ ततः प्रत्याख्यानाच्छुद्धाच्चारित्रधर्मः स्फुरतीति वाक्यशेषः, कर्मविवेकः-कर्मनिर्जरा ततः-चारित्रधर्मात् , ततश्चेति द्विरावर्त्यते ततश्च-तस्माच्च कर्मविवेकात् 'अपूर्वमिति क्रमेणापूर्वकरणं भवति, ततः-अपूर्वकरणाच्छ्रेणिक्रमेण केवलज्ञानं, ततश्च-केवलज्ञानाद् भवोपग्राहिकर्मक्षयेण मोक्षः सदासौख्यः-अपवर्गो नित्यसुखो भवति, एवमिदं प्रत्याख्यानं सकलकल्याणककारणं अतो यत्नेन कर्त्तव्यमिति गाथार्थः ॥ १५९६ ॥ इदं च प्रत्याख्यानं महोपाधेर्भेदाद् द्वादशविधं भवति आकारसमन्वितं वा गृह्यते पाल्यते वा, अत इदमभिधित्सुराहनमुक्कारपोरिसीए पुरिमड्डेगासणेगठाणे य । आयंबिल अभत्तट्टे चरमे य अभिग्गहे विगई ॥१५९७॥ दो छच्च सत्त अट्ट सत्तट्ट य पंच छच्च पाणंमि । चउ पंच अट्ट नव य पत्तेयं पिंडए नवए ॥ १५९८ ॥ दोचेव नमुक्कारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमढे एगासणगंमि अढेव ॥ १५९९ ॥ . सत्तेगट्ठाणस्स उ अट्ठवायंबिलंमि आगारा । पंचेव अभत्तढे छप्पाणे चरिमि चत्तारि ॥ १६००॥ |पंच चउरो अभिग्गहि निव्वीए अह नव य आगारा । अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ॥ १६०१॥ ___ नमस्कार इत्युपलक्षणात् नमस्कारसहिते पौरुष्यां पुरिमार्द्ध एकाशने एकस्थाने चआचाम्ले अभक्तार्थे चरमे च अभिग्रहे विकृती, किं ?, यथासङ्ख्यमेते आकाराः, द्वौ षट् च सप्त अष्टौ सप्ताष्टौ पञ्च षट् पाने चतुः पञ्च अष्टौ नव प्रत्येकं पिण्डको | नवक इति गाथाद्वयार्थः॥ १५९७-१५९८ ॥ भावार्थमाह-द्धावेव नमस्कारे आकारी, इह च नमस्कारग्रहणान्नमस्कार
Jain EducatioINitional
For Personal & Private Use Only
Mainelibrary.org

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208