SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥८४९॥ SAARASSA 8 यास्यतीति । अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेह प्रतन्यते, गतो नामनिष्पन्नो ६प्रत्याख्या निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा-सूत्रानुगमो नाध्य० १० प्रत्यानियुक्त्यनुगमश्च, तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्य ख्यानानि नुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः,5 तद्यथा-'उद्देसे णिद्देसे य' इत्यादि, 'किं कतिविध'मित्यादि, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव, युगपच्च सूत्रादयो ब्रजन्ति, तथा चोक्तं-"सुत्तं सुत्ताणुगमो सुत्तालावयगतोय णिक्खेवो। सुत्तप्फासियनिज्जुत्तिणया य समगं तु वच्चंति ॥१॥” अत्राक्षेपपरिहारौ न्यक्षेण सामायिकाध्ययने निरूपितावेव नेह वितन्येते इत्यलं विस्तरेण । तत्रेदं सूत्र सूरे उग्गए णमोकारसहितं पचक्खाति चउविहंपि आहारं असणं पाणं खाइमं साइमं, अण्णत्थ अणाभोगेणं सहसाकारेणं वोसिरामि। ___ अस्य व्याख्या-तल्लक्षणं-'संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ॥१॥ तत्रास्खलितपदोच्चारणं संहिता निर्दिष्टैव, अधुना पदानि-सूर्ये उद्गते नमस्कारसहितं प्रत्याख्याति, चतुर्विधमपि ॥८४९॥ आहारं अशनं पानं खादिम स्वादिम, अन्यत्रानाभोगेन सहसाकारेण व्युत्सृजति । अधुना पदार्थ उच्यते-तत्र अशुभोजने' सूत्रं सूत्रानुगमः सूत्रालापकगतश्च निक्षेपः । सूत्रस्पर्शिकनियुक्तिर्नयाश्च युगपदेव व्रजन्ति ॥॥ in Educa For Personal & Private Use Only Plainelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy