________________ दिने मृति महोत्सवं मन्यमानो गणिवर्योऽमृतविमलः शरीरदुःखभयातृप्तिप्रमादादि त्यक्त्वा नवकारमंत्रस्मरणं कृत्वा वीतरागपथमनुसृत्यासारसंसारं विहाय परलोकमगमत, गुरुवर्यस्य शरीरं कालसादभवदिति वार्ता विद्युयंत्रवत् सर्वस्मिन् नगरे प्रससार, तत्क्षण एव श्रावकश्राविकाणां वृन्दानि सर्वप्रतोल्याः संभूय श्मशानयात्रार्थ निर्गतानि, गणिवर्यस्य मृतशरीरं काष्ठविमाने समारोप्य त्यागनेपथ्येनालंकृत्य शासनदेवता जयतु महावीरो विजयतामित्यादिगगनव्यापकान् भव्यशब्दानुचारयन्तो गुरोः श्मशानयात्रायै सहस्रशो जना भमहृदया गुरुशवदर्शनाय राजपथं समाजग्मुः / तस्मिन् दिवसे दीनजनान वस्त्रान्नदानानि दापयामासुः श्रावकजनाः, शवविमानाग्रे द्रव्यमपि विकीर्णमासीत, तद्दीनजनाः संजगृहुः / गुरोरियं भव्या श्मशानयात्रा श्मशानं प्राप्ता, तत्र चन्दनादिकाष्ठश्चितां रचयित्वा तत्र शबं संस्थाप्य हुताशनसादकुर्वजनाः / जनेषु पश्यत्सु क्रव्यादो नामामिः प्रचंडज्वालाभिर्गुरोर्मृतं शरीरं भस्मावशेष चकार, भूतानि भूतेषु विलीनानि जातानि, भाविकजनाःस्नेहेन नेत्रेष्वणि प्रसारयन्तः स्वस्वगृहं जग्मुः। एवं जैनधर्मतारकोऽदृश्योऽभूत् , तस्य कीर्तिकुसुमान्यत्र विस्तृतान्यभवन् , तेषु निषद्य निषद्य भव्यभंगा रसमास्वादयन्ति / गुरुवर्यस्यामृतविमलस्य कालधर्मप्राप्त्यनंतरं तस्य गणिवर्यस्य पट्टधरशिष्यश्रीहिंमतविमलगणिवर्यस्योपरि सर्वोऽपि विनेयव्यवहार