SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 'अर्द्ध कुक्कुट्टयाः पच्यते अर्द्ध प्रसवाय कल्प्यते' इति, अपरिणतानां श्रद्धानं च न जायते, एवं तु सामान्यविशेषभेदनिरूपणायां सुखावसेयं सुखश्रद्धेयं च भवति इति गाथार्थः ॥ १५९० ॥ तथा चाहअसणं पाणगं चेव, खाइमं साइमं तहा। एवं परूवियंमी, सद्दहिउँ जे सुहं होइ॥ १५९१ ॥ ___ अशनं पानकं चैव खादिमं स्वादिमं तथा, एवं प्ररूपिते-सामान्यविशेषभावेनाख्याते, तथावबोधात् श्रद्धातुं सुखं भवति, सुखेन श्रद्धा प्रवर्तते, उपलक्षणार्थत्वाद् दीयते पाल्यते च सुखमिति गाथार्थः ॥ १५९१ ॥ आह-मनसाऽन्यथा | संप्रधारिते प्रत्याख्याने त्रिविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता चतुर्विधस्येति गुरुणाऽपि तथैव दत्तमत्र का प्रमाणं ?, उच्यते, शिष्यस्य मनोगतो भाव इति, आह चअन्नस्थ निवडिए वंजणमि जो खलु मणोगओ भावो । तं खलु पच्चक्खाणं न पमाणं वंजणच्छलणा ॥१५९२॥ ___ अन्यत्र निपतिते व्यञ्जने-त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शब्दे यः खलु मनोगतो भावः15 प्रत्याख्यातुः खलुशब्दो विशेषणे अधिकतरसंयमयोगकरणापहतचेतसोऽन्यत्र निपतिते न तु तथाविधप्रमादात् यो मनोगतो भावः आद्यः तत् खलु प्रत्याख्यानं प्रमाणं, अनेनापान्तरालगतसूक्ष्मविवक्षान्तरप्रतिषेधमाह, आद्याया एव प्रवर्तक-| त्वात् , व्यवहारदर्शनस्य चाधिकृतत्वाद्, अतः न प्रमाणं व्यञ्जनं-तच्छिष्याचार्ययोर्वचनं, किमिति !, छलनाऽसौ व्यञ्जनमात्र, तदन्यथाभावसभावादिति गाथार्थः ॥ १५९२॥ इदं च प्रत्याख्यानं प्रधान निजराकारणमिति विधिवदनुपालनीयं, तथा चाह Jain Education Alial For Personal & Private Use Only M.helibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy