Book Title: Aagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 339
________________ आगम (०६) प्रत सूत्रांक [८२-८८] + गाथा: दीप अनुक्रम [१२३ -१४०] “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्ति:) अध्ययन [ ९ ], मूलं [८२-८८] + गाथा: आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित यादिभिरक्षितमनाः स्तुवंस्तथा निन्दन् । यत्पदमसद् श्रूयात् तत्पुनरुक्तं न दोषाय ॥ १२ ॥ इति अर्ध, हे गुणसंकर !-गुणसमुदायरूप ! हं इति अकारलोपदर्शनादद्दमिति दृश्यं सया विहीना न समर्था जीवितुं क्षणमपीति पञ्चमं । तथा 'इमस्स उति अस्य पुनः अनेके ये झपा-मत्स्या मकरा - ग्राहाः विविधश्वापदाश्र - जलचरक्षुद्रसच्चरूपास्तेषां यानि शतानि तेषामाकुलगृहं आकीर्णगेहं झपादीनां वा सदा नित्यं कुलगृहमिव कुलगृहं यः स तथा तस्येत्यर्द्ध रत्नाकरस्य - समुद्रस्य मध्ये आत्मानं 'वहेमि'ति हन्मि तब-भवतः पुरतः अग्रतः तथा एहि निवर्त्तख 'जइसित्ति यदि भवसि कुपितः क्षमस्वैकापराधं त्वं मे इति षष्ठं। 'तुज्झ य'त्ति तब च विगतधनं विमलं च यच्छशिमण्डलं तस्येवाकारो यस्य श्रिया च सह यद्वर्त्तते तत्तथा पाठान्तरेण विगतघनविमलशशिमण्डलेनोपमा यस्य सश्रीकं च यत्तत्तथा शारदं शरत्कालसम्भवं यनवं-प्रत्ययं कमलं च-सूर्यबोध्यं कुमुदं च-चन्द्रबोध्यं कुवलयं च-नीलोत्पलं तेषां यो दलनिकरः- दलवृन्दं तत्सदृशे नितरां भात इति निभे च नयने यत्र तत्तथा, पाठान्तरेण शारदनवकमलकुमुदे च ते विमुकुले च ते विकसिते शेषं तथैव वदनं मुखं प्रतीति वाक्यशेषः, पिपासागताया:मुखदर्शनजलपानेच्छया आयातायाः तां वा गतायाः प्राप्तायाः कस्याः १-मे-मम श्रद्धा-अभिलापः किं कर्तुं ?-प्रेक्षितुं - अवलोकयितुं जे इति पादपूरणे निपातः अवलोकय ता इति- ततस्तावदिति वा इतः अस्यां दिशि मां नाथ जा इति येन याव दिति वा ते तव प्रेक्षे वदनकमलमिति रूपकं ॥ ७ ॥ एवं सप्रणयानि सस्नेहानीव सरलानि-सुखावगम्याभिधेयानि मधुराणि च-भाषया कोमलानि यानि तानि तथा, तथा करुणानि - करुणोत्पादकलात् बचनानि जल्पन्ती सा पापा क्रियया मार्गतः - पृष्ठतः समन्वेति समनुगच्छति पापहृदयेति ॥ ८ ॥ ततोऽसौ जिनरक्षितथलमना :- अभ्युपगमाच्चलितचेताः 'अवयक्खड़'त्ति Education Internationa For Parts Only ~ 338~

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512