SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ इत्यस्य ल्युडन्तस्य अश्यत इत्यशनं भवति, तथा 'पा पाने' इत्यस्य पीयत इति पानमिति, 'खाह भक्षणे इत्यस्य च वक्तव्यादिमन्प्रत्ययान्तस्य खाद्यत इति खादिमं भवति, एवं 'स्वद स्वर्द आस्वादने' इत्यस्य च स्वाद्यत इति स्वादिम अथवा खाद्यं स्वाद्यं च, 'अन्यत्रेति परिवर्जनार्थ यथा 'अन्यत्र द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्मुखा' इति, तथा आभोगनमाभोगः न आभोगोऽनाभोगः, अत्यन्तविस्मृतिरित्यर्थः, तेन, अनाभोग मुक्त्वेत्यर्थः, तथा सहसाकरणं सहसाकारः-अतिप्रवृत्तियोगादनिवर्त्तनमित्यर्थः, तेन तं मुक्त्वा-व्युत्सृजतीत्यर्थः । एष पदार्थः, पदविग्रहस्तु समासभापदविषय इति क्वचिदेव भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने च नियुक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्रसमुदायार्थः ॥ अधुना सूत्रस्पर्शिकनियुक्त्येदमेव निरूपयन्नाहअसणं पाणगं चेव, खाइमं साइमं तहा । एसो आहारविही, चउब्विहो होइ नायव्वो ॥ १५८७ ॥ आसुं खुहं समेई, असणं पाणाणुवग्गहे पाणं । खे माइ खाइमंति य, साएइ गुणे तओ साई ॥ १५८८॥ | अशनं-मण्डकौदनादि, पानं चैव-द्राक्षापानादि, खादिम-फलादि तथा स्वादिम-गुडताम्बूलपूगफलादि, एष आहारविधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः ॥ १५८७ ॥ साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह-आशु-शीघ्र क्षुधां-बुभुक्षां शमयतीत्यशनं, तथा प्राणानाम्-इन्द्रियादिलक्षणानां उपग्रहे-उपकारे यद् वर्तत इति गम्यते तत् पानमिति, खमिति-आकाशं तच्च मुखविवरमेव तस्मिन् मातीति खादिम, स्वादयति गुणान्-रसादीन् संयमगुणान् वा यतस्ततः स्वादिम, dain Education a l For Personal & Private Use Only A delibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy