________________
आवश्यकहारिभ
६प्रत्याख्या नाध्य० १० प्रत्या ख्यानानि
द्रीया
॥८५१॥
फासियं पालियं चेव, सोहियं तीरियं तहा। किहिअमाराहिअंचेव, एरिसयंमी पयइयव्वं ॥१५९३ ॥ | स्पृष्ट-प्रत्याख्यानग्रहणकाले विधिना प्राप्त पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं शोभितं-गुर्वादिप्रदानशेषभोजनासेवनेन तीरितं-पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन कीर्तितं-भोजनवेलायाममुकं मया प्रत्याख्यातं तत् पूर्णमधुना भोक्ष्य इत्युच्चारणेन आराधितं-तथैव एभिरेव प्रकारैः सम्पूर्णैर्निष्ठां नीतं यस्मादेवंभूतमेव तदाज्ञापालनादप्रमादाच्च महत्कर्मक्षयकारणं तस्माद् ईदृशि प्रयतितव्यमिति एवंभूत एव प्रत्याख्याने यत्नः कार्य इति गाथार्थः॥ १५९३ ॥ साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाहपञ्चक्खाणंमि कए आसवदाराई हुंति पिहियाइं । आसववुच्छेएणं तण्हावुच्छेअणं होइ ॥ १५९४ ॥ तण्हावोच्छेदेण य अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो पच्चक्खाणं हवइ सुद्धं ।। १५९५॥ तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु । तत्तो केवलनाणं तओ अ मुक्खो सयासुक्खो ॥ १५९६ ॥ | प्रत्याख्याने कृते-सम्यगनिवृत्तौ कृतायां किम् ?-आश्रवद्वाराणि भवन्ति पिहितानि-तविषयप्रतिबद्धानि कर्मबन्धद्वाराणि भवन्ति स्थगितानि, तत्रावृत्तेः, आश्रवव्यवच्छेदेन च कर्मबन्धद्वारस्थगनेन च संवरणेनेत्यर्थः, किं ?-तृड्व्यवच्छेदनं भवति-तद्विषयाभिलाषनिवृत्तिर्भवतीति गाथार्थः ॥ १५९४ ॥ तृइव्यवच्छेदेन च तद्विषयाभिलाषनिवृत्तौ च | अतुल:-अनन्यसदृशः उपशमो-मध्यस्थपरिणामो भवति मनुष्याणां-जायते पुरुषाणां, पुरुषप्रणीतः पुरुषप्रधानश्च धर्म इति ख्यापनार्थ मनुष्यग्रहणम् , अन्यथा स्त्रीणामपि भवत्येव, अतुलोपशमेन पुनः-अनन्यसदृशमध्यस्थपरिणामेन पुनः
CHECCCCCCOCCASSOCCANAMANCHAR
॥८५१॥
dain Education
na
For Personal & Private Use Only
inelibrary.org