SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया ॥८५०॥ Jain Educatio हेतुत्वेन तदेव स्वादयतीत्यर्थः । विचित्रं निरुक्तं पाठात्, भ्रमति च रौति च भ्रमर इत्यादिप्रयोगदर्शनात् साधुरेवायमन्वर्थ इति गाथार्थः ॥ १५८८ ॥ उक्तः पदार्थः, पदविग्रहस्तु समासभा कूपदविषय इति नोक्तः । अधुना चालनामाह - सव्वोऽविय आहारो असणं सव्वोऽवि बुच्चई पाणं । सव्वोऽवि खाइमंतिय सव्वोऽविय साइमं होई ॥। १५८९ ॥ यद्यनन्तरोदितपदार्थापेक्षया अशनादीनि ततः सर्वोऽपि चाहारश्चतुर्विधोऽपीत्यर्थः अशनं, सर्वोऽपि चोच्यते पानं सर्वोऽपि च खादिमं सर्व एव स्वादिमं भवति, अन्यथा विशेषात्, तथाहि - यथैवाशनमोदनमण्डकादि क्षुधं शमयति तथैव पानकं द्राक्षाक्षीरपानादि खादिममपि च फलादि स्वादिममपि ताम्बूलपुगफलादि, यथा च पानं प्राणानामुपग्रहे वर्त्तते एवमशनादीन्यपि, तथा चत्वार्यपि खे मान्ति चत्वार्यपि वा स्वादयन्ति आस्वाद्यन्ते वेति न कश्चिद् विशेषः, तस्मादयु| तमेवं भेद इति गाथार्थः ॥ १५८९ ॥ इयं चालना, प्रत्यवस्थानं तु यद्यपि एतदेवं तथापि [तुल्यार्थत्वप्राप्तावपि ] रूढितो नीतितः प्रयोजनं संयमोपकारकमस्ति एवं कल्पनायाः, अन्यथा दोषः, तथा चाह जइ असणमेव सव्वं पाणग अविवज्जणंमि सेसाणं । हवइ य सेसविवेगो तेण विहत्ताणि चउरोऽवि ॥ १५९० ॥ यद्यशनमेव सर्वमाहारजातं गृह्यते ततः शेषापरिभोगेऽपि पानकादिवर्जने - उदकादिपरित्यागे शेषाणामाहारभेदानां निवृत्तिर्न कृता भवतीति वाक्यशेषः, ततः का नोहानिरिति चेत् ? भवति शेषविवेक:- अस्ति च शेषाहारभेदपरित्यागः, म्यायोपपन्नत्वात्, प्रेक्षापूर्विकारितया त्यागपालनं न्यायः, स चेह सम्भवति, तेन विभक्तानि चत्वार्यपि अशनादीनि, तदेकभावेऽपि तत्तद्भेदपरित्यागे एतदुपपद्यत एवेति चेत्, सत्यमुपपद्यते दुरवसेयं तु भवति, तस्यैव देशस्त्यकस्तस्यैव नेति onal , For Personal & Private Use Only ६ प्रत्याख्या नाध्य० ४१० प्रत्याख्यानानि ॥८५०॥ sinelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy