________________ चरि स्वरूपं तु जीवादिसप्ततत्त्वानां श्रद्धानं दर्शनं कथितं, तदर्शनं सूत्रे द्विधा निसर्गाधिगमभेदतः, ज्ञानं कर्मणां क्षयात् उपशमादपि, तवयं प्रत्येकं त्रिधा कथितं परमागमे पदार्थानां सम्यग्ज्ञानमवबोधः, स तु पंचधाऽस्ति, मतिश्रुती चावधिज्ञानं मनःपर्यवः कैवल्यं चेति / चारित्र्यं नाम पापक्रियानिवृत्तिर्बुधैः कथ्यते, तच्चारित्र्यं - जिनागमे सामायकादिभेदेन पंचधोक्तम् / एवं बंधमोक्षयोःकारणं संक्षेपतः प्रोच्य मुनिर्विरतः। कथं - मुनयो मितभाषिणः / तस्य वचनामृतं सादरं निपीय सर्वे सभास्थजनाः प्रसन्ना जाता हीरचन्द्रश्च पूर्व कर्मणां क्षयात् सद्य एव विरागं प्राप्य संयमग्रहणजिज्ञासां प्रदर्शितवान् गुरवे, संघजनानुमतिं गृहीत्वा गणिवर्योऽष्टाहिकमहोत्सवं दीक्षानिमित्तं कारयित्वा पंचद्विनवैकवर्षे पोपमासे शुक्लपक्षे तृतीयायां तिथों शुभसमयमवलोक्य गुरुः पारिवाज्यं ददौ तस्मै नाम्ना स्वशिष्यं हिंमतविमलं चाकरोत् / गणिवर्यस्यामृतविमलस्य प्रथमः शिष्योऽयं संजातोऽद्यापि जैनशासने सर्वसाधुमध्ये दीक्षापर्यायेण वयसाऽपि च वृद्धः पन्यासपदवीभृद् विस्तृतविनेयमंडलो विमलसंघाटकोऽस्ति, गणिवर्यस्यामृतविमलस्य शरीरे पक्षाघातादनन्तरं विक्रमसमयातीतवसुषड्नवैकवर्षे व्याधिर्वृद्धि प्राप्तो वपुःशैथिल्यं जातम, परं साधुमार्गानुयायित्वात् स्वधर्मानुष्ठानं स विधिवञ्चकार / अन्ततो भाद्रपदमासस्य कृष्णतृतीयादिवसः समागतस्तस्मिन् 23