Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 170
________________ 15 आवश्यकहारिभ द्रीया ॥८४७॥ भूतैः प्रज्ञप्ता-प्ररूपिता, कैः-तीर्थकरैः-ऋषभादिभिः, तामहं वक्ष्ये, कथं ?-समासेन-सद्धेपेणेति गाथार्थः ॥ २४५॥ |प्रत्याख्या | अधुना षडूविधत्वमुपदर्शयन्नाह-सा पुनः शुद्धिरेवं षविधा, तद्यथा श्रद्धानशुद्धिः ज्ञानशुद्धिश्च विनयशुद्धिः अनुभा नाध्य षणाशुद्धिश्चैव, तथाऽनुपालनाविशुद्धिश्चैव भावशुद्धिर्भवति षष्ठी, पाठान्तरं वा 'सोहीसद्दहणे' त्यादि, तत्र शुद्धिशब्दो १० प्रत्या ख्यानानि द्वारोपलक्षणार्थः, नियुक्तिगाथा चेयमिति गाथासमासार्थः॥१५८६ ॥ अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राद्यद्वारावयवार्थप्रतिपादनायाहपच्चक्खाणं सव्वन्नुदेसिअंजं जहिं जया काले । तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ॥ २४६॥ (भा०) पञ्चक्खाणं जाणइ कप्पे जं जंमि होइ कायव्वं । मूलगुणे उत्तरगुणे तं जाणसु जाणणासुद्धं ॥ २४७ ॥ (भा०)। प्रत्याख्यानं सर्वज्ञभाषितं-तीर्थकरप्रणीतमित्यर्थः 'य'दिति यत् सप्तविंशतिविधस्यान्यतम, सप्तविंशतिविधं च पञ्चविधं साधुमूलगुणप्रत्याख्यानं दशविधमुत्तरगुणप्रत्याख्यानं द्वादशविध श्रावकप्रत्याख्यानं 'यत्र' जिनकल्पे चतुर्यामे पञ्चयामेवा श्रावकधर्मे वा 'यदा' सुभिक्षे दुर्भिक्षे वा पूर्वाह्ने पराहे वा काल इति-चरमकाले तत् यः श्रद्धत्ते नरः तत् तदभेदोपचारात् तस्यैव तथापरिणतत्वाजानीहि श्रद्धानशुद्धमिति गाथार्थः॥ २४६ ॥ ज्ञानशुद्ध प्रतिपाद्यते, तत्र-प्रत्याख्यानं जानाति-अवगच्छति कल्पे-जिनकल्पादौ यत् प्रत्याख्यानं यस्मिन् भवति कर्त्तव्यं मूलगुणोत्तरगुणविषयं तज्जानीहि ज्ञानशुद्धमिति गाथार्थः ॥ २४७॥ विनयशुद्धमुच्यते, तत्रेयं गाथा ॥८४७॥ किइकम्मस्स विसोही पउंजई जो अहीणमइरित्तं।मणवयणकायगुत्तोतं जाणसुविणयओसुद्धं ॥२४८॥ (भा०)। Jain Education For Personal & Private Use Only Punelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208