________________
ROCCORPOR6514526.
न तद गद्यते, किं तर्हि ?, सर्वायुष्कक्षयलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बह्वच (पूर्वपदात) इति ठन (पा०४-४-६४ ) संलिख्यतेऽनया शरीरकषायादीति संलेखना-तपोविशेषलक्षणा तस्याः जोषणं-सेवन तस्याराधना-अखण्डकालस्य करणमित्यर्थः, चशब्दः समुच्चयार्थः। एत्थ सामायारी-आसेवितगिहिधम्मेण किल सावगेण पच्छा णिक्खमित, एवं सावगधम्मो उज्जमितो होति, ण सक्कति ताधे भत्तपच्चक्खाणकाले संथारसमणेण होतबंति विभासा । आह उक्तम्-'अपश्चिमा मारणान्तिकी संलेखनाझोषणाऽऽराधना'ऽतिचाररहिता सम्यक् पालनीयेति वाक्यशेषः, अथ के पुनरस्या अतिचारा इति तानुपदर्शयन्नाह-'इमीए समणोवासएणं०' अस्या-अनन्तरोदितसंलेखनासेवनाराधनायाः श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-इहलोकाशंसाप्रयोगः, इहलोको-मनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषस्तस्याः प्रयोग इति समासः श्रेष्ठी स्याममात्यो वेति, एवं 'परलोकाशंसाप्रयोगः' परलोकेदेवलोके, एवं जीविताशंसाप्रयोगः, जीवितं-प्राणधारणं तत्राभिलाषप्रयोगः-यदि बहुकालं जीवेयमिति, इयं च वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् बहुपरिवारदर्शनाच्च, लोकश्लाघाश्रवणाच्चैवं मन्यते-जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि, यत एवंविधा मदुद्देशेनेयं विभूतिर्विद्यत इति, 'मरणाशंसाप्रयोगः' न कश्चित्तं प्रतिपन्नानशनं गवेषयति न सपर्ययाऽऽद्रियते नैव कश्चित् श्लाघते, ततस्तस्यैवंविधश्चित्तपरिणामोजायते-यदि शीघ्रं म्रियेऽहमपुण्यकर्मेति, भोगाशंसाप्रयोगः' जन्मान्तरे चक्रवर्ती स्याम् वासुदेवो महामण्डलिकःशुभरूपवानित्यादि । उक्तः श्रावकधर्मः, व्याख्यातं सप्रभेदं देशो
अत्र सामाचारी-मासेवितगृहिधर्मेण किल श्रावकेन पश्चानिष्क्रान्तव्यं, एवं श्रावकधर्मों भवत्युद्यतः, न शक्नोति तदा भक्तप्रत्याख्यानकाले संस्तारश्रमणेन भवितव्यं, विभाषा।
Jaln Education
a
l
For Personal & Private Use Only
planelibrary.org