SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ मुमाच / तत्रस्थवालानां मनस्तुष्टये शर्कराप्रसृति भृत्वा भृत्वा सर्ववालेभ्यो ददातिस्म, तस्याध्यापकमपि चन्दनादिना संपूज्य तस्याय उपदां धृत्वा बालं वन्दयित्वा तत्र मुक्त्वा सदारः श्रेष्ठी स्वगृहमाजगाम / अध्यापकोऽपि तस्य शिक्षणाय पट्टिकायामक्षराणि लिखित्वा तस्मै ददौ, बालोऽप्यमरचन्द्रःस्वस्य बुद्धिप्रागल्भ्येन प्रत्यहं स्वस्याध्ययनकुशलतां दर्शयामासाध्यापकाय / तस्याध्ययनतीव्रतां बुद्धिमत्तां चावलोक्यो पाध्यायस्यापि तदुपरि स्नेहाविर्भावोऽभूत् / तत्समयानुसारिणी पद्धतिमनुसृत्य तत्र पाठशालायां वाचनां| कगणितक्रमे शनैः शनैश्चित्तं दत्त्वा सर्व स्वमनीषायां धारयामास / अमरचन्द्रोऽप्यन्येभ्यगृहस्थवालानां पंक्तिषु चाभूत् / अतएवोपाध्यायस्यापीतरगृहिवालेष्विव तस्मिन्नपि ताहगेव द्रष्टिरभवत् / पाठशालातो मध्यान्हविसर्जनसमये सर्वे बालाः पाठशालातो निर्गच्छन्ति तदा खाद्यपदार्थेषु भोजनरुचिर्जायते तनु स्वाभाविकम् / तत्समयानुसारिणी पद्धतिमादृत्य श्रेष्ठी स्ववालाय खाद्यमादातुं प्रत्यहमाणकद्वयं ददातिमा विद्योपार्जनशीलस्यामरचन्द्रस्य संवर्धनं कुलीनगृहस्थस्येवाभवत् / अत एव स्वस्मै पित्रा दत्तं यदाणकइयं / तस्मात्खाद्यवस्त्यानीय तत्र स्वमित्राणि दायादांश्चक्रे / एतेनामरचन्द्र H स्वमनस्यानदं मेने। आनंदोऽन्येतादृशं वस्त्वस्ति हि तस्य व्यक्ततां विनातस्य भोग्यत्वं न जायते, अत एव तस्य व्यक्ततादर्शनाय स्वकी
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy