________________
आवश्यकहारिभद्रीया
प्रत्याख्या नाध्य० श्रावकत्रताधि०
॥८४०॥
त्तरगुणप्रत्याख्यानं, अधुना सर्वोत्तरगुणप्रत्याख्यानमुच्यते, तत्रेयं गाथा-पच्चक्खाणं' गाहा। अथवा देशोत्तरगुणप्रत्याख्यानं श्रावकाणामेवभवतीति तदधिकार एवोक्तं, सर्वोत्तरगुणप्रत्याख्यानं तु लेशत उभयसाधारणमपीत्यतस्तदभिधित्सयाऽऽह
पच्चक्खाणं उत्तरगुणेसु खमणाइयं अणेगविहं । तेण य इहयं पगयं तंपि य इणमो दसविहं तु ॥ १५६३ ॥ अणागयमइक्वंतं कोडियसहिअंनिअंटिअंचेव । सागारमणागारं परिमाणकडं निरवसेसं ॥ १५६४॥ संकेयं चेव अद्धाए, पञ्चक्खाणं तु दसविहं । सयमेवणुपालणियं, दाणुवएसे जह समाही ॥ १५६५॥ | व्याख्या-प्रत्याख्यानं प्रागनिरूपितशब्दार्थ, 'उत्तरगुणेषु' उत्तरगुणविषयं प्रकरणात् साधूनां तावदिदमिति-क्षपणादि, क्षपणग्रहणाच्चतुर्थादिपरिग्रहः, आदिग्रहणाद्विचित्राभिग्रहपरिग्रहः, 'अनेकविध'मित्यनेकप्रकार, प्रकारश्च वक्ष्यमाणस्तेनानेकविधेन, चशब्दादुक्तलक्षणेन च, 'अत्रेति सामान्येनोत्तरगुणप्रत्याख्याननिरूपणाधिकारे, अथवा चशब्दस्यैवकारा
र्थत्वात् तेनैव, अत्रे'ति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतम्-उपयोगोऽधिकार इति पर्यायस्तदपि चेदं दशविधं तु-मूला|पेक्षया दशविधं दशप्रकारकमेवेति गाथार्थः॥१५६३॥अधुना दशविधमेवोपन्यस्यन्नाह–'अणागतं०'गाथा, अनागतकरणा|दनागतं, पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, एवमतिक्रान्तकरणादतिक्रान्तं, भावना प्राग्वत् । 'कोटिसहित'मिति कोटीभ्यां सहितं कोटिसहितं-मिलितोभयप्रत्याख्यानकोटि, चतुर्थादिकरण- | मेवेत्यर्थः, "नियन्त्रितं चैव' नितरां यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमितिहृदयं, 'साकार' आक्रियन्त इत्याकाराः-प्रत्याख्यानापवादहेतवोऽनाभोगादयः सहाकारैः साकारं, तथाऽविद्यमानाकार
|८४०॥
Jain Education
For Personal & Private Use Only
Linelibrary.org