SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आपतितः, तं व्यवहारं सुस्थितमनसाऽवलोकयति सर्वदा / सोऽपि गुरुसच्चरणपथेनानुसरन् परलोकगतस्य / श्री गुरोरात्मनो यथा शान्तिर्भवेत्तथा स्वजीवनवृत्तांतं सर्वमपि धर्मकार्येषु योजयति / पन्यासपदधारिहिम्मत-२८ चरि- विमलगणिवर्यस्यापि शास्त्रावलोकनप्रकरणे शिष्यशिक्षणताधनि च मार्गदर्शित्वमपि सर्वममृतविमलगणि वर्यस्यैव भाति, तेन स गणिवर्यः सर्वशास्त्रकुशलोऽस्ति / सोप्यद्यतनकालावधि महता प्रयासेनानेकधर्मकार्याणि जनसमुदायसमक्षं विदधाति / विमलगच्छीयसाधूनां समुदाये हिम्मतविमलगणिवर्यस्य विनेयवातो महानस्ति, तस्य प्रथमशिष्यः श्रीनगरवास्तव्यः श्यामलपाटकनिवासी कौशेयग्रंथिनिर्माता डाह्याभाईतिनामा गणिवर्यस्य वचनमाधुर्य देशनाप्रकार त्यागप्रकारं चालोक्य संजातवैराग्यः पारिवाज्यं ग्रहीतुमना अभवत् , गणिवर्य च विनीतवान् , तेन स गुरुविक्रमार्कसमयातीत नवसतनबैकवर्षमिते काले तस्मै पारिव्राज्यं दत्तवान् तस्य नामधेयं च सारासारविवेककर्ता हंस इव हंसविमल इत्यकरोत् / तस्य द्वितीयो विनेयो . नाम्ना शान्तिविमलोऽस्ति, स योधपुरराज्यमर्यादास्थितजयतल्पनामकनगरवास्तव्योऽस्ति, तस्याभिधा तु क्षेमचन्द्र इति / तं दक्षिणदेशस्थिततले ग्रामे विक्रमार्कसमयातीतगुणवसुनकपरिमिते वर्ष ज्येष्ठमासशुक्ल- तृतीयायां संघजनसमक्षं वादिननादपूर्वकमष्टाहिकमहोत्सवं कारयित्वा दीक्षयामासे विधिपूर्वकम् / तस्य /
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy