Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala
Catalog link: https://jainqq.org/explore/600424/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री अमृतहिम्मतग्रन्थमाला पुष्पं 7 पं. दयाविमलजीसद्गुरुभ्यो नमः प्रवर्तकमुनिराजश्रीशान्तिविमलविरचितमू // श्रीअमृतविमलचरितम् / / श्रीपरमपूज्यव्याख्यानवाचस्पतिवयोवृद्धदीर्घतपस्विपन्यासपदवीभृदनुयोगाचार्यहिम्मतविमलजीमणाधीशप्रशिय: विद्याप्रेमिमुनिराजरत्नविमलमुनिसदुपदेशतः कोशिलाववास्तव्यश्रेष्ठिहिम्मतमल्लतनुजन्मनः स्वर्गस्थललयाजी त्यवटंकश्रेष्ठिधनराजस्य द्रव्यसाहाय्येन प्राकाश्यं नीतम् // विक्रमसंवत् 1995 सने 1939 प्रथमावृत्तिः मूल्यं-सदुपयोगः प्रतयः 250 Page #2 -------------------------------------------------------------------------- ________________ ॥श्रीजिनाय नमः॥ अनुयोगाचार्य-गणिपर्य श्रीअमृतविमलजीमहाराजः // श्रीअमृतविमलचरितम् // ॥ॐ नमोऽहम् // यन्नामनिर्मिती वर्णास्त्रयः प्रापुः सुपूज्यताम् // तं नाभिनंदनं वन्दे ऋषमाख्यमहं प्रभुम् // 1 // Page #3 -------------------------------------------------------------------------- ________________ येनाकारि सहस्रवर्षमखिलं दिव्यं तपः सादरम् // निर्दग्धा विपयाः समस्तजनतादुःखाकराः सर्वथा // कृत्वा घातिसमग्रकर्मनशनं प्रापे परं केवलम् / / सोऽयं नाभितनूभवो वितनुतां नित्यं प्रभुमंगलम् // 2 // चतुर्विशतिसंख्यायाः पूरकं पूर्णशान्तिदम् // वर्षमानं जिनं वन्दे मन्तिःक्लेशनाशनम् // 3 // पूणिमाचन्द्रतुल्यास्ये द्युति शौक्लीं दधत्यलम् / शारदा रमनाग्रं मे सदा तिष्ठतु याचिता // 1 // पन्यामपदवीं धत्ते योऽधुना मामको गुरुः // वन्दे हिम्मतपूर्व तं विमलं शिरसादरात् // 5 // __यम्य तु चरितं सर्व परमगुरुवर्यस्यामृतविमलस्य // तनोमि गद्यबंधेन तस्य प्रशिष्यशान्तिविमलः॥६॥ चतुर्दशराजलोकमध्यस्थितभूमंडले कुंडलाकारारुणनंदीश्वरक्षोदवरघृतवरक्षीखखारुणीवरपुष्करकालोदधिलवणाभिधानसमुद्रः परितो वलयाकार बेष्टिताः कुंडलारुणनंदीश्वरक्षोदवरघृतवरक्षीखवारुणीवरपुष्करखंडधातकिग्वंडजंबुढ़ापनामानः खंडाः सन्ति। तत्र क्षारसमुद्रपरिवेष्टिते जंबुद्वोपेऽस्ति भारतं नाम वर्पम् // __यत्र भूमिस्थितविपयव्यापिकीर्तितया, अपरदेशापेक्षया विविधसलीलनिर्झरक्लेदितानेकौपधिवजव्याप कपर्वतबातम् , अनेकविधनदनदीनां पयःपूरेण प्लावितकृषीवलभूमिप्रात्पन्नानेकजातीयधान्यराशिभिर्दत्तदारिमद्रयजलाजलि. शिलीमुखताराराजिताजनयनैः प्रतिस्थलं मागोंदर्यगालोकयतामिव नदनदीसरमां सोपानपं Page #4 -------------------------------------------------------------------------- ________________ श्री चरि क्तिविराजितानां समृहैाप्तवसुंधरावलयं नानाविधकलाधारिणां जनानां वातेः शोभितम् , अनेकविधशिल्पशाम्नविधिनिर्मितानेकचैत्यदेवालयादिकं परिशीलितकाव्यनाटकभाणचंपुरसालंकारग्रंथःसभाभूपणैर्विलोकिनसांख्ययोगमीमांमान्यायादिपटशाम्प्रेः पंडितैः परिपूर्ण पाणिगृहीतकृपाणधारया विहितानेकशत्रुपराजयानां समानपदवीधारिणां क्षत्रिययवनजातियत्पन्नानां राज्ञां समृहेन व्याप्तं भारतमामीत् पूर्वकालेऽद्यापि भूतपूर्वराजन्यकीर्तिकौमुद्या प्रकाशितं गौरखतामादधाति सर्वदेशविपये / यत्र भारते वर्षे जैनधर्मतीर्थकरस्य महावीरस्य प्रथमगणधरो गौतमोऽभवत् / तदनन्तरम् उमास्वातिविजयसेनसूरीश्वरादयोऽन्येप्याचार्या जैनधर्म समभवन्। महनचतुःशतीमितग्रंथनिर्माता हरिभद्रसूरीश्वरश्च जनचित्तान्धकारनिवारकोऽपरतरणिखि श्रीसिद्धसेन. दिवाकरशाभूत्। किंच यत्र भारते वर्षे तीवाराधनमंतुष्टवाग्देवताप्रमादात् सिद्धहेमत्रिपष्टिशलाकाचरित्रयोग- 2. | शाम्रादिग्रन्थनिर्माता कलिकालसर्वजेत्युपाधिधारी श्रीहेमचन्द्राचार्यश्चान्ये यशोविजयादिसूरीश्वरा जैनधर्मदेशनादुंदुभिनादेन मत्राऽहिमादिपञ्चाणुव्रतस्तंभं निवग्नुः / येषां विभूतिविलसितानां तीवमंवेगानां सूरीश्वगणां महान् कालो व्यतीयाय परञ्च तेषां कीर्तयो जैनजेनेतरेषु धवलितदिगंतरा अद्यापि प्रतीयन्ते // एतादृशे भारते वर्षेऽस्ति च मृगमदमलयजागुरुनालिकेम्पूर्णलालवंगतमालपत्रजातिफलहरीतकीक Page #5 -------------------------------------------------------------------------- ________________ टुत्रिफलाशर्करारामठादिवस्तुवातगंधसुरभिवणिग्घटं कचिच नानाविधरीतिताम्रकांस्यलोहजर्मनधातुनिK. मितानेकपात्रक्रयविक्रयकर्तृणाम पंक्तितया स्थितानामाषणानां व्रजैविलसितं क्वचिच्च मुद्गमापगोधूमचणकव लराजमापकोद्रवादिनेकविधधान्यराशिविलसितप्रदेशस्थितवणिगापणानां समूहै राजमानम् , काचिच्चानेकविविधरंगरंजितस्त्रीपुंसपरिधानीयवस्त्रवातजुष्टापणपंक्तियुक्तम् , कुत्रचित् नानादेशेभ्यो धूमशकटमार्गेभ्यस्तथाजलपथेऽग्निनौकाभिरागते नादेशस्थितानेकपात्रवसनभैषज्योपनेत्रादियक्तं तथा च छत्रदण्डादियतम, कंदुकक्रीडाकर्तृणामुपयुक्तवस्तुजातम् , शालभंजिकालोहचर्मताम्रनिर्मितमंजूपादिभिर्वस्तुभिर्व्याप्तानेकहट्टम् , नानाग्रामपत्तनागतप्रतिहट्टस्थितवस्तुचिक्रीपूणां सांराविणयुतानां जनानां वृन्देन शोभितमिन्द्रप्रस्थनामपत्तनम्।। .. यत्र नगरे निर्दयत्वं निस्त्रिंशेषु, मालिन्यं धूमेषु, वक्रिमा कामिनीकेशपाशेषु, वैचित्र्यं च प्रासादचित्तेषु, तरलता हHध्वजेषु, औद्धत्यं महिपेयु, पिशुनता मशकेषु, सेर्ग्यता यवासकेषु, न जनमनःसु चाभूत् // यत्र जनाः शौर्य सेनानीसमा गांभीर्य पारावारकल्पा धैर्ये पार्वतीपितृदेश्याः क्षमायां भूधरनिभा आस्तिक्ये श्रावकदेशीया दाने कर्णसदृशाः सौजन्ये वारिदुग्धकल्पाः सौभ्रात्रेऽश्विनीसमानाः सौन्दर्ये रतिपतितुल्या दाक्षिण्ये बृहस्पतिनिभा नीतौ चाणक्यमंनिभा गानकौशल्ये गंधर्वदेश्या अभवन् // यत्र जनानां पर Page #6 -------------------------------------------------------------------------- ________________ दोपश्रवणे बधिरता परदोपकथने भूकता परखनितास्पर्शने जडता परसुन्दरीरूपदर्शनेऽन्यता सज्जनेष्वादरत्वं अमृत मतिषु पूज्यत्वं वाल्मल्यं सावनिकेषु गोखता गुणिपुनिरभिमानिता पितृभक्तो सबीडता च नीचकायेंषु उत्सा हता च प्रशस्तकायेंषु चाभूत् // यस्योपकंठे यमस्वसुःसानिध्यं वर्तते सर्वदा, यस्याःस्रोतो वारुणीपानमदमत्तस्य / / - हलधरस्य स्कंधदेशात् सस्तमुत्तरीयमिव प्रावृण्मेघश्यामलिताविलगितमाकाशमिव प्रतिभाति // मरकतमणि बद्धसोपाना पानीयपिपासासमागतानेकपक्षिवृन्दजुष्टा चूताशोकजम्बन्लान्यग्रोधादिवृक्षपरिवृता पादपोपरि निविष्टनानाविहगनादैः श्रमोदन्यावारणाय पान्थजनतामाह्वयतीव राजीवराजिविराजितशब्दायमानमधुकरR. मुखेन प्राचीननरेशानां यशोगानं कुर्वतीव यमुनानदी यस्य संनिधौ वर्तते तस्येन्द्रप्रस्थस्य भूगिः पुरा | पुरातनपांडवकौरवाणां समये पाण्डवराजधानी बभूव / तदनंतरं पातशाहिराज्यमासीत् , यत्र पातशाहीनामप्यवर्णनीया सम्राट्तासीत् / वैभवधनसमृद्धिरपि देवानामप्यवर्णनीयाजनिष्ट / तत्समये यवनसत्तासंपादकआर्यधर्ममान्यशीलः पातशाहिरक्कवरो राज्यधुरामुवाह, येन भिन्नभिन्नधर्मावलंविभिः स्वमतप्रदर्शनपण्डितैः स्वमतमान्यपदार्थविवेककर्तृकैरनेककोविदेरार्यधर्मःसमभ्यसितश्चक्रे // एकदा जिनधर्मोक्तपदार्थतत्त्वविवेक्ता प्रिवर्तकोऽनेकपापकर्मनक्रादियाद परिपूर्णभववारिधादश पपल्यापार Page #7 -------------------------------------------------------------------------- ________________ धर्मप्रतिपादनमा गिरा नौकया नास्तिरमागरजीवोजगारन्दजुष्टो धरित्र्यां विहरन भव्यांभोजविकसने र सप्तसप्तिखि भवदावानलदग्धानां जीवानां शरणाग नामधारशिरिखावृतकल्पया गिरा शीतलयननेकदुरितानलदग्शनां जीवानां चेतांसि सान्त्वयनेकदाऽनवराजधानीविलसितं हस्तिनापुरनामकं नगरं हीरसूरीश्वरनामाचार्योऽयासीत् / तदा चतुर्विधसंघजनेन वादित्रघोषपूर्वकं प्रत्युज्जग्मे, मादरं संघजनेन वन्दितः परमाचार्यो ग्रामं प्रविश्य ससंघ उपाश्रयं प्रातस्तदा श्रावकैः सोत्साहं प्रभावना कृता / स्वधर्मानुयायिनामन्येषां चाग्न आचार्येण जनहृदयान्धकारनिवारिणी देशनाभिदधे, पश्चाद गृहिणः - स्वस्वस्थानं गताः, सायो जलान्नादिदानेन प्रतिलामिता एप एव हि गृहिधर्मः पूज्यानामातिथ्यं करणीयम् पात्रे दानश्च // एवंपुनःपुनराचार्यो हीरसूरीश्वरस्तत्पत्तनमाजगाम परंच प्रथमागमनसमय / / एव पातशाहेरकवरस्य मतिमुखावलोकनं जैनधर्मतत्त्वदर्पणे कारितवानाचार्यों हीरसूरीश्वरस्तेन तस्याचार्योपरि बहुपानमासीत् / पुरातनेतिहासप्रकरणे बोधदायिनामग्रगण्य आचार्योऽमरकीर्तिगलभत, तदानीं स्वपरिचयसमागतानां जीवानांमध्ये केचन तस्य पीयूपवर्षिण्या वाचया भूरिशो जना जैनधर्मतत्त्वं बुभुत्समानास्तस्य शरणमीयुस्ततः कतिपयजनाः प्राप्तसम्यक्त्वाः केचन स्वीकृतश्रावकधर्मा अभूवन // तैराचार्य कीदृशो Page #8 -------------------------------------------------------------------------- ________________ बोधोऽदायि तत्तु प्रकरणेनानेनानुमीयते पातशाहेरककवरस्य पश्चात्तस्य प्रपौत्रशाहजानेति नीतिशाली राज्य पडंगज्ञानवान् स्वजातीयजनेषु चेतरेष्वार्यजनेषु पक्षपातरहितया बुद्धयाऽवर्तत / यद्राज्ये स्वधर्मपालने : सर्वा अपि प्रजाः स्वतंत्रा अभूवन // केषांचिदपि स्वस्वधर्मपालने कोप्युपरोधो नासीत् / ते राजानोऽपि धर्मतत्त्वमवगाहमानाः स्वस्वधर्मावलंविनामार्यविदुपां वातं समाहृय स्वसदसि वादं विधाप्यार्यधर्म प्रति दर्शितादरा अजनिपत / पितर्युपरते यदा शाहजानो राज्यधुरामुवाह तदानीमपि यवनपातशाहीनां विभूतिवर्णनीया | बभूव / येषां विभवानां समालोकनेच्छया चीनजापानजर्मनांगलदेशीयाःसर्वा अपि प्रजाः स्वबुद्धिनिर्मिताग्निरथानलनौकादिसाधनान्यवलंव्य देवा विमानानीव समागच्छन्ति प्रतिसंवत्सरमायभूमाविन्द्रप्रस्थनगरम् / यत्र शाहजानपातशाहिः स्वप्राणप्रियाया मुमताजनामकमहिष्याः कवरोपरि नवकोटिधनव्ययेन विभवानां साक्षात् प्रतिविम्वमिव ताजमहालनामकं प्रासादमचीकरच्छिल्पिभिः, यस्य शोभां दर्शदर्श जनाः कौतुकिनो भवन्ति। एतादृशः प्रासाद आर्यभूमावन्यत्र कुत्रापि नास्ति, अस्यामायभूमाविदमेवावलोकनीयमस्त्यन्यजनपदापेक्षयेति सर्वैरपि जनैर्मन्यते / तत्स्थानापेक्षपासाधारणानि यवनधर्मस्थानान चान्यधर्मस्थानान्यपि जनाश्चर्यकराणि भवन्ति, यैःस्थान प्राचीनवैभव आर्यभूमौ कीदृशोऽभूदित्यनया कार्यनिर्मित्यानुमीयते जनैः। Page #9 -------------------------------------------------------------------------- ________________ एतादृश इन्द्रप्रस्थनगरेऽस्माकं कथानायकस्य परमपूज्यस्य गणिवर्यस्यामृतविमलगुरोः प्रादुर्भावो बभूव / पूर्ववर्णितसुषुमाविशिष्टस्य नगरस्याभ्यर्णे प्राकारस्पर्शिशीतजलविशिष्टाया यमस्वसुरुत्तुंगतरंगसंपर्केण || शीतलीभूता यमुनाजलपानवर्धितानेकपादपप्रसूनचयगन्धवन्तो वायवो विषयान्तरागतसौन्दर्यनिरीक्षण- | कौतुकिनां जनवृन्दानामितस्ततःपरिभ्रमणवशाज्जनितश्रमजातस्वेदलवानाचामन्ति / अस्य नगरस्य सर्वशोभानिरीक्षणकारिभिः स्वरचितदेशयात्रानिबंधे बहुशःशोभा वर्णितास्ति / जगतीप्रसिद्धस्य यस्य नगरस्य मध्ये पातशाहिराज्येऽप्याचार्यदेशनया वात्यया प्रेरिता धर्मपताका इतस्ततः परिस्फुरन्तिस्म / चरमतीर्थकर| स्य महावीरस्य भवाब्धितारकमहामंत्रस्य प्रवर्तकाः पापपंकनिममजनतासमुद्धरणाय समर्था जैनाचार्यास्तत्समयेप्यपि व्यहरन् परं तत्र हैमोपमानां साधूनां मध्ये हीरक इव हीरसूरीश्वरो यदा पातशाहूंकमलं जैनधर्मोपदेशेनोइबोधयामासोष्णदीधितिजमिव तदास धर्मोपनिषदं श्रुत्वा यवनोऽपि जैनधर्मकृतादर आचार्योपदेशात् सर्वजनानां यत्करादानं तनिवारयामास / आर्यप्रजानामन्यदपि याचितं प्रसन्नतया ददौ / पर्युषणपवेणि चोमारि प्रवतयामास / एवं जैनधर्मजिज्ञापयिषवो धर्मतत्त्वे श्रद्धोपपादकाःश्रीहीरसूरीश्वरादय आचार्या खल्वपूर्वपुरुषा नरवीरा अस्मिन् धर्मे समजायन्त। यवनराजधानीसमयेऽप्यस्मिन्नगरे जैनधर्मस्य मध्यान्होऽ Page #10 -------------------------------------------------------------------------- ________________ चरि | भूत् / यस्मिन्नगरे पोषधशाला बहूनि चैत्यानि च स्थापितानि सन्ति / यत्र पादपांशुपवित्रितानेकजनवजाः शासनोमतिकारिणो भवभयहारिणीदेशनापीयूपाप्लावितजनान्तःकरणाः सर्वदर्शननिष्णाता आचार्योपाध्यायसाययोऽत्र बहलो विहरन्ति स्म / / यत्रास्माकीनकथानायकस्य प्रादुर्भावोऽभवत् // इतिथीपरमपूज्यदीर्धतपस्विवयावृद्धविनलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्रदेशोद्धारकप यासप| दधारिगणियहिम्मतविमलशिष्यशान्तभूर्तिप्रवर्तकश्रीशान्तिविमलविरचिते श्रीविमलाच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्ववंदनीयगणिवर्यामृतविमलचरिते प्रथमं प्रकरणं समाप्तम् // // अथ हितीयाकरणं प्रारभ्यते // एवं विविधजनसुशोभितं पातशाहिराजधानीभूतत्वादनं लिहाः / प्रासादैरन्येभ्यजनहम्पनगररम्यग्राकारेण च ताजमहालजुमामसजिदसंज्ञकनानाधर्मस्थानेश्चान्यदर्शनकाराणां स्थानर्देशान्तरीयजनमानसाकर्षकेश्च दर्शनीयैः प्रदेशैरद्यापीन्द्रप्रस्थनगरं भारतभूमौ सुप्रसिद्धमस्ति / जैनधर्माश्रितानां जनानां बाहुल्यं यत्र वर्तते। यत्र स्वधर्मतत्परा देशनादानचतुराश्च आचार्योपाध्यायसाधवो | यत्र गत्वा प्रभुमहावीरयादेशं जनान ज्ञापयन्ति पालयन्ति च // एवंविधस्य यस्य नगरस्य वणिजां पाटके वणि जामुत्तमो जैगनिया:सुश्रापकःसम्यक्त्वव्रतधारी द्वादशवतपालको देशपिरतिपरायणो जैनमिर्मज्ञाता। Page #11 -------------------------------------------------------------------------- ________________ वीरसेनश्रेष्ठी तवालव्य आमीत् // तथैव प्रतिवताधर्मपरायणा पतिचित्तानुवर्तिनी साधुजनसेवापरायणा जैनधर्महरुचिः समयोचितप्रतधारिणी नाम्ना राजकुमारी पत्नी बभूव / / ___तौ दंपती स्वसामयं धाराधने साधुसत्कारे च व्यवहारकार्ये च निर्गमयांबभूवतुर्ययोश्च चित्तसंतुष्टिकारकं वंशवृद्धिकरं किमप्यपत्यं नाभूत् / / पुरुषाणां मनसि तादृशी संततीच्छा न भवति यादृशी वनितानां मनसि जायेता जनमते शामलदेवताभावेणाश्रितजनानांकार्याणि सिध्यन्तीति मनसिकृत्य कथयति कदा शासनदे. बताअस्मासु प्रसीदे प्रवचनां च प्राप्ता सा कदा संततिर्मे दद्यात् ? नहि शासनदेवतानां किंचिदप्यकिंचित्करमस्तीतिचिन्तयित्वात्राभावनिमित्तविपादमकरोत् सा // एतादृशं राजकुमार्या मनोरथमवबुद्धय शासनदे वता प्रसन्नीध्य रात्रौ स्वप्नं ददौ प्रसन्ना चाभवत्। तदा धर्मपरायणा सती राजकुमारी स्वप्ने श्वेतनागं ददर्श। वालातपपाटलीक जालोके निजरश्मिनिरस्तमंतमसो लोकचक्षुर्भानुर्विभाभास्वरः प्राच्यामुदीयाय तदा राजकुः | मारी शशात उत्थाय महावीरस्मरणं कृत्वा कृतध्यानादिक्रिया धमध्यानं कृत्वा जिनालयं गत्वा तत्र तीर्थकरस्य / वीतरागस्यभगवतोदर्शनं विधायतत उपाश्रयं प्राप्य तत्र स्थितं भानुचन्द्रयतीश्वरं नत्वापच्छत्-मुने गतायां रात्री मयारवगो लब्धास्तत्रवेनकरी दृष्टस्तेन मम किं फलं भावि ? राजकुमार्या इमं प्रश्नं कर्णप्रापूर्णिकं कृत्वा यतीन्द्रोऽ Page #12 -------------------------------------------------------------------------- ________________ ब्रवीत्-स्वसः ! शृणु प्राप्तोऽयं स्वप्नो तव मनोरथपूरको भविष्यति, कुलदीपकःसुपुत्रो भावी जैनशासनसमुद्यो तकच पित्रो मजगति प्रथयिष्यति, मुनिमुखनिर्गतान् वाग्देवतावर्णान निशम्य जहर्ष राजकुमारी। गुरुवन्दनं चरि- कृत्वा स्वगृहं गतवती गृहकार्ये निममा चाभवत् // जगतीतलनिवासिनां नयनीभूतः सर्वरसपरिपाकपरिणमतम् / यिता सर्वाकाशप्रदेशविहरणेन श्रमं गत इव सर्वमनुजानां दिनभवक्लेशं शमयितुं यदा सविताऽस्तमगात्, सायंतनी संध्या च प्रवृत्ता तदा पटहझलरशंखघंटादिवादित्रपूर्वकं देवमन्दिरेषु भगवत्प्रतिमानां निराजनान्यासन् , तदा वीरसेनश्रेष्ठी स्वापणं मुद्रयित्वा स्वनिकेतनमागतवान , भोजनादिकं कृत्वापणिकं सर्व व्यव- हारं गणयित्वा सुन्दरविष्टर उपविश्य कृतलंबितपादो यदा विशश्राम तदावसराभिज्ञा राजकुमारी स्वपति गतरात्रिसमागतस्वप्नवाः कथयितुं प्रवृत्ता / स्वामिन् ! मया रात्रौ स्वप्ने करिदर्शनं कृतं / प्रातरुत्थाय स्ना| नादि कृत्वा भगवदर्शनं विधायोपाश्रयं प्राप्य भानुचन्द्रं यति नत्वा गत्रिस्वप्नो मया निवेदितस्तदा तेन यतिना पुत्रप्राप्तिफलः स्वप्नोऽस्ति, पुत्रोऽपिजैनशासनोदीपको भविष्यतीति मह्यमभिदधे / तच्छृत्वावीरसेनश्रेष्ठी जहर्ष, तस्य हृदये धर्म धर्माराधनफलेऽप्यधिकतरा श्रद्धासमुत्पेदे। समयः सद्य एवव्यत्येति अहंपूर्विकान्यायेन घनाद / / | घस्रो व्यतीताय. स्वल्पेनानेहसा राजकुमारी गर्भ दधौं, तेन तो दंपती स्वप्नं सत्यं मेनातेऽन्ततो विक्रमार्कः Page #13 -------------------------------------------------------------------------- ________________ समयातीतवसुनिधिवस्वेकवर्षे वैशाखशुक्लैकादशीदिने केन्द्रस्थानस्थितशुभग्रह उच्चराशिस्थितसूर्यादिग्रहे समये मैत्र्यादियुक्तशुभग्रहसूचितभाग्यसंपदं पुत्ररत्नमजीजनद्राजकुमारी / वीरसेनश्रेष्ठिगृहे पुत्रजन्माभूदित्युदन्तं सर्वनगरप्रजासु सर्वसंबंधिजनसमुदायेऽपि समस्तप्राणिप्राणनतत्परः पवनः प्रसारयामास, तेन सत्राप्यानंदोऽप्यवर्धत श्रोत्रजनमनःसु / यस्मिन् पुत्रजन्ममांगलिकप्रसंगे रसनारसवर्द्धिनीःशर्कराः प्रसृति भृत्वा भृत्वा श्रेष्ठी जनान दापयामास भृत्यैः / जिनमंदिरेष्वष्टाहिकामहं पूजाशान्तिस्नात्रादि धनव्ययेनाकारवत् / तेन दीनदारिद्रयनिवारकं दानं चादायि भोजनादिकमपि च / अनेनोत्सवेन श्रेष्ठितत्संबंधिसर्वजना आनंदिताःसमभवन् / पुत्रस्य नामधेयममरचद्रेति व्यधात् / दिनव्यत्ययेनामरचन्द्रः काकलिकया वाचा. मातापित्रोरानन्दं वितेने। सर्वोषधीजीवनदायी निशाकर इव दिने दिने वृद्धिं पुपोष बालकः / तयोर्दपत्योईब्धिः पुत्रमुखं दृष्ट्वासुतरांववृधे / श्रेष्ठिगृहेऽमरचन्द्रस्य पदपंकजेनपवित्रिते जाते तस्य क्रयविक्रयरूपव्यवहारे महान लाभः समजायत / पणायकार्ये धनलाभेन श्रेष्ठी चिंतितवान् / प्राप्तलक्ष्भ्या अयमेव परमो लाभो यद्ध कार्ये व्ययःकर्तव्य इति मत्वा स सप्तक्षेत्र्यां धनव्ययमकरोत् / यथा प्रावृषि कृष्टे क्षेत्रे कृषीवलो महते लाभाय धान्यं वपति तथाऽयमपि तथैवाकरोत्। सुपात्रे दानं दयादानमपि धनव्ययेन धनवताजनेन विधातव्यम्। Page #14 -------------------------------------------------------------------------- ________________ अनयोर्दपत्योर्वीतरागभगवति भक्तिभावना दृढा समजायत। अनया प्रणालिकया श्रेष्ठी स्वात्मानमानंदितं मेने गार्हस्थ्यसाफल्यं च / यदा स आपणाद्गृहमाजगाम तदा स्वीयतेजस्विनं बालमंके निधाय निवातकमलस्तिमितेनवः पापश्यन कपोले तस्य चुचुम्य। शिशुरप्यमरचन्द्रोऽजातदन्तमुखेन हास्यं कृत्वा जननीजनकयोर्मनसोसुंदं नतान। गार्हस्थ्येऽयमेव परमो लाभो गृहिणां यद्धपेण पुत्रमुखावलोकनं क्रियते दंपतीभ्याम् / तदा वीरसेनश्रेष्ठीन्द्रप्रस्थनगरे जैनसमुदाये धनादिवैभवेनाग्रगण्योऽभवत् सुखभाक् च / स्वान्तशान्तिकरणसमर्थेनादरवन्द्र जन्मना बहुशः सुखमनुवभूव श्रेष्ठी। पादरजःपावितानेकप्रदेशा जैनसाधयो यदा यदेन्द्रप्रस्थं समायान्तिनदा लदास श्रद्धाभावितान्तःकरणो भूत्वा मुन्यागमनश्रवणेन हर्पितमनाः सद्य एव सर्वाणि कार्याणि शिशुच्य वन्दनाथे गछति, तान् प्रासुकानजलादिदानेन प्रत्यलाभयच्छ्रेष्ठी / मुनीनामपि यानि यानि पनि कार्योपयोगीनि भवेयुस्तानि तानि सर्वाणि प्रदाय तेषां मनांसि प्रसन्नीकृतवान् सः / एवं प्रत्यहं भायात्यकरणेन पुण्यं परलोकपाथेयं चिकाय वणिग् / अन्यानपि शैत्योपमर्दितान दीनजनानवलोक्य - जातपोवीरसेन श्रेष्ठी तेभ्यो वस्त्रजलान्नादि प्रदायतेपामपि कष्टं निवारयामास / तस्मिन समये वीरसेनश्रेष्ठिन औदाय वर्णभावना च नगरे विशेषतो वृद्धि प्राप्ता. यां दृष्ट्वा जना आर्द्रचित्ताः ममजायन्त। केचन तस्य पथा सयपत्र Page #15 -------------------------------------------------------------------------- ________________ प्रवर्तनशीला अपि संबभूवुः। केचन तस्य साधून प्रति भक्तिं विलोक्य धन्योऽयं वणिगिति स्वचेतसि मेनिरे नागराः॥ इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्रदेशोद्धारकपन्यासपदधारिगणिवर्यहिम्मतविमलशिष्यशान्तमूर्तिप्रवर्तकश्रीशान्तिविमलविरचिते श्री विमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते | द्वितीयं प्रकरणं समाप्तम् // ___भाविविज्ञानपात्रस्यामरचन्द्रस्य जनुर्यदा वसुनवनिध्यंकवर्षे जातं तदेन्द्रप्रस्थस्य व्यवहारिषु श्रेष्ठिजनेषु वीरसेनश्रेष्ठिनो नामधेयमग्रगण्यमभूत् // आर्हतमतप्रतिपादितधर्ममार्तडप्रकाशेन तस्य कुटुंबकमलोद्यानं विकसिततामाप्तबञ्च / अमरचन्द्रस्य शैशवावस्थापि तस्मिन्नेव समये समारब्धा। वाल्य एवामरचन्द्रः प्रतिभावान प्रभावशील उत्साहवान ओजस्वीत्यादिगुणालंकृत एव संजातस्तीवजिज्ञासावांश्च / तस्मिन्नमरचन्द्रे शिशुसाहजिका वाल्याग्रहोऽप्यासीत् / सवयोभी रथ्यामाणवकैः सत्रा तेषां क्रीडनकेषु विविधां क्रीडां वितेने। | यस्मिन् दिवसे स्वजिज्ञासापूर्तये धनव्ययेन प्रभूतानि क्रीडनकानि क्रीणित्या किंचित्काल देवित्वा तस्मिन्ने विदिने भक्त्या निरस्तवान्। स कस्यचित् क्रीडनकस्योपरितनां शोभां कस्यचित् क्रीडनकस्याकारस्य रमणी Page #16 -------------------------------------------------------------------------- ________________ अमृत नरि अमराज यतां केषांचिदापातरमणीयतां बहुश आलोचितवान् / इदं क्रीडनकं किं मृण्मयं वा रीत्यादिधातुमयं वस्त्रनिमितं वेति ज्ञातुमाकाक्षां प्रदर्शितवान्। एवं चिन्ताशून्यशैशवानुभवं कुर्वन्तं बालममरचन्द्र श्रेष्ठी वीरसेनस्तस्य मातृषार्थादाकार्य मेणा स्वांगुल्या तदंगुलिं स्वीकृत्य नगरस्य चतुष्पथराजितोपणस्य शोभां निरीक्षितुं निनायासकृद्वालम् / एवं प्रत्यहं सांभ्यानेहसि श्रेष्ठी वालं समादाय संसारसुखास्वादमास्वादमानो जहर्ष मनसि। बाल्यावस्थावस्थितामरचन्द्रस्य वाल्यावस्थायामनेकशः क्रीडाःसमभवन। कदाचिद्रयावालसमूहमायतैःसमं विविधक्रीडाश्च कृतवान् , सवयोभिर्वालैः सह क्रीडितुं स्वस्य श्रेष्ठ्यं चाधिकतां दर्शयितुं सम्राज इव तस्य मनोमिलापोऽजायतान्येपागपि बालानां क्रीडनकानि स्वायत्तीकृत्य तदुपरिच्छिन्नभिन्नतानुभवं चकार तथापि तस्य सह मित्रभावस्ताहगेवासीत् / स स्वपितुः सकाशाद् यद्भक्ष्यं वस्त्वानीलवान तस्मिन् स्वमित्राणि संपूर्णतया दायादान कृतवान् , जातचित् स्वभागं गृहीत्वा सर्वमपि वस्तु सवयस एव यथाभागं दत्तवान्। अमरचन्द्रस्य यथा बुद्धिविकाशः स्यात्तथा श्रेष्ठी नियमिततया चिंतितवान् , माता राजकुमारी च स्वतनयशरीरपुष्टियथा स्यात्तथाऽन्नादिना पोपितवती स्वपुत्रम् / पित्रोरेवं प्रणयपूर्वकं संरक्षणतायां वालोऽप्यमरचन्द्रा वधे, शैशवं विहाय च कौमारं प्रविवेश / जनानां यावज्जीवनोपयोगिबुद्धिविकसनं न शिक्षणशालायामेव प्रादुर्भवति, Page #17 -------------------------------------------------------------------------- ________________ रपहरापापम्प किंतु बालानां सर्वन्द्रियाणां ज्ञानोपलब्धिर्यदा भवति तदिनादारभ्य बुद्धिविकसनारंभः संजायते / यथा al शुद्धस्फटिकमणौ तस्य तस्य पदार्थस्य प्रतिबिंब पतति, यस्य यस्य पदार्थस्य सांनिध्यं भवति तत्प्रतिच्छायया मणिरपि ताहगाकारो मनुजदृष्टौ दृश्यते, तथा बालानामपि यादृशामुत्तममध्यमजघन्यप्रकृतिमतां सहवाससंयोगादिर्जायते तादृगाचरणा एव बाला अपि भवन्ति, इति सर्वजनीननयो विद्यते, अतएव शिक्षणपद्धतिकुशलाः पंडिता अपि महता शब्दस्तोमेन जागरयन्ति जनवजान-भो जनाः ! स्वीयान्वालाजग| त्यनेकोपकारिसाहिजकधैर्यगांभीर्यादिदयादाक्षिण्यादिगुणविशिष्टैः पुरुषैः संसर्गयन्तु, अन्यथा पापपङ्कनिममा | दुर्वृत्ता दुष्टपथवर्तिनो भविष्यन्ति निश्रितम् / अमरचन्द्रस्य दीनजनः कश्चन दृष्टिपथं समायाति तदा तस्य | चित्तं दयाभावं भजति, मातरचापृच्छदिति-नातरिमे जनाः किमर्थ प्रतिगृहं प्रतिदिनं याचन्ते ? ते कवा. स्तव्यास्तेषां गृहाणि कुत्र सन्ति ? तादृशान् प्रश्नान् बालोऽप्यमरचन्द्रोऽकरोत् / एतत्पुत्रवचो निशम्य माताबवीत-पुन ! एतेषां गृहाणि न सन्ति, ते ग्रामे धर्मशालासु गृहवेदिकासु च वने वृक्षाणामधः स्वपन्ति रात्रौ, नगरखेटसम्यादिषु भ्रामं श्राम जनेभ्योऽन्नमर्थयित्वा स्वोयां क्षुधां निर्यापयन्ति / अपरचन्द्रोऽपि जननीवचनं श्रुत्वा जातावर्णनीयदयो मात्रान्नादि याचकेभ्यो दापयति स्म / जातुचिच्छिशिरकाले चैलर फफफफफफफफफराह प Page #18 -------------------------------------------------------------------------- ________________ अमृतचरि तम् सरकारका हितान् वेपमानांस्तेषां वालकान् दृष्ट्वा संजातातिकृपया स्वपरिहितवस्त्रमप्युत्तार्य तेभ्यो ददातिस्म / एवममरचन्द्रस्य हृदयमावालं कृपालमलंकृतमेवाभूत् , इति विज्ञायते तस्य चरितेन। वीरसेनश्रेष्ठी यदा जिनालयं वोपाश्रयं देवगुरुवंदनार्थ गतवांस्तदा तं सहादायैव जगाम,देववन्दनं गुरुवंदनं च कुरुते स्म / अनया रीत्याऽमरचन्द्रस्य हृदये बाल्यावस्थायामेव साहजिकधर्मसंस्काराणां वीजवापः समजनि, धर्मपथप्रवर्तनमपि। बालान् पितरौं शैशवादारभ्य यादृशान् विनयन्ते तादृशास्ते यौवने समुद्भवन्ति। अनुत्तमस्वभाववतां कुटुंविनां संस्कारा येषुबालेषु प्रतिविम्बन्ति ते बालाअप्पातनकाले जगदुद्धरणक्षमा महापुरुषा जायन्ते,पुनश्च येन विदेशगमनकुशलाः परभाषाभिज्ञा धनसम्पादनदक्षा उत्तमव्यवहारिणश्च सर्वविदेशीयजनस्वभावाभिज्ञाः साहसिकाच जायन्ते,इति पूर्वोक्तस्वभावनिष्पन्नकारणमेतावदेव भवति नान्यत्। प्रशस्यान्ववायोत्पन्नानामद्यतनगृहस्थानां पद्धतिरियमस्ति-ह्यधमकुलोत्पन्नस्वभृत्यैः सह स्वीयान् वालान् बहिः परिभ्रमणाय प्रहिण्वन्ति, एवमेव वेतनदानसमर्थाः सर्व धनिनः कुर्वन्ति। एतेन स्वस्य महत्त्वं यशस्वत्त्वं च मन्यते। अनेन सहवासेन कर्मकराणां यद् दौर्जन्यं तेषां मनसि प्रतिफलति, शतमंख्यापाणेषु बालेषु नवनवतिप्रमाणा यौवने प्राप्ते कुप्रकृतयो भवन्तीति सर्वजनविदितमस्ति / कुत्सितस्वभाववतां संयर्केणान्येपामपि चेतःसु तादृशा इसरस्परसहकपपरन्पपपरययायाम Page #19 -------------------------------------------------------------------------- ________________ सहपहपहपहपाएसरह दुर्गुणा उत्पद्यन्ते, तादृशां प्रकृतिमतां जनानां बाहुल्येनास्मि जगति धर्माधर्मप्रतीतिरपि दत्तजलांजलिः संभवेत् / ऐदानीतनराजन्यानांमध्ये ये विदेशगमनव्यसनिनः स्वपित्रैःसह तं विदेशं गत्वा प्रजावहिःप्राणभूतेन धनेन स्वशरीरेन्द्रियादिपोपणं कुर्वन्तो महता धनव्ययेन तत्रत्यपदार्थान् कीणित्वानेकजनानां वृत्ति ते पादेम॒नन्ति, कुमित्रत्रसंगानेकव्यसनग्रहास्तास्ते दिवानिशंक गच्छन्ति, इत्यपि न जानन्ति, ते च धनराशिसम्पन्नत्वात् वक्तव्यमात्रमहत्त्वात् कुमार्गस्थितत्वाच स्वमनोरश्मिग्रहणे न शक्नुवन्ति / कुसचिवाधीनास्ते चास्माकीनराज्यस्थितिः कीदृशी भवतीति विलोकितुमपिन शक्नुवन्ति, तदा दीनप्रजाघोषणश्रवणं तु तेषां दूरतरम् / एवं स्वच्छन्दविहारिणो राजानोऽद्य संजातास्तत्कारणमपि दुष्टजनसंसर्ग एवातएव गृहस्थैः स्वप्रजाः शिष्टगुणानुवर्तिनीः कर्तव्या येनान्येपामाधारभाजां जनानां सुखाप्तिर्भवेत् / अतएव / मातृपित्रादयोऽपि विनयादिगुणेनैव स्ववालान् संवर्धयेयुस्तदैव वालाः सुसंस्कावन्तो भवन्ति, येन सर्वेषां / कल्याणकरत्वं स्यात् / किशोरदशायां स्थितस्यामरचंद्रस्य तदवस्थायामेव मातापित्रोः सुसंस्काराः प्रतिवि | बिता अभवन् / स्वभावोऽयं बालस्य यदगृहे पितरावाचरतस्तदेवानुकरोति बालस्ततोऽयमपि वालो मातापिउनुकारी संजात आगामिनि समये च महापुरुषः समजनि / यदि तस्य चेतस्येतादृशाः संस्कारा नापतिष्यन् / इसससहरहम Page #20 -------------------------------------------------------------------------- ________________ तर्हि तादृशो महापुरुषो नाभविष्यत् / अन्यच्च यदा स्वपाटकाने नटगारुडविद्याभिज्ञाः खेलां दर्शयितुं समा गच्छन्ति जनान् तदामरचन्द्रः सवयोभिर्वालैः सह द्रष्टुमधावत् , तेऽपि नवीनवस्तुप्रदर्शनेन जनान् रंजअमृतचरि यित्वा तेषां खेलादर्शनकर्तृणां जनानामग्रे स्वोदरपूर्तये पात्रं गृहीत्वा याचन्ते स्म तदा सोऽपि मातरं गत्वा / तम् . तेभ्यो यत्किंचिदातुं प्रयततेस्मेदृशाः संस्कारास्तस्य मनसि बाल्य एवं पतिताः। अनया रीत्या प्रतिदिनं धर्मपरिणतचित्त इन्दुकलावद् वृद्धिमियाय सः इत्थं जननीजनकौ पुत्रमुखं दृष्ट्वा स्वीयान् सुखमयान दिवसान व्यतीयतुर्वालस्य संवर्धनं प्रेम्णा नित्यशश्चक्रतुश्च / इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्र देशोद्धारकपन्यासपदधारिगणिवर्य हिम्मतविमलशिप्यशान्तमूर्तिप्रवर्तकश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिर्भाधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते तृतीयं प्रकरणं समाप्तम् // सर्वजीवसंघातायुःक्षपयितरिकाले स्वकार्य कुर्वति कौमारावस्थावस्थितामरचन्द्रमध्यापयितुं श्रेष्ठयैच्छत्तदा ज्योतिर्विदं गणकमाहूय बालस्य पाठशालागमनमूहूर्त पप्रच्छ, तदा तदादिष्टकालमनुसृत्य शुभदिवस| शुभशकुनवारादि ज्ञात्वा वादित्रध्वानपूर्वकं स्वबांधवैः सह स्वयमेव श्रेष्ठी पाठशालां गत्वा बालमध्यापयितुं पडसमहरू 6.5. 11.1961.165 Page #21 -------------------------------------------------------------------------- ________________ मुमाच / तत्रस्थवालानां मनस्तुष्टये शर्कराप्रसृति भृत्वा भृत्वा सर्ववालेभ्यो ददातिस्म, तस्याध्यापकमपि चन्दनादिना संपूज्य तस्याय उपदां धृत्वा बालं वन्दयित्वा तत्र मुक्त्वा सदारः श्रेष्ठी स्वगृहमाजगाम / अध्यापकोऽपि तस्य शिक्षणाय पट्टिकायामक्षराणि लिखित्वा तस्मै ददौ, बालोऽप्यमरचन्द्रःस्वस्य बुद्धिप्रागल्भ्येन प्रत्यहं स्वस्याध्ययनकुशलतां दर्शयामासाध्यापकाय / तस्याध्ययनतीव्रतां बुद्धिमत्तां चावलोक्यो पाध्यायस्यापि तदुपरि स्नेहाविर्भावोऽभूत् / तत्समयानुसारिणी पद्धतिमनुसृत्य तत्र पाठशालायां वाचनां| कगणितक्रमे शनैः शनैश्चित्तं दत्त्वा सर्व स्वमनीषायां धारयामास / अमरचन्द्रोऽप्यन्येभ्यगृहस्थवालानां पंक्तिषु चाभूत् / अतएवोपाध्यायस्यापीतरगृहिवालेष्विव तस्मिन्नपि ताहगेव द्रष्टिरभवत् / पाठशालातो मध्यान्हविसर्जनसमये सर्वे बालाः पाठशालातो निर्गच्छन्ति तदा खाद्यपदार्थेषु भोजनरुचिर्जायते तनु स्वाभाविकम् / तत्समयानुसारिणी पद्धतिमादृत्य श्रेष्ठी स्ववालाय खाद्यमादातुं प्रत्यहमाणकद्वयं ददातिमा विद्योपार्जनशीलस्यामरचन्द्रस्य संवर्धनं कुलीनगृहस्थस्येवाभवत् / अत एव स्वस्मै पित्रा दत्तं यदाणकइयं / तस्मात्खाद्यवस्त्यानीय तत्र स्वमित्राणि दायादांश्चक्रे / एतेनामरचन्द्र H स्वमनस्यानदं मेने। आनंदोऽन्येतादृशं वस्त्वस्ति हि तस्य व्यक्ततां विनातस्य भोग्यत्वं न जायते, अत एव तस्य व्यक्ततादर्शनाय स्वकी Page #22 -------------------------------------------------------------------------- ________________ णितं वस्तु सर्पमित्रेभ्यो ददातिस्म / विद्योपास्ति कृतवतोऽमरचन्द्रस्य पाठशालायामध्यापकेनैतादृशो नियमो विज्ञापितो-यः कश्चन च्छात्रः पाठशालां प्रथममेव समागच्छेत् स प्रथमांकस्थानमेवाश्रयेत्। तस्य प्रथमांकचरि- संपादने मनस्येतादृशी तीवेच्छा समजायत यथा प्रभात उत्थाय वीतरागप्रभु स्मृत्वा स्नानादि नित्यकृत्यं विधाय भोजनादि कृत्वा प्रत्यहं शुद्धवस्त्राणि परिधाय सर्वच्छात्रेभ्यः प्रथममेव पाठशालां नित्यशो गच्छतिस्म, स एव प्रत्यहं पाठशालायां प्रथमांकमाददातिस्म / शनैः शनैरेवं सोऽप्यभ्यासं विधाय पंचभपाठयपुस्तकाभ्यासं समाप्तवान् / अनया रीत्या तस्याभ्यासक्रम उज्वलतां प्रातः सर्वजनानां संतोपोद्भावकश्चाभूत् / तस्य पिता वीरसेनस्तस्य बुद्धिविकसनं यथा भवेत्तथाविधमेव प्रयत्नं चकार // किंच रमणीयताविलसितस्य नगरस्य गंधादिसिक्तं निधूलिकं राजपथं सायं भ्रमितुं सपुत्र एव र प्रत्यहं जगाम / पथि प्रचलनसमये श्रेष्ठी स्वपुत्रेण यः पाठशालायामभ्यासः कृतस्तविषयकानेव प्रश्नान् पप्रच्छ वालम् / एवं स्वात्रशिक्षणकार्ये प्रत्यहं स रसज्ञ आसीत् / यदाऽमरचन्द्रस्य शिक्षणं पूर्णतामवाप तावतस्य मानसिकमवृत्तीनामपि शुभतत्त्वानि शनैःशनैरुद्घाटितानि संजातानि, तदा सूक्ष्मा महती च - प्रकृतिः शरीररचनया महोदासतां प्राप्ता तस्य मनसि स्वतंत्रतया स्थिता रुचिररुचिरपि स्पष्टतया शरीरेण हाहाहाहरूपमापारकर Page #23 -------------------------------------------------------------------------- ________________ ह मह नादात्म्य बना ! पुरुषार्थचतुष्टयस्य भूमिर्यन्मानुषं शरीरं तदुत्पादयित्रोः पित्रोरुपरि तस्य परमपूज्यता परमादरच साहजिकः शरीरेण सहैवाजायत / सुश्रावकाणां सामायकादीनि नित्यकर्माणि प्रकृतिप्रतिबद्धानि. तथा नित्यकर्माङ्गवत् मायं प्रातो मातापित्रोरभिवादनं सुशोलतया विदधातिस्म, रात्रौ यदा स्वापं कर्तु गच्छति शय्यायां तदादौ पितृवन्दनं नित्यशः करोतिस्म / इत्येवं तस्य चित्तं धर्मकार्य सरागतामनुवभूव / Mमातृदेवो भव, पितृदेवो भवाचार्यदेवो भवेत्यादीनि वाक्यानि शास्त्रेषु बहुशः श्रूयन्ते जनमुखेभ्यश्च, परं तादृशसूत्रात्मकबोधपरिशीलिनाममरचन्द्रतुल्यानां केपांचिदेव सुपात्राणां हृदयेषु विलसितस्म सम्यग्बोधः। वीरसेनराजकुमार्योधर्मभावनाप्रतिकृतिः कीदृगासीदिति तादृशपुत्रचरितवर्णने धर्मभावनावान् पुरुषः को न जानीयात् ? अन्यच्च तस्य गृहे देववन्दनप्रचारोऽप्यपूर्व एवाभवत् / शुद्धचित्तादर्शकप्रभाते प्रत्यहमुत्थाय वीतरागा/ संस्मृत्य स्नानादि कृत्वा शुद्धवस्त्राणि परिधाय चैत्यं गत्वा तत्र वीतरागदर्शनं कृत्वा तं संपूज्य चोपाय गत्वा यदि साधवःसमागतास्तदा तेषां दर्शनं कृत्वा भोजनं कर्तव्यमिति तस्य गृहे नियमोऽभूत् ! कथं मनुष्यत्वलाभपंपादकजीवनदशायां प्रत्यहं भवार्णवतारकवीतरागमहावीरस्य ध्यानादि भवदावानलशान्तये श्रावकैरवश्यमेव कर्तव्यमिति ज्ञात्वा स प्रत्यहमकरोत् / शारीरिकशक्तीनां महत्वं मपाइप पर रहाहाहपहपहप सपा Page #24 -------------------------------------------------------------------------- ________________ विस्मृत्यात्मशक्तिविकपनमार्गे प्रवर्तितव्यं, स्वस्वभावे नम्रताङ्गीकरणीया, जनानां स्वाभाविकमनोनैवल्यश्री स्थितिप्रेरणयोद्भूतानां दोपाणां निर्णाशहेतवे त्रपात्वमङ्गीकरणीयं मनसि, देववन्दनं सानायकमतिक्रमणादिपरिधर्मसाधनं चलाघयतां जनानां पनःस मदमानादिदोषाः प्रवेष्टमवकाशं न लभन्ते. दृशानि सन्ति हि ते दोपास्तेषु कार्येषु जनानुपद्रोतुं न प्रवर्तन्ते, प्रवृत्ताश्च वा धर्मकार्यप्रभावात सत्वरं विधं। सेरन् / स्ववंशाचारे परंपरासेमागतदेवपूजानन्तरं भाले केसरयुक्तचन्दनस्य चन्द्रकः कर्तव्यतया प्रतिदिन प्राप्तः कर्तव्य एवेतिकर्तव्यताममरचन्द्रःस्वमनसि बालदशाया आरभ्य एव ज्ञातवान् / शिक्षणशालायामनेकप्रकृतिविलसिता बालाः समागच्छन्ति, तेषु बाल्यावस्थासाहजिकचापल्यादिदोपतयाभरचन्द्रमाले चन्द्रकं दृष्ट्वा तविषये ते वाला विरुद्धचर्चा बभूवुः परं तैश्च कृतामवगणनामवधूय स्वकुलाचारं पोष्टुमनाः र स्वपितृपरम्परामाप्तमाचारं दृढत्या स्वीकृतवान् / आजन्म सम्प्राप्तां कुलाचारभावनां जातुचिदपि न तत्या जामरचन्द्रः / एतादृशमानसिकवृत्तावेव जनानां संस्काराः प्रतिष्ठिता भवन्ति, तेषामेवांशेभ्यः स्ववंशकीर्तिलब्धेराग्रहः स्ववाणिज्यप्रदर्शनकुशलता स्वजातिजनप्रमोदकार्यकरत्वं स्वनिवासभूमिमहत्त्वख्यापनत्वं स्वदेशपक्षपातप्रेमाता च समुद्भवति! तदुपरितनलाभोऽप्येतादृशमानसिकमबाहेणैव जनानागात्मवृत्तौ निष्पद्यते॥ करपदहरमा हाहर PAHARYANA महत्या Page #25 -------------------------------------------------------------------------- ________________ SINGH तस्य मूल्यं तु न किमपि प्रतिपादयितुं शक्यते केनापि पितृजनपरंपरागतसुसंस्काराणां जनानां मन2 स्यनेकाः सत्प्रवृत्तयः स्फुरन्ति, वयं तान् गृहसंस्कारान् कथयामस्तादृशा मनोवृत्तयः सत्कुलीनानामेव प्रभवन्ति। शिक्षणशालायां प्रतिभावतां दीनबालानां पितृद्वारा पुस्तकादिवस्तुदानं तथा पाठशालाप्राप्तशिक्षणकरस्य च कारयामास सः / एतादृशी मनोवृत्तिस्तस्य बाल्य एव प्राप्तेति श्रूयते जनकद्वारा, बालोऽप्यमरचन्द्रः सर्वव्यसनेभ्यो निर्मुक्त एवाभवत् / ग्रहग्रस्त इव व्यसनाधीनो जातुचिदपि न बभूव / व्यसनशीलिनां छात्राणां सम्पर्कमपि स्वाभाविक्या मनस्वितया न सह इयं परिणतिरपि स्वगृहसंस्कारस्यैव फलम् / ऐहिकपारलौकिकसहायकर्तृकधर्मवशंवदानां जनानां संतानेषु कदाप्येतादृशव्यसनं न भवेदेव / एवं मातापितृपरंपरागतसचरितानां सद्धर्मवतां जनानां हृदयेषु सुसंस्कारा दृढा भवन्ति, तेनैव तेषामपि प्रजासु स्वस्वभावानु. करणत्वं बालानां वाल्यदशायामेव सुप्रतिष्ठितं भवति सुसंस्काराणाम् // इति श्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्रदेशोद्धारकपन्यासपदधारिगणिवर्यहिंमतविमलशिष्यशान्तमूर्तिप्रवर्तकश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धांतवाचस्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते चतुर्थ प्रकरणम् // महत्त्पत्य Page #26 -------------------------------------------------------------------------- ________________ अमृत तम परमश्रावकस्य वीरसेनश्रेष्ठिनः प्रवृत्तेविभागस्य ज्ञानमस्माभिरग्रेतनप्रकरणेन विदितं तथा परमसुशीलस्यामरचन्द्रस्य विद्याभ्यासः पूर्णतामा तदा तं स्ववाणिज्यकायें नियोक्तुमिष्टवान् श्रेष्ठी, तस्यारंभमपि बहुशशकार स स्वतनुजेनैव सह सर्वत्र जगामापणेऽपि स्वेन सत्रैव तं स्थापितवान् / व्यवहारिणां वणिजां व्यवहारप्रवृत्तावपि क्रयविक्रयरूपव्यवहारे तं युयोज / धर्मकार्यप्रवृत्त्यर्थ कदाचित् सभां गच्छेत् , जातुचित् समागतानां साधूनां व्याख्यानं श्रोतुं सपुत्र एव व्याख्यानमण्डपमगच्छत् / वीरसेनश्रेष्ठिनो मनसीदृशी तीवेच्छा समजायत कदा बुद्धिमन्तं मत्पुत्रं व्यापारकलाकुशलं धर्मकार्यनिरतं परोपकारकरणशीलमुचजनपरिचयवन्तं सत्वरं करिष्ये, परं सेच्छा तस्य पूर्णतां नाप. कथं तदिच्छाविघातकीं तस्य शरीरे ज्वरपीडा प्रादुरभवत् / तस्य तां निवर्तयितुं कौटुम्बिभिपजां द्वारा वहव उपाया युयुजिरे, परं स व्याधिस्तस्य शरीरेऽ. न्तिमतां प्रापत् / स श्रष्टिनः शरीरं कालमादकरोत्। स्वीयान् कौटुम्बिकजनानाप्तजनांश्च मित्रवगे च . परिदेवनवाछौं निक्षिप्य परलोकं गतवान् तस्यात्मा / वृक्षः पक्षिणां पुष्पपत्रछायाभिर्यथाश्रयदातास्ति तथाऽस्मिअगति सर्वमंसारप्रवृत्त्यनभिज्ञानां सुखदुःखादिद्वन्द्वमजानतां बालानां धनवम्रादिदानेन पिताश्रयदाता पोपकश्वास्ति. अत एव चिन्तागन्यमनमो बालाः पितृवृक्षच्छायामाश्रिताः मुखमनुभवन्ति, तत्सुख Page #27 -------------------------------------------------------------------------- ________________ ममरचन्द्रस्य संसारतापनिवारकपितृच्छत्रे विनष्टे यौवनप्रवेशात्प्रागेव सर्वचिन्ताशून्यायां कौमारावस्थायामेवादृश्यतां गतम्, तस्य पित्राधाराः सर्वमनोरथा भमाः। जनकमृतेरनन्तरं परलोकगतस्य पितुः संतोषार्थ कार्याणि विदधता सहोदरान्प्रत्यौदार्य दर्शयता स्वसंवन्धिजनेषु शिष्टतां वर्धयता व्यवहारकार्यावलोकनं , * कुर्वता जनताशुभंकराणां कार्याणां योग्यायोग्यं विचारतया स्वात्मानमसत्पथान्निवर्तयता सुपुत्रेणामरचन्द्रेणा नुत्तरं पितृतर्पणमिति विज्ञायते स्म / परोपकाराय सतां विभूतय इति वाक्यममरचन्द्रः पितृपरंपरागतभागधे| यवत् संजग्राह, जनकात्मनः प्रीत्यर्थ शुभकार्याणि कर्तव्यानीति तस्य मनोरथो नोपशमङ्गतः / तच्छुभसंकल्पपरंपरारूढः स लोकख्यात्यर्थ धर्मार्जनाय च पान्थजनोदन्यानिवारणाय सत्कूपादीनि कारयामास, चैत्यजीर्णोद्धारं जनमनोज्ञानवृद्धयर्थ पाठशालाच, सदाविहरणशीलानां साधूनामाश्रयार्थमुपाश्रयाश्च तेन निर्मापिताः / अकारणदयावता तेन दीनजनोपरि दयां कृत्वाऽन्नादि दत्वा संतोपिताश्च दीना एवं सत्कार्यरूपाअलिस्तेन पित्रेऽपिता / जनकाज्ञानुसरणं कुर्वतामरचन्द्रेण पितृयशःपरम्पराभ्युदयः स्वीकार्य एवेत्यपि पितृसंतोषजनककार्यममन्यत. जीवता मत्पित्रा यथा स्वव्यवहारकुशलत्वं संपादितं तथा मयापि कर्तव्यमिति / स्वमनसि निश्चिकाय सः॥ Page #28 -------------------------------------------------------------------------- ________________ अमृत तम् किंच वीरसेनश्रेष्ठिनो वणिग्वर्गेषु महती प्रतिष्ठासीत्। तथा वाणिज्यकार्येऽनेकानि मित्राण्यप्यभवन् / केचन तस्य पितरि परमप्रेमवन्तोऽपि / एवं पितृकृतसर्वजनस्नेहमयी रज्जु द्रढयितुमनाः सुपुत्रोऽमरचचरि-- न्द्रस्तथैव प्रवर्तते स्मैवं स्वपित्रोपार्जितां कीर्तिममरचन्द्रो मनोनैश्चभ्येन ररक्ष / इत्येवं परलोकगतस्य पितुः शुभं भूयादिति मनसिकृत्य सर्वकृत्यानि सुपुत्रेण तेन कृतान्यभवन् / इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्र देशोद्धारकपन्यासपदधारिगणिवयहिंमतविमलशिष्यशान्तमूर्तिप्रवर्तकमुनिश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धांतवाचस्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते पंचमं प्रकरणम् / / मनोरथप्रवाहेण नीयन्ते सर्वजन्तवः / प्रवाहं तं विभिद्यैव विधिरन्यत्तनोति च // 1 // ललाटलिखितां रेखां न माष्टुं प्रभवेज्जनः। इति विचार्य धीरेण वर्तितव्यं निरन्तरम् / / 2 / / युवावस्थासमारम्भे तस्थुषो नागरिकवणिजां मध्येऽग्रगण्यतामनोरथपरम्परामारचयतो जनकयश औ ज्वल्यलालसा सेवमानस्यामरचन्द्रस्य जीवनप्रवाहो वाणिज्यव्यवहाराच्छीघमन्यपथमेवाङ्गीचकार / तत्कारणं तु सामायकादीनि धर्मकार्याणि चैत्यवन्दनागुरुवन्दनादिसत्कर्माणि पितृपरम्पराप्राप्तानि मनागपि न तत्याज, Page #29 -------------------------------------------------------------------------- ________________ तेन धर्मभावनां भावयता पितुः पवित्राचरणेन पथा प्रचलता वाणिज्यं कुर्वता स्वपूर्वोक्तनित्यकर्माणि र परलोकगतस्य पितुः शान्त्यर्थ जातुचिदपि न विसस्मिरे / यथ वाणिज्ये मनोरुचिः शैथिल्यं प्राप्ता स्वनगर समागतसाधुजनानां मुखाजनिर्गतपरमवैराग्यवचांसि निशम्य प्रत्यहममरचन्द्रस्य चित्तं रंभात्वग्वदसारं | संसारं भावयतो निर्विवेद / आत्मकल्याणाय च तस्य श्रमणधर्मजिघृक्षा समजायत, तेन तथाविधशुभभावनया स्ववाणिज्यमपि शनैः शनैः समाप्ति नीतम् / अनेनैव व्यवहारेण नगरवणिग्जनेषु विविधजनश्रुतिरभवत् / परं च तं जनापवादं मनस्यगणयता तेन स्वापणस्य सर्वामपि योग्यां व्यवस्था निर्ममे। ततोऽमरचन्द्रः . स्वभ्रात्रा शकुनराजेन सह संसारमृगतृष्णकाजलपिपासावारणाय योग्यतां प्रापकाय साधुगुणविशिष्टसद्गुर्वन्वे षणाय च पारलौकिकाभ्युदयाय स्वनगराच शुभं मुहर्तमवलोक्य गुर्जरदेशस्थितराजनगरगमनाय निर्ययौ। र स्वगृहाइ धूमशकटनिर्गमनसमयमालोक्याग्निशकटगृहमागत्य स मूल्यं दत्त्वा राजनगरगमनपर्यन्तं प्रमाणपत्रं गृहीतवान् / ततो हस्तिनापुरसकाशात् कृशानुरथः समागतः, सायंसंध्यासमयश्चाभूत् / यथा लोके नवीना कन्या सभाग्योदयेन प्राप्तं वरं वरीतुं स्वशरीरपरिहितसर्व विभूपणशोभिता मातृगृहं प्राप्य मुदिता - भवेत्तथा संध्यारुणिताकाशभागवस्त्रेण स्वीयं शरीरं भूपयित्वा तारकागणैः सहोदयं यान्तं रोहिणीरमणं Page #30 -------------------------------------------------------------------------- ________________ तम वरीतुमिच्छुखिोत्कण्ठिताभवत् . तां च विलोक्य पादपोपरिस्थविहगा अपि सुस्वरं विवाहगीतानि गायन्त इव | शब्दानुचारयन्ति / एतादृशसमये शिवलक्ष्मीवरणायोत्सुकोऽमरचन्द्रः स्वभावाशकुनराजेन महानिस्थस्य कनिछवर्गेन्यपीदत् / अग्निस्थोऽपि लोहविशेपनिर्मिताध्वनि शीघ्रतया चचाल / अथ तत्राग्निरथस्थितिभाजां पान्थ. जनानामुपवेशनार्थ मध्यमोत्कृष्टकनिष्ठवर्गत्रयमस्ति मार्गद्रव्यव्ययानुसारेण / अत्र जगत्यां स्वनिर्मितपुण्यकर्मभी राजत्वं प्राता राजन्याय तथान्ये धनिनो व्यवहारकुशलास्तथा वादविषयनिपुणाश्च राजकायें राज्ञां मतिप्रदातारो सचिवास्तथा वादविषयेऽन्यत्रापि रूप्यकपंचशतपरिमितं येषां वेतनमस्ति ते सर्वेऽपि धूमशकटस्योत्तमवर्गे निपीदन्ति, तत्र सद्भाग्यवतां तेषां स्वशरीरसुखापादनमात्र एव धनव्ययं कुर्वतां मनःसंतोषार्थमुत्तमवर्गे | विविधरचनायुक्ताः पयका विगुत्प्रदीपाश्च खाश्च रचिताः सन्ति. मागे उदन्यावारणाय शीतलं जलमपि स्थापितं भवति. तत्र ते भाग्यवन्तस्त्रिगुणमूल्यं दत्त्वा निपीदन्ति / ये च मध्यमस्थितिमन्तस्ते द्विगुणमूल्यं दत्वा मध्यमवर्गे स्थानं लभन्ते, तत्र पूर्वोक्तोत्तमवर्गात् किंचिन्न्यूनमोपस्करत्वमस्ति / ये चात्र जगतिसामान्यजनाः सन्ति ते कनिष्ठवर्ग साल्पं मूल्यं दत्त्वा स्थानमर्जयन्ति, परं चोत्तगमध्यमवर्गयोर्जनबाहुल्यं न वर्तते, किंच कनिष्टवर्गे निपण्णानां जनानां महती जनबाहुल्यता वर्तते. यथाधुनिककाले सिनेमाप्रदर्श Page #31 -------------------------------------------------------------------------- ________________ सहकहरहवाबाहदाय पाइरहराकर नार्थमने के जना यथा सभृहयन्ति तदवदत्रापि जनसंमर्दो महता प्रमाणेन विद्यते / धूमशकटस्य तृतीयवर्गस्थानस्य नामधेयमांग्लभाषायां थर्डक्लास इति कथयन्ति जनाः / तत्र स्थाने केचन जनाः स्वस्वपादान है प्रसार्य प्रस्वपन्ति, केचन नर्मकर्मकुशला नर्मवचांस्युचायन्ति, केचिदद्विपंचाशत्पत्रात्मकं रक्तश्यामलितमंकान्वितं क्रीडनकवस्तु गृहीत्वा परस्परं रमन्ते रात्रिनिर्गमाय, केचन नर्मवचस्यट्टहासेन निद्रितजनानुपप्लवयन्तिस्म / धूमशकटस्य कनिष्ठवर्गस्थानं तु विविधस्वभाववज्जनसमुदायेन जगदर्पणमिव प्रतिभाति, कजनसमुदायेन येषामानन्दजिघृक्षा चेत्तत्रैव स्थातव्यम् / द्रष्टारोऽपि विविधस्वभाववतो जनाननुभवन्ति / एतादृशविविधस्वभावैर्मनुजैः पूर्णस्यामिरथस्य तृतीयवर्ग निषण्णोऽमरचन्द्रोऽपि स्वबंधुना शकुनराजेन सह पान्थतां विदधे / दीर्घप्रवासतया शकुनराजस्य सर्वसंकल्पशमनी निद्रा संप्राप्ता, अमरचन्द्रो जानदेवाभवत् , भाविचिन्तनां च चकार / अनलरथः स्वगतिशीघ्नतया प्रस्रवणगिरिमुल्लंघ्याम्रनिम्बमधुकप्रियंगुपादपैः पूर्णा गुर्जरभूमि प्रविवेश, धूमशकटमार्गमुभयतः शाहलभूमि सस्यपूर्णानि च क्षेत्राणि विलोक्य मरुभूमितः समागताः पान्थलोका जहृषुरानन्दं च लेभिरे / अमरचन्द्रोऽपि स्वभ्रात्रा सहावर्णनीयगुर्जरभूमिसौंदयं विलोक्य ननन्द / शनैःशनै राजनगराभ्यर्णता समागता / तदामरचन्द्रस्य मनसि नवीनमनो Page #32 -------------------------------------------------------------------------- ________________ स्था उत्थायोत्थायोपशमं गच्छन्तिस्म / अन्तताऽग्निरथो राजनगरं प्राप्य स्वस्थितिस्थाने स्थिरोऽभूत् / तदा अमृत- तत्र निषण्णा जना युगपत् खलकपोतन्यायेन स्वस्वस्थानेभ्य उत्तीर्णास्तदा पान्थमारवाहिनः किंकरा वेतचरि- नदानेन सर्वपान्थानामध्वनीनोपस्करं सर्वमनलरथस्थितिस्थानावहिनिष्कासयामासुः। ततः पान्था हय शकटसमुदायैः स्वस्वस्थानं प्रतिजग्मुः / अमरचन्द्रोऽपि शकुनराजेन सह तत्रासन्नविश्रामभुवनं प्राप्य / निवासं चकार / परोलक्षपरिपूर्णजनवजराजनगरस्य संस्तव उभयोमा॑त्रोर्यद्यपि नासीत्तथापि स्वबुद्धिप्रावल्येन तेजस्वितयामरचन्द्रः क्लेशं मनागपि नाप / अथैकस्मिन् दिवसे द्वौ भ्रातरौ नगरे भ्रमन्तौ चैत्यवन्दनं कुर्वन्तौ च राजनगरस्थितदेवशाहश्रेष्ठिनः पाटके स्थितं जैनोपाश्रयं गत्वा तत्र स्थितानां साधूनां / वन्दनां चक्रतुः / तस्मिन् समये तत्रोपाश्रये भविजनसंतारकः सर्वागमसंवेदी देशनादानचतुरस्तेजस्वी पन्यासपदधार्यनुयोगाचार्यों नाम्ना दयाविमलगणिवर्यो विरराज / कृपालुर्मुनिवरस्तदानीं स्ववन्दन| कोंस्तयोः सुखसमागमपृच्छां विधाय कुतः समागतौ किमर्थ चेत्यादिप्रश्नान पप्रच्छ, तदा तत्प्रश्नानुसारेणामरचन्द्रोऽपि भाषते स्म गुरो ! अहमिन्द्रप्रस्थवास्तव्योऽस्मि नाम्नामरचन्द्रस्तथाऽयमपि मभ्राताभिधानेन शकुनराजोऽस्ति / आवां स्वकर्मणा निम्नोन्नतगतिं गछतां जीवानां परमकष्टदायिचतुर्गतिसंसारोद हरयाकरहरररररररररररस पहा फरफरारा Page #33 -------------------------------------------------------------------------- ________________ हमारपरमपराय:५५सयपापल्या पर धितितीर्षया परमगुरु पदेशमयीं धर्मनीकां मृगयितुमागतौ स्वः / तादृशगुरोःसमीपे पारिवाज्यं गृहीत्वाऽऽत्मोन्नतिकरणाय निजगृहान्निर्गती स्वः / इत्येवं प्रश्नप्रतिवचनं ददावमरचन्द्रः, पश्चात् किंचित्कालं तत्र स्थित्वा गुरुवन्दनं कृत्या स्वभ्राना मह स्वावमोचनं प्रत्याययौ / गुरुप्रथमदर्शनसमय एवामरचन्द्रस्य गुरूपरि परं प्रेमाविर्वभूव, पश्चाच्छनी भ्रातरौ गणिवर्यस्य संगति विदधतुः। तस्य संसारनिवतेनकरी देशनां पुनः पुनः श्रुत्वा / तयोर्यथा यथा गणिवर्यस्य संगतिखर्धत तथा तथा गुरुं प्रति विशेषतः सद्भावना दृढीभूता समजायत / अमर- / चन्द्रस्य हृदये दीक्षाग्रहणवीजं नवपल्लवितमभूत् / ताभ्यां निश्चितं च यदि दीक्षा स्वीकार्या चेदस्मादगुरोरेव / / गृहणीया नान्यस्मात् / एतादृशशान्तमूर्तिसाधुलक्षणसंपन्नादस्माद्गुरोरेवास्माकं परमोद्धारो भविष्यति, अतोऽस्माद् गुरोरेव संसारोच्छेदकरी दीक्षां स्वीकार्य तस्य चरणकिंकरौ भूत्वा तस्याश्रयच्छायामाश्रित्य शिववर्त्मनि यतितव्यं लोककल्याणमार्गेऽपि च / एवममरचन्द्रः स्वमनसि निश्चिकाय / अथ कोऽसौ दयाविभलगणिरित्याकांक्षायां तस्य पट्टपरंपरां वक्ति-तपोगच्छपरंपरायाः षट्पञ्चाशत्तमे पट्टे स्थितस्यानन्दविमलसूरेः परंपरागतविभलगच्छस्थितपट्टधरः पन्यासपदधारी दयाविमलगणिरभवत् , तत्समये राजनगरश्रष्ठिषु मुख्यतया गणनां प्राप्तः श्रेष्ठी मनसुखनामापरश्च यमुनाख्यश्र, तौ द्वौ दयाविमलगणेः वशंवदावभूताम् / गणिवर्यस्य तत्समये राजनगरे Page #34 -------------------------------------------------------------------------- ________________ महती प्रतिष्ठाऽऽसीत् / तस्य पीयूपवर्षिणी संसारतापोपशमनी भव्यजनोबोधनदक्षां गिरं श्रुत्वा तत्स्था बहवो जना गणिवर्ये प्रमाविर्भावमातेनिरे। एकस्मिन् ममये गणिवों जनसदमि जनशान्तिकर्तृ व्याख्यानपरि- मुपाश्रयमध्ये चकार. तब्यणाय बहवः पौरजनाः संमिलितास्तव्याख्यानं यदा समातिमगच्छत्तदा नि खिलाः श्रोतारो जनाः काशी विशीर्णा बभूवुः / केवलममरचन्द्रः स्वभ्रात्रा सह तत्र निषण्णोऽभवत् / / सर्वजनविशीर्णनानन्तरं तो दो भ्रातरावेव गणिवर्यस्य दृष्टिपथं गतौ / तौ दृष्ट्वा तयोः शुभसंकल्पं दृढ़वैराग्यं चाकलय्य सर्ववस्तुनिःस्पृहो गुरुः “अस्ति किंचित्कार्य” मित्यपृच्छत् / तदा तत्प्रतिवचनेऽमरचन्द्र ऊचे-तत्र भवतां पीयूपवर्पिण्या वाचया चरितेन चावयोमनः परमं संतोषं प्राप्तम् . तत्रभवतो दीक्षाग्रहणलालसा नौ वर्ततेऽतो भवमोचिनी दीक्षा देहीति तस्यामृतकल्पानि वांसि श्रुत्वा गुरुस्तयोईडतां परीक्ष्य : सर्वसंघस्य सुमतिं गृहीत्या शुभं मुहर्तदिवसमवलोक्याष्टाहिकामहं कारयित्वोत्सवान्ते विक्रमसमयातीतवस्वेकनिध्यकमिते वर्षे मार्गशीर्षमासे शुद्ध पक्षे तृतीयातियो विधिपूर्वकं वादिननादपूर्वकं ताभ्यां पारिवाज्यं विततार गुरुस्तयोर्मध्य एकोऽमरचन्द्रो नाम्नामृतविमलश्चान्यः शकुनराजो नाना सुमतिविमलो बभूवालतः म्यशुभभाषायां पूर्णायां योग्यगुरुसंगमने संजाते नवीनमुनेरमृतविमलम्य मनसि महानानन्दः / पपपपपपपरययापपर Page #35 -------------------------------------------------------------------------- ________________ | समजायत / संसारतापोपशमनी गुरुच्छत्रच्छायामाश्रित्य द्वयोर्मुनिराजयोर्जीवनदशा क्याप्यवर्णनीया मंबभूव. पन्यासपदधारी दयाविमलगणिवाऽपि योग्यशिष्यतासंपादनदक्षी गुरुपरिचर्याकुशलौ विद्यासंपादननिपुणो शासनप्रभावको द्वौ शिष्यो समजायेतां तेनाप्यात्मानं धन्यं मेने। अस्मिञ्जगति देवं किमातनोतीति न केनापि ज्ञायते ज्ञास्यते वा, कथमिन्द्रप्रस्थवास्तव्यस्य धनिकव्यवहारिणः पुत्रस्य चारित्रलक्ष्मीवरणं / जनहितकरणं च व लोलुपतासक्तजनैवर्णितं गार्हस्थ्यसुखं च क्य, अनयोरंतरं निर्धार्य तेन सर्वधनिकवैभवं च परित्यज्य संसारसमुद्रतारिणी नौकासमा दीक्षा यद्गृहीता सैपा न स्वल्पा वार्ता, किंत्यतिमहज्जनचरितमीहगेवास्ति / अस्मिञ्जगति दीक्षागृहीतारो जना मतिभेदेन बहवः सन्ति परममरचन्द्रवद्धनिकवैभवं . त्यक्त्वा मायां च पदाहत्य चारित्र्यलक्ष्मी वरयितारः शासने विरलाः सन्ति // इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्र देशोद्धारकपन्यामपदधारिगणिवर्यहिम्मतविमलशिष्यशान्तमूर्तिप्रवर्तकमुनिश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्व चन्दनीयगणिवर्यामृतविमलचरिते षष्ठं प्रकरणं समाप्तम् // Page #36 -------------------------------------------------------------------------- ________________ <<<Page #37 -------------------------------------------------------------------------- ________________ मासी नावसत् परंतु शाहपुरनिवासिसंघजनैरादरपूर्वकं कृतां विनतिं श्रुत्वान्यमासचतुष्टयं श्रीनगरस्थितशाहपुरे मंगलश्रेष्ठिपाटकेऽकरोत् , तत्रापि चतुर्मासाभ्यन्तरे तत्रत्यजनान् सूक्ष्माणामपि तत्वानां निरूपकाणां ज्ञानपूर्णतादर्शकानां च महापुरुषाणां शासनाग्रयतासम्पादकानां पंचचत्वारिंशदागमानां व्रतं कारयित्वा "जनैख़ने कीदृगादरः कर्तव्य” इतिज्ञानमाहात्म्यं सम्यग् दर्शयित्वा तपश्चर्याप्रभावमपि सम्यक् संश्राव्य धर्मसूर्योद्योतेन जनमनःकमलान्युइघाटयामासिवान् / तृतीयां चतुर्मासीमपि तत्र श्रीनगर एव सोपानाश्रयनामकोपाश्रये तत्रपाटके पाटकजनाग्रहात सशिष्यो मुनिरकरोत् / तस्य गणिवर्यस्य वाणीप्रवाह एतादृशोऽभवत् तत्रत्यजना मुनौ स्नेहला बभूवुस्तस्य ज्ञानागाधतां व्याख्यानपद्धति चालौकिकी विज्ञाय सर्वे मोहिताः संजाताः। अत्रत्यचतुर्मास्यां तत्रत्यजनान् सिद्धितपसः प्रभावं ज्ञापयित्वा सिद्धितपोऽचोकरत् / अस्मिन् सिद्धितपसि पंचशतं जनानां समुदितमभूत् / तेपामग्रे तत्तपसो महिमानं व्याख्यौ / अस्मिन् / जगति महालब्धयः प्रोन्नताः शक्तयश्च पूर्वाचार्येमहाप्रयत्नैः संपादिताः सन्ति तपोबलात् , यतो जनैर्यथाशक्ति सिद्धितपसि यतितव्यं, तथैवैतानि तपांसि शास्त्रोक्तविधिना सौष्ठवेग साधर्णिकवात्सल्येन धर्मवत्सलतया चोद्यापनीयानि, यामुद्यापनां दृष्ट्वा जना ज्ञानाय प्रवर्तेरन् तथैवाचरणमपि कुर्युस्तपोमहिमानमपि। 10 Page #38 -------------------------------------------------------------------------- ________________ लम जानीयुरेतादृशेन गुरूपदेशेन सिद्धितपसो महान् महो जनैः समकारि, यस्योत्सवस्य व्यवस्थां श्रेष्ठी हुकमीचन्द्रो जोइतारामथाकुरुताम् / एवं त्रिवर्षमध्ये त्रिचतुर्मासी व्यदधान्मुनिः, तेषु मध्ये श्रीराजनगपनि रेऽनेकवाकार्याणि जनैः कारितवान् / तत्साये मुनिश्रीअमृतविमलस्य शास्त्राध्ययनशैली चागमानां चाभ्यासं विलोक्य तदानींतना जना मुमुदिरे, राजनगरीयसर्वप्रजा आगमोक्तवचनोपदेशेन धर्मसन्नाहवत्योऽभूवन् / इतो गणिवर्यस्य शब्दघोषमयो देशना प्रवर्ततेऽतोऽमृतविमलमुनेरभ्यासः संपूर्णतां प्राप्तः। अस्मिञ्जगति महान्ति प्रश्नप्रतिवचनानि प्रदातुं विद्यापीठेषु तथान्यासु पाठशालासु परीक्षा निष्णाततावश्यकी नास्ति, कथं जनानां प्रश्नप्रतिवचनशक्तिने परीक्षातो भवति, किंतु ग्रन्थतलस्पश्यभ्यसनादेव जायते। निमितपाठ्यपुस्तकेषु निर्धारितपुस्तकस्येयत्प्रमाणं वाचनं कृत्वा परीक्षोत्तीर्णानामध्ययनरीतिन सत्या, कथं / शास्त्रमर्यादया कस्यापि विषयस्य तलस्पर्थध्ययनमन्तरा जनाः शास्त्राणां पारंगमिनः प्रश्नपतिवचनदानसमय न जायन्ते / अस्मिन् समये मुनिश्रीअमृतविमलस्य बुद्धिरेतादृशी कुशात्रीयाऽभवद्यथा प्रश्नप्रतिवचनदानसमर्था जाता / अन्यच्च स यं यं विषयमंगीचकार तस्मिन् निष्णातो बभूव / स्वस्य स्वाध्यायार्थ विपुलानि साधनानि संरक्षणीयान्येवं तस्याक्तमभूत् / गणधरनिर्मितागमाभ्यासे पूर्णतया यति Page #39 -------------------------------------------------------------------------- ________________ तव्यं तेषामुपनिषदपि सम्यक्तया ज्ञातव्या, इति मत्वा शास्त्रतलस्पर्श्वभ्यासवान् समजायत / प्रत्यहं स शास्त्राभ्यासस्याग्रपथं ददौ, कथं जगति लोककल्याणायात्मनो शिवलक्ष्मीवरणाय च तेनाग्रे गंतव्यमासीत्। स मुनिः स्वाध्यायवलेन जगता निर्धारितमुच्चपदं प्राप्तः। विद्वज्जैनाचार्यनिर्मितग्रन्थानां तथा तथोत्तमपुस्तकानां परिचयोऽवश्यं कर्तव्य इति महाराजामृतविमलस्य मुनेः प्रशंसनीया पद्धतिरभवत् / एवं दीक्षाग्रहणानन्तरं तत्र श्रीनगर एव वर्षत्रयं समतीतम् , तदा तस्य विचारशैली पूर्णतां प्राप्ता स्वाध्यायोऽपि प्रबलो जातस्तस्य ज्ञानदृष्टिरपि शास्त्रार्णवागाधतलस्पर्शतां प्राप, तर्कशक्ती सत्यशोधनसमालोचनाप्यपूर्वासीत् / अस्मिञ् जगति साधनसंपन्ना जना यात्साहवन्तः स्युस्तर्हि किं किं न कुर्वन्ति ? जनोऽयं / जगति पांच तिककार्येषु चान्तरिकमनोविज्ञानशक्तिषु यादृग् विवर्धिषावाञ् जायते तादृशः संवर्धते निःसंशयम् / तस्यैवामृतविमलस्य मुनेः स्वाध्यायो यथा यथा समवर्धत तथा तथा तस्य कीर्तिरपि सर्व जनपदे विस्तृतासीत् / यत्र यत्र जनवजैः प्रार्थितश्चतुर्मासी न्यवसत् तत्र तत्र तस्य विद्वत्ता यौवनतां प्राप / | श्राविकाधावकवृन्दस्तस्य वचनमाधुर्यमयी व्याख्यां श्रुत्वा स्वजन्मावन्ध्यतां मत्वा स्वात्मानं च धन्यं मेने॥ हाहाहाहाहाहाहा.प.कहरू प्रमाण Page #40 -------------------------------------------------------------------------- ________________ इतिश्रीपरमपूज्यदीर्घतपस्वियोपद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहा राष्ट्रदेशोद्धारकपन्यासपदधारिगणिवर्यहिंमतविमलशिष्यशान्तभूर्तिप्रवर्तकमुनिश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाच स्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते सप्तमं प्रकरणम् // अस्मि जगति मुनिविहारो मुनिजनानां ज्ञानवाहल्याय भवति, यथा जलप्रवाहो नैर्मल्यं प्राप्नोति प्रवाहरूपेण स्वयमन्यांच निर्मलान करोति तथा विहरणशीला मुनयो ज्ञानोपदेशेन जनमनसां नैर्मल्यमातन्वन्ति / महाराजश्रीअमृतविमलस्य विहारेण तस्य विद्यासंस्कारेषु प्रावल्यता समजनि / एवं राजनगरे जनताग्रहात्रिचतुर्मासी क्रमशो व्यतीयाय, ततो गुरू राजनगराचतुर्मास्यनन्तरं शुभ मुहूर्तेऽन्यजन्यपदविविरहणाय प्रचचाल / प्रथमं ततो निर्गत्य पाटणनगरे चतुर्मासी व्यधात् , ततो विशनगरे, ततः पालनपुरे, ततो ग्रामाद् ग्रामं विहरतस्तत्र जनानां सुधासमानदेशनया शान्ति विदधत् सर्वत्र विजहार मुनिः, सर्वत्र जनानां जैनधर्मोपनिषदमुपदिदेश, जनमनःसु धर्मस्थापनां च कारयामास / यत्र यत्र महाराजो विजहार तत्र तत्र तस्य कीर्ति श्रुत्वा जना वृन्दशो भूत्वा तस्य देशनां श्रीतुं समाजग्मुगुरोर्मधुरवाणी च श्रुत्वा श्रा Page #41 -------------------------------------------------------------------------- ________________ सहसपहर वकाःस्वद्वादशवतपालने दृढवता बभूवुः / प्रत्याख्यानसामायकादिधर्मकार्येषु प्रेम्णा संयुयुजुः। इत्येवं तेषां मनसि धर्मबीजानि रोपयन मुनिः सर्वत्र विजहार / सर्वजनीनहितसमावेश आत्मनीनहितं समाविशतीति मत्वा सर्वजनकल्याणप्रवर्तन एव स्वमनीपोपयोग ददौ मुनिवर्यः / महाराजामृतविमलगुरोः परिचयवन्तो जना जातुचिदपि तं न विस्मरन्ति / तस्य स्वभावसौष्ठवतया संमीलनस्वभावतया च जनास्तस्मिन् स्नियन्ति स्मेत्थमनेकग्रामेषु विहरन गुरुरमृतविमलोऽनेकतीर्थदेवालयादिभिः पवित्रितं मरुभूमिस्थितं घाणेरावग्रामं प्राप्तवान् / तत्समये तस्मिन् ग्रामे पन्यासपदधारी साधुशुद्धव्रतपालनतत्परो गणिवयों देशनादानजनानां जननमरणक्लेशं वारयन् हेतविजयमुनिविरराज / तं समागतं विज्ञाय गणिवों बहुशस्तुतोष, सानन्दं स्वसन्निधौ चतुर्मासी कर्तुमाग्रहं च कृतवान् , तस्य तदाग्रहं विज्ञाय मुनिवर्योऽप्येतादृशमहापुरुषपरिचये लाभः संजायते प्रेमाविर्भावोऽपि परस्परं संजायत इति विचार्य तेन गणिवर्येण सह तत्रैव चतु. मासों विधातुं निश्चिकाय / तत्रान्योन्यपरिचयेन पन्यासपदवीधारी हेतविमलगणिवाँऽपि चामृतविमलमुनेविवेकनम्रतासहिष्णुतादिगुणवर्गेण गुणगृह्यत्वं चावलोक्य सोऽतीव तुतोष तस्मिन् मुनी, तस्य योगोदहनादिधर्मकार्याणि कारयित्वा सूचितवानेव गणिवों गुणिजनानां गुणप्रसुनसौरभ्यमत्र जगति कस्मि Page #42 -------------------------------------------------------------------------- ________________ अमृत श्चिदपि स्थानेऽनाकलितं न भवतीति / भवादृशाः समताजुषो जना आत्मसंस्मरणलीना भवन्ति, परं चात्र - सहस्थितत्वेन भवतां स्वभावो मया पर्यालोचितस्तेन मम तुभ्यं गणिपददित्सा संजायतेऽतोऽस्य ग्रामस्य चरि जनसंमति गृहीत्वा तुभ्यं गणिपदं दास्य इति मेऽभिप्रायोऽस्ति / एवं परस्परं वार्तयित्वा घाणेरावसंघतम् समस्तं समाहूय तमपृच्छत्-अद्य भवतां गृहांगणे महापंडित आगमवेत्ता पंचमहाव्रतधारी भवतः सर्वान् पावयितुमागतोऽस्ति, तस्य वैदुष्यं तादृशांश्च गुणान् समवलोक्याहं परितुष्टो मम तस्य गणिपददित्सा वर्तते, भवतां कीदृशी रुचिरस्तीति मह्यं विज्ञापयन्तु / तदा संघसमस्तजनैरुदीरितं यथा तत्रभवतामिच्छा तथा कर्तुं वयं सर्वे तत्पराः स्मः / अस्माकं गृहांगण आगत एतादृशः समयो वन्ध्यो माभूत् / अतो यथा भवता माज्ञा तथा यतिष्यामहे / तस्य ग्रामस्य संघसमस्तस्यामृतकल्पानि वचांसि श्रुत्वा पन्यासः संजहर्ष, सद्य र एव संघजनानष्टाहिकमहं कर्तुमादिदेश / महाराजस्याज्ञां प्राप्य तत्र जनैरुत्सवः समारेभे, तन्निर्मित आनन्दः सर्वत्र ग्रामे प्रतिगृहं प्रससार, अमृतविमलस्य गणिपदमहोत्सवे श्रीनगरात् संघवीत्युपाधिधारी श्रेष्ठिशृङ्खलच न्द्रस्तथा जोइतारामनामा श्रेष्ठी तथान्ये च संघजनाअपि सूर्यमलश्रेष्ठयादयोऽप्यामंत्रिता गृहस्थाः समागच्छन् / Ka घाणेरावपुरम् / एवं सकलसंघजनसमक्षं शुभ मुहूर्ते मुनिराजामृतविमलाय गणिपदवी प्रदा तदा तत्र 661 फफफफEN Page #43 -------------------------------------------------------------------------- ________________ ग्रामे प्रतिगृहमानन्द उल्ललास, तथा शान्तिस्नात्रादिकार्येभ्यः शासनशोभा समजायत जनेषु / अथ गणिपदप्राप्त्यनन्तरं गणिपदोपाधिधारिणा मुनिनामृतविमलगुरुणा मरुभूमिगतपवित्रतीर्थसेवनाभिलाषेण देवदिदृक्षया च पन्यासपदधारिश्रीहेतविजयमुनेराज्ञां प्राप्य घाणेरावपुरादन्यत्र विज / एवं मरुभूमौ कंचिदनेहसं विहृत्य पवित्रतीर्थानां दर्शनं च कृत्वात्मानं पवित्रीचकार गणिवर्यः / तत्र तत्र प्राचीनार्वाचीनभूमिगतपर्यावर्तन विलोक्य तथा सर्वेषां वस्तूनां क्षणभंगुरतां भावयन तीवसंवेगवान समजायत। एवममृतविमलगुरुं मरुभूमि विहरन्तं गणिवर्य पालनपुरवास्तव्यजना आदरपूर्वकं विनीतवन्तस्तदाग्रहान् मुनिवर्यस्तं ग्राममिर याय, तत्र मासचतुष्टयापि न्यवसत् / यत्र ग्रामे जैनशासनप्रभावको गणिवर्यावनेकचैत्यालयकर्तृणां मुख्यौ / श्रावकौत्तमौ वस्तुपालतेजपालनामानौ प्रादुरभूताम् / यदा गणिवों जगाम तं ग्रामं तदा तत्रत्यजना वादित्रघोषपूर्वकं पुरप्रवेशमहं कृत्वोपाश्रयं गतवन्तो मुनि लाभयित्वा सत्कारं चः / तत्र बहूनि धर्मकार्याणि शासनोन्नतिप्रदर्शकानि कारयामास जनान् / अत्र गणिवर्य उपधानतपसाभारंभ कारयति स्म / तत्र राज| नगखटनगरमहीसाननगरादिवासिनो जनाः संयुयुजुः / यथा प्रशस्यगुरूपासनबलेनानेकमंत्रतंत्रविद्यासाधकोऽनेकमर्यादारहस्यसाधनानि संशिक्ष्य विद्याविच्छिष्यो कृतकृत्यो भवति तथाऽऽनन्दितश्च भवति, इसस65666666महरुमा Page #44 -------------------------------------------------------------------------- ________________ सरकार तथास्मिन्नुपधानतपसि भविष्टजनानां समाज एतादृशगुरूपासनया सूत्रमर्यादारहस्यतपश्चर्यारूपसाधनानि | ज्ञात्वा जनुपां कृतार्थतां मेने। पालनपुरग्राम एतां चतुर्मासी कृत्वा निखिलगुर्जरभूमि पावयित्वा जनचितेषु धर्मवीजानि रोपयन् कतिचिवर्षाणि तत्र विजहार / ततः शौर्यवतां धर्मात्मनां च पादरजोभिः पवित्रितां सौराष्ट्र रामगच्छन् / अस्मिन् समये तत्र प्रसृतं ढुंढकमतं विलोक्य तन्मतदृढाञ्जनाननादितीर्थकप्रतिपादितधर्मशासनसमालोचनया सत्पथं दर्शयित्वा पुनर्मूर्तिपूजनप्रकारे समतिष्ठिपद् गणिवर्योऽतविमलः / एवं गणिक्योपदेशेन ढुंढकमतं विहाय मुनेः सुधासमानवाणीं श्रुत्वा जैनमङ्गीचक्रुर्जनास्तदनंतरं यस्याः क्षितेःप्रभावात् कौटिल्यप्रकृतिमन्तःपापिनोऽपिजनाचंद्रशेखरादयोऽपि स्वजीवनपरिवर्तनं विधाय शुद्धाः / / संजाताः, यत्र परमभव्यजनसंतारका आदिनाथादयस्तीर्थकरादयश्र कोटिशो मुनयोऽपि प्रभूतवर्षाणि तपांसि कृ- खात्मोन्नतिं साधयामासुस्तत्र भूमौ शत्रंजयगिरिराजतीर्थस्य यात्रार्थ गणिवर्योऽगच्छत् / अत्र शत्रुञ्जये स नव| नवतिकृत्वो यात्रां विधाय तीर्थकरभगवतांपुनःपुनदर्शनं कृत्वा स्वात्मानं विशेषतोनिर्मलीचकार / अत्र चतुर्मा स्यवधिप्रागतं विज्ञायान्यत्र गमनसमयोऽद्य नास्तीति मत्वा तत्र तीर्थ एव चतुर्मासी न्यबसत् / तत्र पालितानन गरेऽष्टाहिकमहोत्सवशान्तिस्नात्रादिधर्मकार्याण्यनेकशःकारयित्वा धर्मोद्योतं मुनिश्चकार / अन्ततः कार्तिकमा यस्य Page #45 -------------------------------------------------------------------------- ________________ सपूर्णिमावधि तत्र स्थित्वा ततो विजहार च वलभीपुरं समागतवान् / अत्र पुरे पंचचत्वारिंशदागमान् / महामुनयो लिलिखुः / तत्रत्यजना मुन्यागमनसमये वादिननादपूर्वकं मुनेः सन्मानं कृत्वा स्वग्राम प्रति प्रवेशयामासुरुषाश्रयं गत्वा तन्निमित्ता बहुशः प्रभावनाश्वक्रुश्चान्नजलादिना सशिष्यं मुनि सत्कृतवन्तश्च, तेन मुनिनाऽत्र चतुर्मासी कृता, नागराञ् श्रावकान् घटवतं पञ्चचत्वारिंशदागमत्रतं कारयित्वा धर्मोन्नतिचक्रे, ततो नागरा विहरणतत्परं गणिवरं विज्ञाय पुनरत्रैव चतुर्मासीं कर्तुं बहुशः प्रार्थनां चक्रुः / परं चामृतविमलगणिवर्यस्य समयदेशेषु जैनधर्मप्रवृत्तिकर्तृत्वं प्रियतरमभवत् , साधुजनेरेकन स्थले न वस्तव्यमिति मत्वा च पौरान सान्त्वयित्वा धर्मप्रवर्तनाय ततश्चचाल मुनिः / वलभीपुराइ विहृत्य मेवाडमालवादिदेशजिगमिषा समजायत, ततःप्रथमं रतलामनामकं ग्रापं मुनिः प्रतीयाय / तत आदिनाथस्य तीर्थस्थलं नाम्ना केसरियाजीति प्रसिद्धं वर्तते, तत्रादिनाथस्य जगदन्धतमसनिवारिणी श्यामलां मूर्ति निरीक्ष्य बहुशो पन्दनं कृत्वा स्वात्मानं पवित्रीचकार, मेवाडदेशेऽपि कतिचित्समा विजहार मुनिः / ततो गुर्जरप्रजानां विनयं विलोक्याणहिलपत्तनादिग्रामेषु विहरन् विशनगरं समागत्य : तत्रत्यजनताविनतिमाहत्य चतुर्मासी तत्रैवोवास, तत्राप्युपधानादितपांसि व्रतविशेषांश्च जनान् कारया Page #46 -------------------------------------------------------------------------- ________________ तम मास, स्वस्यामृतकल्पया गिरा जनानां भवभवतापोशमनं विदधे गणिवर्यः ततो विहृत्य स तारंगतीर्थ जगाम, यत्र पर्वतोपरि परमाईतश्रीमद्गुर्जरनरेशकुमारपालेन पारलौकिकीमुन्नतिं विधातुं धनचरि-व्ययेनाजितनायभगवस्तीर्थकरस्य भव्यः प्रासादो व्यरचि, यं विलोक्य जनाः स्वजनुपः साफल्यं मन्यते / तत्र प्रतिष्ठापित भगवतस्तीर्थकरस्याजितनाथस्य दर्शनं कृत्वा सशिष्यो मुनिः संजहर्थ / अत्र गणिपर्यस्यागमनं श्रुत्वा राजनगरीया श्रावकजना राजनगरगमनाय मुनि प्रार्थयांचकः / ततस्तारंगपर्वतानमुनी राजनगरं समाययो, श्रावकैः सह तत्रागत्य गणिवर्यः सोपाननामकोपाश्रयं गतवान् , तत्रैव च मापचतुष्टयमुवास। तदा स गणिवर्यश्चिति वान-लिलेभ्योऽपि क्लिष्टतमानि कर्माणि क्षपयितुं तप एव परमःगन्याः / / प्रभुमहावीरसमास्तीर्थकरा अपि क्लिष्टानिवर्हणाय तपसामेव मुख्यत्वं मेनिरे, तीर्थकरपदं प्राप्ताश्च, तथैवास्माभिरपि तपांसि संसाध्य क्लिष्टकोशमनं कृत्वा सिद्धिपदं प्राप्तव्यमिति विवेकं चकार। एवं विवार्य गणिवर्येणापि मासक्षपणं चके, एतत्तपोऽनन्तरं राजनगरीयश्रावकजनता तत्तपम उद्यापनायाष्टाहिकामहोत्सवो महता द्रव्य| व्ययेन कृतवती, तदोधापनविधिप्रदर्शिनी महतीं वरयात्रां निर्गमयितुं जनमनःसु प्रवृत्तिः संजाता, तत्समये | समग्रमप्याकाशं मेघान्तरितमभूत् / तदा चपलापि तां वरयात्रां निरीक्षितुं प्रवृत्तव पुनःपुनर्जनदृग्गोचरतां Page #47 -------------------------------------------------------------------------- ________________ | प्राप, धारासंपातलक्षणानि सर्वाण्यपि युगपत् संजातानि, विविधनादवती मेघगर्जनाप्यभूत् / तादृशी स्थिति विलोक्य जना भयनांतचित्ता अभवन् / तदानृतविमलगणिवों मेघगंभीरया वाचा जनान सान्वयन्नुवाच “भो जनाः ! चित्तभ्रान्ततां परित्यज्य भगवतस्तीर्थकरदेवस्य वरयात्रां निर्भयाः प्रसारयन्तु भवंतः / एषा वरयात्रा सर्वनगरं भ्रमित्या स्वस्थानं नागमिष्यति तावन्मेघस्य पृषतोऽपि न पतिष्यति', गुरोरेतादृशानि प्रतापजनकानि वचांसि श्रुत्वा कतिपयानां जनानां मनःसु श्रद्धा पदं न दधी, भविष्यद्धारासंपातानां सर्वाणि चिन्हानि खगतानि स्पष्टतया लुलोकिरे, विद्युल्लतापि श्यामलितमाकाशं दीप्तिमचके, भयोत्पादका घनस्वना अपि समजायन्त / एवगंबुदपातसमयेऽभ्यणे समागतेऽपि केचन गुरुवचनभाविकश्रावकास्तस्मिन् श्रद्धामभिसंधाय वरयात्रार्थ विचित्रवादित्रनादपूर्वकं निर्जग्मुरुपाश्रयात् / राजनगरस्य सर्वा अपि मुख्याः प्रतोलीवरयात्रां भ्रामयित्वा पुनः प्रत्यावर्तन्त जनास्तावद्गुरुवचनादेव मेघस्यैकोऽपि पृषतो नापतत् / श्रावकजनताश्चर्यवती संजाता गुरोर्वचनसिद्धि प्रत्यक्षामवलोक्याधिकं श्रद्धावती समभवत् / वरयात्रासमागतजना यावत्स्त्रगृहं न प्रातास्तावन्मेघवृष्टिः समभृत् / यदा गुरुवर्यस्य चतुर्मासी उंझानाम्नि ग्राम आसीत् तदा तत्पुरनिवासिभिर्जनवजैरुपाश्रयः संकीर्णोऽभवत् , महाराजो व्याख्यानपीठमाश्रित्य Page #48 -------------------------------------------------------------------------- ________________ वनसा व्याख्यानं कर्तुमारेभे, ततो व्याख्यानमध्यसमयानन्तरं गुर्जरभाषया कविभिनिर्मितानि तीर्थ करदेवयशोमिथितानि पद्यानि वनितान्दो मधुररागेण सदस्यगायतोचैस्तत्समयेऽवृतविमलगणिवर्यो 24 अमृतरि-वाचनसमये स्वमुखबद्धां मुहपत्ति हस्तकृत्य पुनः पुनः संगमर्द, पुनर्व्याख्यानारम्भः समजायत / तर गुरुवर्यस्यैतां चेष्टां विलोक्य तवृत्तांतजिज्ञासुभिः श्रावकैाख्यानसमाप्त्यनन्तरं पपृच्छे “गुरुदेव ! अत्रभवान् मुहपत्तिं पाणीकृत्य कथं मर्दितवान् ? तदा तज्जनानां गणिवर्येण प्रश्नप्रतिवचनं ददे-पालिताननगराभ्यण स्थितशत्रुञ्जयपर्वतोपरि भगवत आदिनाथस्य प्रासादे दीपशिखया वितानं ज्वलति / सम, तदनि शमयितुं मुहपत्तिर्मया पाणीकृत्य मृदिता, तेन वितानस्थितोऽनलः शान्तः। महाराजस्यैपा वार्ता सत्या किमिति निश्चेतुं जनजिज्ञासा संववृधे, तेषु कतिचिच्छावकास्तमिणेतुं विद्युयंत्रमुखेन l स्वसंस्तववतो जनानेतं वृत्तान्तं प्रच्छयामासुस्तदा तन्निवासिजनैस्तेनैव यन्त्रेण सूचितम्-अयं सर्वोऽपि वृत्तान्तः सत्य एव कुतोऽस्माभिर्देवाराधकपुरुषाः पृष्टाः तैरुक्तं वायुनिमित्तचलनेन वितानं दीपशिखां पस्पर्श, जज्वाल च, पश्चात् केन कारणेन शान्तोऽनल इति न ज्ञायतेऽस्माभिः। गणिवर्यस्यैतां चमत्कृति विलोक्य | तत्रत्यजनास्तस्मिन गुरौ श्रद्धावन्तोऽभवन् / एतादृशवचनसिद्धपुरुषस्य पादन्यासैः पवित्रितास्माकीनग्रा Page #49 -------------------------------------------------------------------------- ________________ | मभूमिर्महद्भाग्यं चास्माकमिति मत्वा ते जनास्तस्मिन् विशेषतो भावं दधुः। अस्य गणिवर्यस्यैतादृशेन प्रभावेणेष महान् तपस्वी देवांशवान् पुरुष इति च विज्ञायते स्म / ग्रामानामान्तरं गंतव्यं मुनिभिनॆकत्र Ka स्थातव्यमिति वार्ताऽन्यैव, पुनश्च विहारकर्तृणां मुनीनां यत्र ग्रामे विहारः स्यात्तत्र तत्र धार्मिककृत्यानि कर्त व्यानि, धर्मप्रवर्तनं विधातव्यम , जनताकल्याणाय चित्तप्रवृत्तिः कर्तव्या, सर्वथा लोकस्थितिरपि ज्ञातव्या. शिष्टजनैः सह संस्तवो विधातव्यस्तेभ्योजनेभ्यो मानप्रतिष्ठा सम्यक् संपादनीया। एतादृशेन नियमेन विहरणं मुनीनां फलदायकमन्येषां च हितकरं भवति, अस्मिञ्जगति बुद्धिवर्धकं च / गुरुवर्यस्यामृतविमलगणिवर्यस्य सर्वेऽपि विहारा एतादृशीं दृष्टिमवलंब्याभवन् इति विज्ञायते तस्य चरितैः॥ * इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्रदेशोद्धारकपन्यासपदधारिगणिवर्य हिम्मतविमलशिष्यशान्तमूर्तिप्रवर्तकमुनिश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्ववन्दनीय गणिवर्यामृतविमलचरितेऽष्टमं प्रकरणम् / / Page #50 -------------------------------------------------------------------------- ________________ SIL महाराजश्रीअमृतविमलगणिवर्योऽनेकदेशेषु विहारं विधाय तत्र स्थितानभव्यानपि स्वदेशनया धर्मकार्याण्युपदिश्य सुपथमारोहयित्वोपधानतपश्चर्यादि च कारयित्वा स्वजीवनोपयोगिनीमात्मकल्याणभावनां दृढीचकार / परमविद्वान् व्याख्यानवाचस्पतिगुरुवर्यपन्यासपदधारिदयाविमलगणिवर्यस्य पथा प्रचलनमृतविमलगणिवर्योऽपि जैनशासनस्योन्नतिं यथाशक्ति विदधे / तस्यामृतविमलस्य पवित्रपदानि यत्र यत्र भूमौ पतितानि तत्र तत्र तस्यामृतकल्पया गिरा जनानां मनांसि धर्माकुरितानि जज्ञिरे। ततो महाराजस्यान्तिमो निवासः श्रीराजनगर एवाभवत् / तस्य मुनेः शरीरे पक्षाघातनामकरोगः प्रादुरभूत् / तेनान्यत्र गमनशक्त्यभावात् सोपाननामकोपाश्रय एवोवास / तस्मिन् रोगग्रस्तशरीखानप्यार्तध्यानं नाकरोत् मनागपि / ध्यानं चतुर्विधं रौद्रमात धर्मध्यानं शुक्लध्यानं च / धर्मध्यानेन स्वर्ग लभते, शुक्लेन कैवल्यं प्राप्नोति, रौद्रेण नरकमार्तेन ध्यानेन तिर्यक्त्वं च-इत्यागमवचनानुसरणं कृत्वा किंचिदप्यातध्यानं नाकार्षीत्। कर्मकलनां विचार्य तपश्चरणमात्मस्मरणं च कृत्वा दिनानि गमयामास / तस्मिन् समये साध्वी जयश्रीः हुकमीश्रन्द्रश्च काचवलयविक्रेता छोटालालश्च सार्थवाहशृङ्खलचन्द्रादयो गृहस्था अपि सम्यग् वैयावृत्यं चक्रुः / शरीरपक्षाघातोऽपि विंशतिवर्षपर्यन्तमस्थात् तस्य शरीरे / गणिवर्यो यत्र यत्र मासचतुष्टयमवसत्तत्र तत्र Page #51 -------------------------------------------------------------------------- ________________ जना योग्यतया सत्कुर्वन्तिस्म, परं तस्य चित्ते या जैनधर्मप्रवर्तनेच्छा सा संपूर्णा नासीत् / यत्र गणिवयों व्यहात्तित्र धर्मप्रचारमकरोत् / धर्मकार्येषु तथा महाजनवृन्देषु बहुक्लेशवत्सु तेषूपदेशं विधाय मुनिस्तेषां : क्लेशान वारयामास, प्रभूतेषु स्थानेषु धर्मः किं वस्त्वस्तीति जना न जानन्ति, तत्र गणिवों धर्मोपनिपदम् बोधयित्वा जनान् धर्मकार्यपु प्रवर्तितवान् / प्रेम चाविर्भावयामास तत्र जैनजैनेतरेष्वपि सोऽमृतविमलगणिवों धर्मकार्याणि कारयामास, स यत्र यत्र चतुर्मासीमकरोत्तत्र तत्र तस्य सुधासमानगिरा कर्षिता लोका जैनजैनेतरा अपि देशनां श्रुत्वा हर्षिता अभवन् / भिन्नभिन्नग्रामेषु पृथक् पृथक् स्वभाववतां जनानां परिचयेन पवित्रविहारेषु जनतादरेषु मुनिवर्यस्यापि बुद्धेः कषारूढत्वं संजातमभूत् / कथं तेभ्यो धर्मोपदेशो दातव्यो कार्याणि कारयितव्यानि चैत्योपाश्रयादिनिर्माणं विधापयितव्यं तेषाममृतकल्पया गिरा तुष्टिः / संपादनीया चेति गणिवर्यस्य कर्तव्यमासीत् / अस्य गणिवर्यस्यामृतविमलस्य समये यः साधुसमुदाय आसीत् तत्समयेऽयं गणिवर्यः सुशीलः कृतागमाभ्यासस्तेजस्वी प्रतिभावान् मनीषी चाभवत् / स्वस्य जीवनसमये तपस्याधर्मोपदेशोपधानादिव्रतानि चागमत्रतानि वार्षिकतपांसि घटवतानि शत्रुजयनवनवतियात्रादि कारयामास / तेन धर्मोद्योतने स्वजीवनस्य सर्वोऽपि भागो गणिवर्यो दापयति स्म, तथा तीर्थ Page #52 -------------------------------------------------------------------------- ________________ तम् / कराणां गुणस्तुतिवर्णनस्तवनानि कवित्वख्यापनानि गुर्जररागनिर्मितपद्यानि बहुशचकार, जनेषु च धर्मरसमुत्यादयांचकार / अस्मादितगण्यपि धर्मकार्याणि तेनादरपूर्वकं विदधे गणिवर्येण / इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्रदे - शोद्धारकपन्यासपदधारिगणिवर्यहिम्मतविमलशिष्यशान्तमूर्तिप्रवर्तकमुनिश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधीशधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्ववन्दनी यगणिवर्यामृतविमलचरिते नवमं प्रकरणम् // विक्रमार्कसमयातीतांबुधिदिनिध्यकपरिमिते वर्षे गणिवर्यस्य चतुर्मासी पालनपुरनगरे जाता। तत्रत्यजना विमलगच्छीया बहवः सन्ति, तेषामतिप्रार्थनया मुनिस्तत्रैवोवास / तत्र मुनेश्चत्वारो मासा व्यतीतास्तनंतरं गणिवर्यस्य कीर्ति देशव्यापिनीं श्रुत्वा मरुभूमिस्थितशिरोहीग्रामवास्तव्यहुकमचन्द्रस्यात्मजन्मा नाम्ना हीरचन्द्रस्तत्रोपाश्रयमागच्छत्तत्समये व्याख्यानसमारंभः समजायत, ततो गणिवर्यो व्याख्यानपीठमारुह्य सर्वजनमनोन्धकारनिवारिणी देशनां सभासमक्षं दत्तवान् , तां देशनां श्रुत्वावसरं विलोक्य हीरचन्द्रः प्रश्नं विदधे “गुरो ! बंधमोक्षयोः किं कारणमस्ति, तद्विषयेऽहमज्ञोऽत एव भवन्तं पृच्छामि, तद्वाणीं श्रुत्वा Page #53 -------------------------------------------------------------------------- ________________ गणिवर्योऽयं जिज्ञासुरिति मत्वा तं युक्तिपूर्वकं सर्व समुपदेष्टुमारेभे हि मिथ्यात्याविरतिपंचयोगाः प्रमादा Hd बंधकारणमस्ति, केवलामलज्ञानलोचनैर्जिनैः कषाया अपि बंधकारणत्वेनोक्ता इति वेदितव्यम् , तत्र मिथ्यात्वं नाम जिनोक्तानां पदार्थानां यथागममश्रद्धानं तन्मिथ्यात्वम् , तद्विधा स्वभावाश्रयम् अग्राहिताश्रयं च, तत्रैकाक्षविकलांगिनां स्वभावमिथ्यात्वम् , तदेवासंज्ञिनामेकसंज्ञिनां द्वितीयं मतम् / तत्राग्राहितमिथ्यात्वं षोढा वर्तते एकान्तः संशयो मूढश्चतुर्थो विपरीतविनयाज्ञानादिभेदेन षट्प्रकारकमस्ति / तत्रैका| न्ताग्राहित्वं कीदृशं तत्कथयति / कालात्सर्वसमुत्पत्तिः, नियतेरपि कर्मणस्तथा नरचेष्टातस्तदेवैकान्तिकं मतम् / केचन वादिनः पदार्थान् भंगुराजगुः, केचन, नित्यान् मन्यन्ते, ते सर्व एकान्तपक्षमाश्रिताः, शब्दप्रधानविज्ञानपुरुषाद्वैतवादिनोऽपि एकान्तपक्षमेवाश्रिताः, ये मिथ्यात्वस्य संशयादिभेदाः प्रदर्शितास्तेऽ. प्यन्वर्थनामतो ज्ञेयाः। संक्षेपतस्तन् मिथ्यात्वं प्रदर्शितं, हे भविजनाः ! मिथ्यामोहस्य भेदा विस्तरतो / ज्ञेयाः। परिणामकृतसंख्या तु त्रिपष्टिस्त्रिशती च मता। अतस्तौ दशाविरतयो निरूपिता, योगा अपि पञ्चदश प्रोक्तास्तत्रगाणाःप्रमादाश्च जिनेन्द्रैःपंचविंशतिसंख्यानाः कषाया उक्तास्ते चबंधकारणं ज्ञातव्यं भविभिः।। मोक्षस्य स्वरूपं तु जीवकर्मणोरत्यन्तविश्लेपः, कर्मविश्लपस्य कारणं तु दर्शनज्ञानचारित्र्यत्रयम् , तत्र दर्शनस्य Page #54 -------------------------------------------------------------------------- ________________ चरि स्वरूपं तु जीवादिसप्ततत्त्वानां श्रद्धानं दर्शनं कथितं, तदर्शनं सूत्रे द्विधा निसर्गाधिगमभेदतः, ज्ञानं कर्मणां क्षयात् उपशमादपि, तवयं प्रत्येकं त्रिधा कथितं परमागमे पदार्थानां सम्यग्ज्ञानमवबोधः, स तु पंचधाऽस्ति, मतिश्रुती चावधिज्ञानं मनःपर्यवः कैवल्यं चेति / चारित्र्यं नाम पापक्रियानिवृत्तिर्बुधैः कथ्यते, तच्चारित्र्यं - जिनागमे सामायकादिभेदेन पंचधोक्तम् / एवं बंधमोक्षयोःकारणं संक्षेपतः प्रोच्य मुनिर्विरतः। कथं - मुनयो मितभाषिणः / तस्य वचनामृतं सादरं निपीय सर्वे सभास्थजनाः प्रसन्ना जाता हीरचन्द्रश्च पूर्व कर्मणां क्षयात् सद्य एव विरागं प्राप्य संयमग्रहणजिज्ञासां प्रदर्शितवान् गुरवे, संघजनानुमतिं गृहीत्वा गणिवर्योऽष्टाहिकमहोत्सवं दीक्षानिमित्तं कारयित्वा पंचद्विनवैकवर्षे पोपमासे शुक्लपक्षे तृतीयायां तिथों शुभसमयमवलोक्य गुरुः पारिवाज्यं ददौ तस्मै नाम्ना स्वशिष्यं हिंमतविमलं चाकरोत् / गणिवर्यस्यामृतविमलस्य प्रथमः शिष्योऽयं संजातोऽद्यापि जैनशासने सर्वसाधुमध्ये दीक्षापर्यायेण वयसाऽपि च वृद्धः पन्यासपदवीभृद् विस्तृतविनेयमंडलो विमलसंघाटकोऽस्ति, गणिवर्यस्यामृतविमलस्य शरीरे पक्षाघातादनन्तरं विक्रमसमयातीतवसुषड्नवैकवर्षे व्याधिर्वृद्धि प्राप्तो वपुःशैथिल्यं जातम, परं साधुमार्गानुयायित्वात् स्वधर्मानुष्ठानं स विधिवञ्चकार / अन्ततो भाद्रपदमासस्य कृष्णतृतीयादिवसः समागतस्तस्मिन् 23 Page #55 -------------------------------------------------------------------------- ________________ दिने मृति महोत्सवं मन्यमानो गणिवर्योऽमृतविमलः शरीरदुःखभयातृप्तिप्रमादादि त्यक्त्वा नवकारमंत्रस्मरणं कृत्वा वीतरागपथमनुसृत्यासारसंसारं विहाय परलोकमगमत, गुरुवर्यस्य शरीरं कालसादभवदिति वार्ता विद्युयंत्रवत् सर्वस्मिन् नगरे प्रससार, तत्क्षण एव श्रावकश्राविकाणां वृन्दानि सर्वप्रतोल्याः संभूय श्मशानयात्रार्थ निर्गतानि, गणिवर्यस्य मृतशरीरं काष्ठविमाने समारोप्य त्यागनेपथ्येनालंकृत्य शासनदेवता जयतु महावीरो विजयतामित्यादिगगनव्यापकान् भव्यशब्दानुचारयन्तो गुरोः श्मशानयात्रायै सहस्रशो जना भमहृदया गुरुशवदर्शनाय राजपथं समाजग्मुः / तस्मिन् दिवसे दीनजनान वस्त्रान्नदानानि दापयामासुः श्रावकजनाः, शवविमानाग्रे द्रव्यमपि विकीर्णमासीत, तद्दीनजनाः संजगृहुः / गुरोरियं भव्या श्मशानयात्रा श्मशानं प्राप्ता, तत्र चन्दनादिकाष्ठश्चितां रचयित्वा तत्र शबं संस्थाप्य हुताशनसादकुर्वजनाः / जनेषु पश्यत्सु क्रव्यादो नामामिः प्रचंडज्वालाभिर्गुरोर्मृतं शरीरं भस्मावशेष चकार, भूतानि भूतेषु विलीनानि जातानि, भाविकजनाःस्नेहेन नेत्रेष्वणि प्रसारयन्तः स्वस्वगृहं जग्मुः। एवं जैनधर्मतारकोऽदृश्योऽभूत् , तस्य कीर्तिकुसुमान्यत्र विस्तृतान्यभवन् , तेषु निषद्य निषद्य भव्यभंगा रसमास्वादयन्ति / गुरुवर्यस्यामृतविमलस्य कालधर्मप्राप्त्यनंतरं तस्य गणिवर्यस्य पट्टधरशिष्यश्रीहिंमतविमलगणिवर्यस्योपरि सर्वोऽपि विनेयव्यवहार Page #56 -------------------------------------------------------------------------- ________________ आपतितः, तं व्यवहारं सुस्थितमनसाऽवलोकयति सर्वदा / सोऽपि गुरुसच्चरणपथेनानुसरन् परलोकगतस्य / श्री गुरोरात्मनो यथा शान्तिर्भवेत्तथा स्वजीवनवृत्तांतं सर्वमपि धर्मकार्येषु योजयति / पन्यासपदधारिहिम्मत-२८ चरि- विमलगणिवर्यस्यापि शास्त्रावलोकनप्रकरणे शिष्यशिक्षणताधनि च मार्गदर्शित्वमपि सर्वममृतविमलगणि वर्यस्यैव भाति, तेन स गणिवर्यः सर्वशास्त्रकुशलोऽस्ति / सोप्यद्यतनकालावधि महता प्रयासेनानेकधर्मकार्याणि जनसमुदायसमक्षं विदधाति / विमलगच्छीयसाधूनां समुदाये हिम्मतविमलगणिवर्यस्य विनेयवातो महानस्ति, तस्य प्रथमशिष्यः श्रीनगरवास्तव्यः श्यामलपाटकनिवासी कौशेयग्रंथिनिर्माता डाह्याभाईतिनामा गणिवर्यस्य वचनमाधुर्य देशनाप्रकार त्यागप्रकारं चालोक्य संजातवैराग्यः पारिवाज्यं ग्रहीतुमना अभवत् , गणिवर्य च विनीतवान् , तेन स गुरुविक्रमार्कसमयातीत नवसतनबैकवर्षमिते काले तस्मै पारिव्राज्यं दत्तवान् तस्य नामधेयं च सारासारविवेककर्ता हंस इव हंसविमल इत्यकरोत् / तस्य द्वितीयो विनेयो . नाम्ना शान्तिविमलोऽस्ति, स योधपुरराज्यमर्यादास्थितजयतल्पनामकनगरवास्तव्योऽस्ति, तस्याभिधा तु क्षेमचन्द्र इति / तं दक्षिणदेशस्थिततले ग्रामे विक्रमार्कसमयातीतगुणवसुनकपरिमिते वर्ष ज्येष्ठमासशुक्ल- तृतीयायां संघजनसमक्षं वादिननादपूर्वकमष्टाहिकमहोत्सवं कारयित्वा दीक्षयामासे विधिपूर्वकम् / तस्य / Page #57 -------------------------------------------------------------------------- ________________ हिम्मतविमलगणिवर्यस्योग्रतपस्वी मुनिराजहंसविमल आसीत् तस्य शिष्यत्रयमस्ति, तस्य प्रथमशिष्यः प्रेमविविमलनामधेयो द्वितीयोन्यायविमलनामा तृतीयो हर्षविमलनामकश्चास्ति / पन्यासपदधारिणो हिम्मतविमलगणिवर्यस्य द्वितीयशिष्यः शान्तिविमलो नाम्नास्ति, तस्यापि विनेयद्वयमस्ति, तत्र प्रथमशिष्यो रत्नविमलाभिधेयो द्वितीयो देवविमलाभिधश्वास्ति / एवं विस्तृतशिष्यवर्गस्य सर्वोऽपि व्यवहारः पन्यासपदवीं धृतवतो. हिम्मतविमलगणिवर्यस्याधीनोऽस्ति, सवै शिष्याः कथं विनीता भवेयुः कया च पद्धत्याऽऽगमशास्त्रकाव्यन्यायादिशास्त्रेषु प्रवीणाः स्युरिति मनसि सर्वदा तेषां हितं चिन्तयति गुरुः, अत एव शिष्यवर्गीयां सर्वा धुरं स्वयमेक एवोदवहति, तस्य गणिवर्यस्य प्रकृतिः शान्ता सर्वजनहृदयंगमा व्यवहारकुशला च भवति, सर्वशिष्यवर्गस्यापि प्रियतरप्रभावा चास्ति / अद्य तस्य गणिवर्यस्य सेवायां सदाविरतः शान्तप्रकृतिगुरुवचन-3 पथप्रवर्तनशाली शान्तिविमलनामा मुनिरस्ति / गुरुदेवामृतविमलगणिवर्यस्य शरीरं काल बर्म प्राप्तम् , परं. / तस्यानुयायिविनेयवर्गोऽपि तस्य गृहिणः सेवकाश्च तस्य गुणवर्णनं कुर्वन्तस्तथा तेन कृतोपकारान् संस्मरन्ति नित्यशः, परं च बहूनि वर्षाणि संजातानि / तथापि ते गुरोर्गुणगणान् मनागपि न विस्मरन्ति / आत्मास्ति मृतिशून्यः प्रेमपात्रं गुरुदेवस्तथा भवतामात्मा यत्र कुत्रापि स्यात्तत्रेयं शिष्येण कृता गुणवर्णनकुसुममाला हाहाहाकारमहर Page #58 -------------------------------------------------------------------------- ________________ अमृत प्रेमाविर्भावपूर्वकं प्रथितात्रभवतां कंठसमारोपिता भवतु, इत्याशास्महे वयम् / ॐनमो अहे सर्वतीर्थंकराणां पादकमलेषु मम नतिः सर्वदास्तु, शारदा बुद्धिवैशद्यं च सर्वदा ददातु / इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्र . देशोद्धारकपन्यासपदधारिगणिवर्यहिम्मतविमलशिष्यशान्तमूर्तिप्रवर्तकमुनिश्रीशान्तिविमलविरचिते विमलगच्छाधीशधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाच स्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते दशमं प्रकरणम् // Page #59 -------------------------------------------------------------------------- ________________ * मुद्रणस्थानः वसंत मुद्रणालय घीकांटारोड, घेलामाइनी वाडी-अमदावाद. * मुद्रकः-चीमनलाल ईश्वरलाल महेता. Page #60 -------------------------------------------------------------------------- ________________ // इति श्रीअमृतविमलचरितं समाप्तम् //