________________ येनाकारि सहस्रवर्षमखिलं दिव्यं तपः सादरम् // निर्दग्धा विपयाः समस्तजनतादुःखाकराः सर्वथा // कृत्वा घातिसमग्रकर्मनशनं प्रापे परं केवलम् / / सोऽयं नाभितनूभवो वितनुतां नित्यं प्रभुमंगलम् // 2 // चतुर्विशतिसंख्यायाः पूरकं पूर्णशान्तिदम् // वर्षमानं जिनं वन्दे मन्तिःक्लेशनाशनम् // 3 // पूणिमाचन्द्रतुल्यास्ये द्युति शौक्लीं दधत्यलम् / शारदा रमनाग्रं मे सदा तिष्ठतु याचिता // 1 // पन्यामपदवीं धत्ते योऽधुना मामको गुरुः // वन्दे हिम्मतपूर्व तं विमलं शिरसादरात् // 5 // __यम्य तु चरितं सर्व परमगुरुवर्यस्यामृतविमलस्य // तनोमि गद्यबंधेन तस्य प्रशिष्यशान्तिविमलः॥६॥ चतुर्दशराजलोकमध्यस्थितभूमंडले कुंडलाकारारुणनंदीश्वरक्षोदवरघृतवरक्षीखखारुणीवरपुष्करकालोदधिलवणाभिधानसमुद्रः परितो वलयाकार बेष्टिताः कुंडलारुणनंदीश्वरक्षोदवरघृतवरक्षीखवारुणीवरपुष्करखंडधातकिग्वंडजंबुढ़ापनामानः खंडाः सन्ति। तत्र क्षारसमुद्रपरिवेष्टिते जंबुद्वोपेऽस्ति भारतं नाम वर्पम् // __यत्र भूमिस्थितविपयव्यापिकीर्तितया, अपरदेशापेक्षया विविधसलीलनिर्झरक्लेदितानेकौपधिवजव्याप कपर्वतबातम् , अनेकविधनदनदीनां पयःपूरेण प्लावितकृषीवलभूमिप्रात्पन्नानेकजातीयधान्यराशिभिर्दत्तदारिमद्रयजलाजलि. शिलीमुखताराराजिताजनयनैः प्रतिस्थलं मागोंदर्यगालोकयतामिव नदनदीसरमां सोपानपं